सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1599, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1599

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १९१
भाष्यप्रकाशः ।
न्द्रियस्पर्शादिकं व्यापारः । नच नयनानां किरणाङ्गीकारे चक्षुषां व्यापकत्वापत्त्या 'अणवश्च'इति
सूत्रविरोधः शङ्कनीयः । अर्चीरूपाणां किरणानां सूर्यमण्डलाद्भेद्यस्य, 'आदित्यो वा एष' इत्यनुवाके
श्रावणात् तैरखिलमेरूत्तरदेशान् व्याप्नुवानस्यादित्यमण्डलस्य दशसहस्रयोजनपरिमाणरूपेण
तेषां तत्परिमाणाबाधकत्ववत् सूर्याध्यात्मिकचक्षुषः किरणानामपि तथात्वेन सूत्राऽविरोधात् ।
'तथा प्राणः' इत्यत्र प्राणेषु जीवातिदेशस्य सिद्धान्तेऽङ्गीकारात् सर्वशरीरे जीवस्येव सामर्थ्याद्वा
गुणाद्वा, व्याप्यङ्गीकारस्य वक्तव्यत्वात् । 'गुणाद्वाऽऽलोकवत्'इति सूत्रे आलोकस्य गुणस्वा-
ङ्गीकारात् तैजसस्य चक्षुष आलोक रूपगुणव्याप्यङ्गीकारेऽप्यदोषः । एवमपि सूत्राविरोधचाक्षुष-
रूपकार्यसिद्धयोः संभवात् । अत एव त्वचः सकलशरीरव्यापित्वमपि देवतासामर्थ्यस्पर्शगुणाभ्यां
युज्यते । अन्यथा तु सूत्रविरोधसार्वत्रिकस्पर्शानुभवबाधयोरन्यतरदापद्येतैव । तस्मान्नयनकिरण-
गमनादिद्वारिकैव प्रत्यक्षप्रक्रिया साधीयसी । या पुनरालोकेन मायाकार्यतमोजननप्रतिबन्धे कृते
ज्योतिरूपसूर्यदेवतया तदात्मकचक्षुषि सन्मुखाव्यवहितदेशस्थपृथुबुध्नोदराकारविशिष्टरूपे प्रापिते
सत्त्वप्रधानबुद्धेरन्तरेव तदाकारतासंपत्तौ अणुरूपं जीवं प्रति ज्ञानाश्रिताध्यात्मिकघटाभि-
व्यक्तेरेव चाक्षुषम् । दूरस्थगन्धशब्दयोस्तु वायुना घ्राणश्रोत्रसमीपप्रापणेऽन्तःसत्त्वात्मकबुद्धेस्तदा-
कारतासंपत्तौ ज्ञानाश्रिताध्यात्मिकगन्धशब्दाभिव्यक्तिरेव घ्राणजं श्रावणं च प्रत्यक्षमिति ।
आध्यात्मिकाधिभौतिकयोरभेदाच्च बाह्यघटाग्रहणनिबन्धनो दोष इति केषांचित् प्रत्यक्षप्रक्रिया ।
तत्रालोकेन तमोजननप्रतिबन्धकथनमनुक्तम् । 'यदा हि भानोरुदयो नृचक्षुषां तमो निहन्याद्' इत्ये-
कादशस्कन्धीयभगवद्वाक्ये तमोनिहन्तृत्वकथनात् । एवं ज्योतिरूपसूर्यदेवतायाः पुरुषचक्षुषि
विषयनिष्ठरूपप्रापकत्वकथनर्माप तथा । बहुषु पश्यत्सु तांस्तान् प्रतिरूपे प्रापिते विषयस्य नी-
रूपताप्रसङ्गेन पाश्चात्यानां तददर्शनप्रसङ्गात् । तद्दर्शनार्थं तस्मिन् विषये पुन रूपान्तरोत्पादनाऽऽ-
नयनादिरूपाऽप्रामाणिककल्पनप्रसङ्गाच्च । संध्यायामस्तं गते सूर्ये रूपप्रापकदेवताया गतत्वा-
च्चेदानीं घटाद्यदर्शनापत्तेश्च । न च 'निशि नेतिचेन्न संबन्धस्य यावद्देहभावित्वात्'इति तार्तीयीके
सूत्रे, अथ 'या एता हृदयस्य नाड्यः' इति नाडीरुपक्रम्य, 'अमुष्मादादित्यात् प्रतायन्ते ता आसु
नाडिषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ता' इति दहरविद्याश्रुत्या
रश्मिः ।
स्पर्शोति । आदिना पञ्चान्ये संबन्धाः । तथात्वेनेति अबाधकत्वेन । गुणत्वेति भास्वरशुक्ल-
रूपत्वेन तथाङ्गीकारात् । एवेति युक्त्यन्तराभावादेवकारः । नयनेति । आदिना नयनसंयोगः ।
एवकारोऽन्यप्रक्रियाव्यवच्छेदकः । सन्मुखेत्यादि गुणरूपे । सत्त्वेति तिष्यु । अन्तरित्यादि
करणान्तः । एवकारस्तु बाह्याध्यात्मिकघटव्यवच्छेदकः । तदाकारता पृथुबुध्नोदराकारता तस्याः
संपत्तौ । जीवं प्रतीति जीवभोगाय । वृत्तिरूपज्ञानेनाश्रित आधिभौतिकघटो यदा भवति तदा
वृत्तिगुणरूप आध्यात्मिकघटो भवति तस्याभिव्यक्तिः । एवकारस्तु तद्युक्त्या 'युक्तयः सन्ति
सर्वत्र' इति वाक्यात् । एवेति तद्युक्त्येवकारः । बाह्येति उक्तगन्धशब्दाश्रयीभूतघटाग्रहणनिबन्धनो
दोष इत्यर्थः । तम इति नृचक्षुषस्तमोजननप्रतिबन्धकथनम् । विषयेति । रूपमत्र पृथुबुध्नो-
दराकारः । नीरूपतेति निराकारताप्रसङ्गेन । तद्दर्शनं विषयादर्शनं तस्य प्रसङ्गात् । रूपा-
न्तरेति । पृथुबुध्नाकारोत्पादनेत्यादिः । प्रतायन्त इति तनु विस्तारे । सृप्ता इति । सृपु गतौ ।
१५ ब्र० सू० १०
1489