अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1571, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १६५
हस्तादयस्तु स्थितेऽतो नैवम् ॥ ६ ॥ ( २-४-२ )
पूर्वसंबन्धे उत्सूत्रं पूर्वपक्षः। तुशब्दः पूर्वपक्षं व्यावर्तयति । हस्तादयः
सप्तभ्योऽधिकाः 'हस्तौ चादातव्यं च, उपस्थश्चानन्दयितव्यं च, पायुश्च विसर्ज-
यितव्यं च, पादौ च गन्तव्यं च' इति। चक्षुरादिगणनायामेतेऽपि चत्वार इन्द्रिय-
त्वेन गणिताः। स्थिते सति श्रुतौ गणनया चक्षुरादितुल्यत्वे सति । अतो
हेतोः सप्तैवेति न, किंत्वेकादश । अवान्तरगणनासूचनयाऽसंभवाभिप्राया
भाष्यप्रकाशः।
सूत्रद्वयोर्विज्ञानमनसोरित्याह । तन्मन्दम् । अनयोरेकतरसूत्रस्य वैय्यर्थ्यापत्तेः । विज्ञानमनसी
इत्यत्रोपलक्षणविधया अन्येषामपि प्राणानां ग्रहीतुं शक्यत्वात् । अत्रापि प्राणमध्ये तयोरपि
निवेश्यत्वाच्चेति ॥ ५ ॥
इति प्रथमं तथा प्राण इत्यधिकरणम् ॥ १ ॥
एवमेतेनाधिकरणेन प्राणानां जीवतुल्यत्वं समर्थितम् । अतः परं तेषां संख्या निर्धार्यते ।
तत्र सप्तगतिसूत्रस्य संबन्धं केचन वदन्ति तदाहुः केचिदित्यादि । भाष्यं तु निगद-
व्याख्यातम् ।
हस्तादयस्तु स्थितेऽतो नैवम् ॥ ६ ॥ ननु सप्तगतिसूत्रस्य पूर्वाधिकरणशेषत्वे एत-
स्याधिकरणस्य कथं सिद्धिरित्यत आहुः पूर्वेत्यादि । उक्तप्रकारक एव पूर्वपक्षः, सूत्रं विहाय
उपरिष्टात् कर्तव्यस्ततः सिद्धिरित्यर्थः । व्याकुर्वन्ति तुशब्द इत्यादि । अत इति चक्षुरादि-
तुल्यत्वात् । ननु तर्हि सप्तादिगणनायाः किं प्रयोजनमत आहुः अवान्तरेत्यादि । सप्तगणना,
चक्षुस्त्वग्घ्राणरसनश्रवणमनोवाचामितरेन्द्रियापेक्षया बहुपकारकत्वेन प्राधान्यसूचनया । अष्ट-
गणना ग्रहपदरूपणया बन्धकत्वसूचनया । नवगणना अनाहृतनवद्वारसूचनया । दशगणना केवल-
रश्मिः।
ननु तथा प्राण इत्यत्र सर्वे प्राणाः, अन्तरा विज्ञानमनसी इत्यत्र द्वौ प्राणावित्यसामञ्जस्यमित्यत आहुः
विज्ञानेति । ग्रहीतुमिति लाघवेनेति भावः । अत्रापीति 'तथा प्राणः' इति सूत्रेऽपि ।
तयोरिति विज्ञानमनसोः । अत एकरूपत्वादुभयोरेकतरसूत्रस्य वैय्यर्थ्यापत्तिरिति ॥ ५ ॥
इति प्रथमं तथा प्राण इत्यधिकरणम् ॥ १ ॥
सप्त, केचनेति शंकररामानुजमाध्वाद्यः । निगदेति सप्त प्राणा इति मुण्डकेऽस्ति ।
अष्टाविति श्रुतिरार्तभागब्राह्मणेऽस्ति । एवमग्रेऽपि । सप्तानामिति मुण्डकेऽस्ति । एवेति श्रुति-
सत्त्वादेवकारः । विशेषितेति । शारीरकम्राह्मणे । स यत्र चाक्षुष इत्याद्वितीयकण्डिकायां सप्त
प्राणाः । तृतीयकण्डिकायां तस्य ह्येतस्येत्यादिरूपायां जीवस्योत्क्रमणमिति पूर्वापरयोर्विशेष्यविशेषण-
भावाद्विशेषितत्वम् । अन्य इति प्राणाः । एवं निगदव्याख्यातम् ॥ ५ ॥
हस्तादयस्तु स्थितेऽतो नैवम् ॥ ६ ॥ श्रुतिस्तु प्रश्नोपनिषदि । प्राधान्येति
द्वितीयमुण्डके 'सप्त प्राणाः' इत्यादिश्रुतिः 'सप्त शीर्षण्याः' तत्र प्राधान्यसूचनया । क्वचित्
सप्त जिह्वा इत्यत्र सप्त होमा इति पाठः । बन्धकत्वेति । मृत्युक़्तरूपकथने ब्राह्मणेऽष्टौ ग्रहा महा-
1461