सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1543, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1543

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १३७
फलसंबन्धः । जीवस्य च पुनरनेकदेहसंबन्धात् कः शूद्रः, का भार्येति ज्ञानमप्य-
शक्यमतः कर्ममार्गस्य व्याकुलत्वात् कथं जीवस्यापि दुःखित्वमित्याशङ्क्य
परिहरति ।
अनुज्ञापरिहारौ विधिनिषेधौ, जीवस्य देहसंबन्धाद् यो देहो यदा
गृहीतस्तत्कृतौ । यथा शवाग्निश्चण्डालभाण्डस्थमुदकं तद्घटादिश्च परिह्रियते ।
एवमुत्कृष्टं परिगृह्यते । तथा जीवेऽपि देहसंबन्धकृतः । संबन्धश्चाध्यासिको
भगवत्कृतश्च । आध्यासिको हि ज्ञानान्निवर्तते । द्वितीयो भगवतैव । जीव-
न्मुक्तानामपि व्यवहारदर्शनात् । श्रुतिस्तु भगवत्कृतसंबन्धमेवाश्रित्याग्नि-
होत्रादिकं विधत्ते । अन्यथा विद्यां स्वज्ञानं च बोधयन्ती कर्माणि न विदध्यात् ।
भाष्यप्रकाशः ।
तादवस्थ्यात् तत्सूत्रव्याघातः । किंच । शास्त्रस्य जीवाधिकारकत्वाज्जीवस्य चानेकदेहसंबन्धात्
को जीवः शूद्रः, का भार्येति ज्ञानमप्यशक्यम् । तदज्ञाने, 'ऋतौ भार्यामुपेयात्', 'न शूद्राय
मतिं दद्यात्' इत्याद्यनुज्ञापरिहारविषयज्ञानाभावः । अतः कर्ममार्गस्य व्याकुलत्वाद् विहित-
निषिद्धान्व्यवस्थायां कथं जीवस्यापि निषिद्धफलभूतं दुःखित्वमिति द्वयमाशङ्क्य परिहरतीति ।
परिहारं व्याकुर्वन्ति अनुज्ञेत्यादि । सत्यं, जीवस्य यद्यपि भगवदंशत्वान्न स्वरूपतो
विधिनिषेधविषयत्वं, तथापि तत्तद्देहसंबन्धकृतमागन्तुकं तद् भवत्येव, यथाम्ब्वग्निपृथिवीनां
स्वतो विध्याद्यविषयत्वेऽपि शवादिसंबन्धान्निषेधविषयत्वं, श्रोत्रियादिसंबन्धाच्च विधि-
विषयत्वं, तद्वदस्यापि देहसंबन्धाज्जाते तस्मिंस्तत एव तत्फलसंबन्धस्यापि सौकर्येण तयोरपि
सार्थक्ये सति न शास्त्रार्थवत्त्वसूत्रव्याहतिर्न वा कर्ममार्गव्याकुलता येन दुःखित्वाद्यनुपपत्ति-
रित्यर्थः । ननु देहसंबन्धेन विधिविषयत्वे देहसंबन्धस्याज्ञानकृतत्वाच्छास्त्रस्याप्यज्ञाधिकार-
कत्वं सिद्ध्यति, अज्ञानं च बुद्धयुपाधिकस्यैव, न तु स्वत इति, शास्त्रार्थवत्त्वसूत्रव्याहतिर्न
परिहृता भवतीत्याशङ्कायामाहुः संबन्धश्चेत्यादि । स्वज्ञानमिति 'साङ्गो वेदोऽध्येयो ज्ञेयश्च'
रश्मिः ।
संबन्धाभावस्य । स्वस्येति लोकाश्रयणात् । तथेत्येतावत्तैव चारितार्थ्यात् । तत्सूत्रेति कर्ता
शास्त्रेति सूत्रस्य व्याघातः । जीवस्येतिभाष्यं हेतुपूर्वकं विवृण्वन्ति स्म किं चेत्यादि । द्वयमिति
जीवस्य दुःखित्वमपिना भगवतो दुःखित्वं चेति द्वयम् । श्रोत्रियेति श्रोत्रियश्छन्दोऽधीते यः
सः । तस्मिन्निति विधिविषयत्वे । बुद्धीति जीवो विशेष्यम् । निरुपाधिकव्यवच्छेदक एवकारः ।
न परीति । बुद्धौ कर्तृत्वस्य पर्यवसानाज्जीवे चापर्यवसानाच्छास्त्रार्थवत्त्वस्य बुद्धयवसितत्वेन न
परिहृता भवतीत्यर्थः । संबन्धश्चेत्यादीति जीवन्मुक्तानामपि दे