सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1553, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1553

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १४७
भाष्यप्रकाशः।
तेन प्राचीनमाध्वमते राश्येकदेशत्वमंशत्वं फलति । वनमालिमते तु सादृश्याल्पत्व-
बोधनार्थत्वादौपचारिकमंशत्वं फलति 'प्रकाशादिवन्नैवं परः' इति सूत्रव्याख्याने च, यथा
तेजोऽशयोः कालाग्निखद्योतयोर्जलांशयोरमृतसमुद्रमूत्रयोः पृथिव्यंशयोर्मेरुपुरीषयोस्तत्तदंशत्वा-
विशेपेऽपि यथा नैकप्रकारता, किंतु सदसत्तया विवेकस्तथा मत्स्यादीनां रूपांशानां भिन्नांशानां
जीवानां च, एवं चांशत्वे तुल्येऽपि कालाग्नितेजसोरभिमानिदेवैक्यं खद्योतं चाभिमानिभेद
इति तत्कृतं वैलक्षण्यमित्याहुः ।
अत्रेदभवधेयम् । सूत्रे, 'नैवं परः' इत्यनेन यत्प्रकारको जीवस्तत्प्रकारकत्वं परस्मिन्निषिध्यते
प्रकाशादिदृष्टान्तेन । भवद्भिस्तु परस्वरूपविचारेण रूपांशानां तथात्व