सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1592, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1592

१८६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ४ अ० ७ सू० १५
प्राणवता शब्दात् ॥ १५ ॥ (२-४-७)
यदधिष्ठानमग्न्यादि तत् किं स्वत एव, अन्यसहितं वेति संदेहः । किं
तावत् प्राप्तम् । स्वत एवेति । पूर्वोक्तन्यायेन तावतैव सिद्धेरनवस्थानाच्च देवता-
त्वव्याघातश्चेत्येवं प्राप्ते उच्यते । प्राणवता अधिष्ठितं वागादि । कुतः । शब्दात् ।
भाष्यप्रकाशः ।
ऽवधारित उच्चनीचभावस्य जडचेतनभावस्य बन्धमोक्षव्यवस्थायाः शुद्धब्रह्माद्वैतस्य च सुखेन
संभवादित्यर्थः ॥ १४ ॥
इति षष्ठं ज्योतिराद्यधिष्ठानाधिकरणम् ॥ ६ ॥
प्राणवता शब्दात् ॥ १५ ॥ अत्रापि पूर्ववत्सूत्रप्रयोजनं बोधयितुं संशयादिकमाहुः
यदित्यादि । स्वत एव, अन्यसहितं वेति स्वत एव वागादीनधितिष्ठति, मुख्यप्राणेन
सहितं वा सद् अधितिष्ठतीति संदेह इत्यर्थः । पूर्वपक्षे युक्तिमाहुः पूर्वोक्तेत्यादि । ज्योतिराद्य-
धिकरणेऽग्न्यादीनामेवाधिष्ठातृत्वसाधनात् तदधिष्ठानमात्रादेव वागादीनामिन्द्रियाणां व्यापारस्य
सर्वजीवसाक्षिक्यादेः सिद्ध्या इतरसाहित्यप्रयोजनाभावात् तदङ्गीकरणे च तस्याप्यधिष्ठात्रन्तरा-
पेक्षासंभावनेनाऽग्रेऽप्यपेक्षानुपरमेणाप्रामाणिकानवस्थानाच्च । किंचाधिष्ठेयत्वे तेषां देवता-
त्वव्याघातश्च । अधिष्ठातृत्वस्यैव देवतातत्त्वादित्यर्थः । सिद्धान्तं विवृण्वन्ति प्राणवतेत्यादि ।
मुख्यप्राणसहितेनाग्न्यादिनाऽधिष्ठितं वागादीत्यर्थः । नन्वनेन शब्देन कथं प्राणसाहित्य-
रश्मिः ।
त्यादिसूत्रीयम् । मुख्यश्च प्राण इतरप्राणवद्ब्रह्मविकार इत्यतिदिशति । न चाविशेषेणैव सर्व-
प्राणानां ब्रह्मविकारत्वं व्याख्यातम् । 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति सेन्द्रियमनो-
व्यतिरेकेण प्राणस्योत्पत्तिश्रावणात् । 'स प्राणमसृजत' इत्यादिश्रवणेभ्यश्च । किमर्थं पुनरतिदेशः ।
अधिकशङ्कानिरासार्थः । 'नासदासीत्' इति ब्रह्मप्रधाने सूक्ते मन्त्रवर्णो भवति । 'न मृत्युरासीदमृतं न
तर्हि न रात्र्या अह्न आसीत्प्रकेतः । आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किंचनास' इत्यादि ।
बन्धमोक्षेति । 'बन्धाय विषयासक्तं मुक्तं निर्विषयं स्मृतम् । अतो निर्विषयस्यास्य मनसो मुक्तिरिष्यते'
इति अमृतबिन्दूपनिषत् । 'अभिमान आत्मनो बन्धस्तन्निवृत्तिर्मोक्षः' इति हंसोपनिषत् । सुखेनेति
'सर्वं खल्विदं ब्रह्म' इति श्रुतौ परिणामवादमाश्रित्य कार्यकारणवस्त्वैक्यमर्पणेन घटो मृदितिवत्सुखेन ।
वेदस्तुतावपीदं सुबोधिन्यां स्पष्टमिति ॥ १४ ॥
इति षष्ठं ज्योतिराद्यधिष्ठानाधिकरणम् ॥ ६ ॥
प्राणवता शब्दात् ॥ १५ ॥ सूत्रेति । पूर्व सूत्रं यथा देवताधिष्ठितानामेव यमनं ख्यापयति
तथेदमपि प्राणवताधिष्ठितं वागादि न स्वत एवेति ख्यापयतीति प्रयोजनं बोधयितुम् । पूर्वोक्तन्यायमेव-
कारान्तं स्पष्टमाहुः ज्योतिरादीति । एवेति अन्यसहितपक्षव्यवच्छेदक एवकारः । तावतेति ।
भाष्ये तावतेत्यव्ययं पञ्चम्यन्तमिति भावः । कोशेऽव्ययेषु पाठात् । चादिस्वराद्योराकृतिगणत्वात् ।
अधिष्ठात्री देवतेत्येतावत्या वेदपुराणप्रसिद्ध्या तदधिष्ठातृत्वमेव देवतातत्त्वं तन्मात्रात् । एवकारोऽन्यसहित-
देवताव्यवच्छेदकः । इतरेति मुख्यप्राणेत्यर्थः । किं चाधीति । देवतान्तराधिष्ठेयत्वं तेषामग्न्यादी-
नाम् । एवेति प्रतिपाद्यव्यवच्छेदकः । घटः पट इत्यादौ व्यभिचारात् । अनेनेति सूत्रीयेण ।
1482