अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1672, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १७
तस्मात् प्रश्ननिरूपणान्यथानुपपत्त्या सम्परिष्वक्त एव संस्कृतैर्भूतै रंहतीति सिद्धम् १
त्र्यात्मकत्वात्तु भूयस्त्वात् ॥ २ ॥
ननु कथं भूतसंस्कारमात्रत्वमवगम्यते, यावता प्रश्ननिरूपणाभ्यामप एवा-
वगम्यन्ते । नच तावन्मात्रसंस्कारकत्वम् । नियामकाभावात् । 'अस्थि चैव तेन
मांसं च यजमानः संस्कुरुत' इति विरोधाच्चेति शङ्कां निराकरोति तुशब्दः ।
भाष्यप्रकाशः।
'विरजा विपाप्मे'ति पदाभ्यां रजस्तमोनिवृत्तिरेवाशासिता, न तु सत्त्वस्यापीति सत्त्वस्यापि
निवृत्त्यर्थं तस्या आवश्यकत्वादिति । सिद्धमाहुः तस्मादित्यादि । होमे अपां गौणत्वस्य
परिहृतत्वात्, श्रौतन्यायस्योपदर्शितत्वात्, होमप्रयोजकानां पूर्वजन्मनीनानां निष्कामकर्मणामेव
संस्कृतसूक्ष्मभूतपोषकत्वात्,