अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1616, कुल 2600 में से
संदर्भ में पढ़ें२१० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ०२ पा०४ प्र०९ सू०२०
एकवाक्ये उभयकरणस्य प्रतिज्ञानात् । जीवस्य तु त्रिवृत्करणानन्तरं शरीर-
संबन्धे कर्तृत्वात् । तस्मान्नामरूपप्रपञ्चस्य भगवानेव कर्तेति सिद्धम् ॥ २० ॥
इति द्वितीयाध्याये चतुर्थपादे नवमं संज्ञामूर्तिकॢप्त्यधिकरणम् ॥ ९ ॥
भाष्यप्रकाशः।
जीवस्य तत्कर्तृत्वं न वक्तुं शक्यते । शरीरसंबन्धोत्तरमेव तस्य बाह्यक्रियाकर्तृत्वस्य दृष्टत्वात्,
त्रिवृत्करणसमये हिरण्यगर्भस्याप्यनुत्पन्नत्वात् । यत्पुनः पुराणेषु
'नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनम् ।
वेदशब्देभ्य एवादौ देवादीनां चकार सः' ॥ इति
'सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः ।
विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक्' ॥
इति पठ्यते । तदपि पाश्च