सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1715, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1715

६० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० १ अ० ५ सू० २३०
प्रतिनियतपदार्था हि ते। भवनावरोहाभ्यामेव तथा वचनात् । अन्यस्यान्यभावं
वदन्ती श्रुतिरेव गौणत्वं वदति। कारणांशभावव्यतिरिक्तस्थले तथैव प्रतीतेः।
तस्मात् तदाकृतिमात्रेण न स्वरूपान्यथाभावः ॥ २२ ॥
नातिचिरेण विशेषात् ॥ २३ ॥
उपपत्त्यन्तरमाह । तद्रूपता च नातिचिरेण । न बहुकालं तद्रूपता । कुतः।
विशेषात् । अन्नभावापन्नस्यैव बहुकालश्रवणात् । 'अतो वै खलु दुर्निष्प्रपतर' मिति ।
प्रापतरं प्रपतरं वा । वर्णलोपश्चान्दसः । अतस्तृतीयाहुतौ न चिरेणेत्यायाति ।
भाष्यप्रकाशः।
प्रतिस्वरूपं नियतेषु वाय्वादिष्वाहिते निविष्टे जीवे ताद्रूप्यभवनावरोहाभ्यामेव 'भूत्वे'त्यस्य
वचनात् । तदेव