सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1618, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1618

२१२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ४ अ० १० सू० २१
तत्र पूर्वपक्षमाह । मांसादि भौमं, पुरीषमांसादि तेजोऽब्बन्नप्रकृतिकम् ।
कुतः । यथाशब्दम् । अन्नमशितमित्यादिश्रुतितो निःसंदिग्धं प्रतिपादनात् ।
किमतो यद्येवं तदाह इतरयोश्च । वाचि तुल्यत्वान्न संदेहः । इतरयोर्मनः-
प्राणयोरपि भौतिकत्वं यथाशब्दम् । उद्गमश्रुतिस्तु स्तुतित्वेनानुवादपरा
भविष्यति । उपपादकश्रुतिबाधात् । तस्माद् भौतिकान्येव मनःप्रभृतीनीत्येवं
प्राप्ते ॥ २१ ॥
उच्यते-
भाष्यप्रकाशः ।
विप्रतिषेधजनितामाशङ्कां त्रिवृत्करणप्रसङ्गेनेदानीं निराचष्ट इत्यर्थः । तत्रेति सूत्रे । ननु सूत्रे
तद्बोधकपदाभावात् कथमस्यैतद्विषयत्वमित्याकाङ्क्षायां मांसादीत्यादिपदेन तत्संग्रहादेतस्य
विषयत्वाव