सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1596, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1596

१९० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ०२।पा०४। अ० ७।सू० १६
लोके स्वामिभृत्यन्यायेन जीवे भोगः फलिष्यति ॥ १६ ॥
इति द्वितीयाध्याये चतुर्थपादे सप्तमं प्राणवतेत्यधिकरणम् ॥ ७ ॥
भाष्यप्रकाशः।
च तत् । जीवभोगप्रकारबोधनार्थमेव तत्परिकरविचारस्य प्रकृतत्वात् । अत्र च तस्याधिष्ठातृत्वे
ऽभ्युपगते तस्य भोगासिद्धौ विचारवैयर्थ्यापात इत्याशङ्कायामाहुः लोक इत्यादि । श्रुत्य-
न्तरे, ‘स यथा महाराजो जानपदान् गृहीत्वा’ इति दृष्टान्तेन मुख्यप्राणांशभूतसत्प्राणानामपि
जीवपरिकरत्वेन स्वामिभृत्यन्यायसिद्धेस्तेन न्यायेन जीवे भोगो मुख्यमात्यरूपप्राणाधिष्ठा-
नादपि फलिष्यतीति न विचारवैयर्थ्यम् । तथा च करणांशा एव तस्य तासां चाधिष्ठातृत्वं,
भोक्तृत्वेन तु जीवस्यैवाधिष्ठातृत्वमित्यर्थः ॥ १६ ॥ इति सप्तमं प्राणवतेत्यधिकरणम् ॥७॥
अथात्र प्रसङ्गाज्ज्ञानप्रक्रियां वदामः । तत्र गीतायाम् ‘अधिष्ठानं तथा कर्ता करणं च
पृथग्विधम् । विविधाश्च पृथक् चेष्टा दैवं चैवात्र पञ्चमम् । शरीरवाङ्मनोभिर्यत् कर्म प्रारभते
नरः । न्याय्यं वा विपरीतं वा पञ्चैते तत्र हेतवः’ इति भगवता जीवक्रियमाणकार्यं प्रति पञ्च-
हेतव उक्ताः । तत्राधिष्ठानं शरीरम् । कर्ता जीवः, करणं बाह्यमान्तरं च नानाविधं, चेष्टाः
रश्मिः।
रामानुजाचार्यैस्तु ज्योतिरादिसूत्रमेतच्च सूत्रमेकमङ्गीकृत्य ज्योतिरादीनां प्राणवता जीवेन
च प्राणविषयमधिष्ठानं परमात्मन आमननातसंकल्पात् कुत एतदन्तमिति ब्राह्मणरूपान्नच्छब्दादित्यर्थः ।
माध्वास्तु जीवानां करणान्याहुः प्राणानिति । 'श्रहणो वा एतानि करणानि चक्षुः श्रोत्रं मनो
वागिति’ इति श्रुतोर्द्वितीयासा गतिः प्राणवदादिसूत्रद्वयेनेति । प्रकृतेति । ज्योतिरधिकरणे स्वतन्त्रा
देवतन्ना वा वागाद्याः स्वतन्त्रता ‘नो चेद्यागादिजो भोगो देवानां साञ्च चात्मनाम् । श्रुतमभ्यादितश्नत्वं
मोगोभ्यादेस्तु नोचितः । देवदेहेषु सिद्धत्वाज्जीवो भुङ्क्ते स्वकर्मणा’इत्यधिकरणमालायां श्रुत-
मित्यादी राद्धान्तः परमभोगस्य सिद्धत्वात् । तस्येति जीवस्य । भुज्येति जीव प्राणधारण इति
धातुपाठात् । ननु साक्षात्कृतो नेति चेन्न । ‘नैव किंचित्करोमीति युक्तो मन्येत तत्त्व-
वित्’इत्यादिजिज्ञासाधिकरणोक्तगीतावाक्येभ्यः । ‘अपश्यत्पुरुषं पूर्णं मायां च तदपाश्रयाम् । यया
संमोहितो जीव आत्मानं त्रिगुणात्मकम् । परोपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते’ इति च । एवेति
सूत्रे तृतीययैवेकारः । तस्येति श्रेष्ठवतो जीवस्य । तासामिति इन्द्रियाधिष्ठात्रीणां देवतानाम् ।
एवेति प्राणव्यवच्छेदकः । तथा च श्रुतिः ‘आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ इति ।
अत्रात्मोक्तः प्राणसहितो नोक्तः । न तु प्राणप्रयोजनमस्ति । ‘श्रोत एव’ इति सूत्रात् । तथाच गीता
‘श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते’ इति ।
इति सप्तमं प्राणवतेत्यधिकरणम् ॥ ७ ॥
नित्यज्ञाननिरूपणेनेन्द्रियतदधिष्ठातृनिरूपणेन च स्मृतं जन्यज्ञानं निरूपयितुमुपक्रमन्ते स्म
अथात्रेति । ज्ञानेति वेदान्तपरिभाषादौ दर्शनान्तरराद्धान्तीयाम् । उक्तश्रुत्यर्थं सोपबृंहणं
वक्तुमित्याशयवन्त आहुः तत्र गीतायामिति । अधिष्ठानं विषयविद्यया कारणम् ।
घटवद्भूतलमित्यादिखले । अधिष्ठानकारणं हेतुरित्यन्ये । यद्यपि तथाप्यव्यक्तिस्थानं शरीरमिति
मुख्यतया व्याकरिष्यते । कर्ता करणं च ‘आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ इत्युक्तश्रुतेः ।
आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रियमर्थेन ततः प्रत्यक्षमिति नैयायिकाः । मानसप्रत्यक्ष-
संग्रहार्थ श्रुतौ नोक्तम् । पृथग्विधं चक्षुष्प्रदादिना । चेष्टा व्यापारः तज्जन्यत्वे सति तज्जन्यजनको
1486