सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1656, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1656

श्रीकृष्णाय नमः ।
श्रीगोपीजनवल्लभाय नमः ।
श्रीमदाचार्यचरणकमलेभ्यो नमः ।
श्रीमद्ब्रह्मसूत्राणुभाष्यम् ।
भाष्यप्रकाश-रश्मि-परिवृंहितम् ।
अथ तृतीयोऽध्यायः ।
प्रथमः पादः ।
तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥ १ ॥ (३-१-१)
सर्वोपनिषदां सिद्धो ह्यविरोधे समन्वयः ।
कथं बोधकता तासां स तृतीये विचार्यते ॥ १ ॥
भाष्यप्रकाशः ।
श्रीहरिर्जयति । श्रीगोपीजनवल्लभाय नमः । तदन्तरप्रतिपत्तौ रंहति
संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥ १ ॥ अथ तृतीयाध्यायं व्याचिख्यासवः सङ्गतिं वक्तुं
पूर्वाध्यायर्थं सारयन्तः प्रकृताध्यायर्थमाहुः सर्वेत्यादि । 'तं त्वौपनिषद'मित्यादिश्रुतेर्ब्रह्म-
ण्यु