अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1537, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १३१
श्रुतिर्यथोपपद्यते तथा तदनुल्लङ्घनेन वेदार्थज्ञानार्थं युक्तिर्वक्तव्या । सा चेत्
स्वयं नावगता, तपो विधेयम् । अभिज्ञा वा प्रष्टव्या इति । न तु सर्वविप्लवः
कर्तव्यः । तत्रैषा युक्तिः—
'विस्फुलिङ्गा इवाग्नेर्हि जडजीवा विनिर्गताः' ।
'सर्वतःपाणिपादान्तात् सर्वतोऽक्षिशिरोमुखात्' ।
'निरिन्द्रियात् स्वरूपेण तादृशादिति निश्चयः' ।
भाष्यप्रकाशः।
निषेधे हेतुं व्युत्पादयन्ति न हि ब्रह्मेत्यादि । युक्तिर्वक्तव्येति यथा न्यग्रोधफलमाहरे-
त्यादिः । तपो विधेयमिति 'तपसा ब्रह्म विजिज्ञासस्व' इति श्रुतेः । अभिज्ञा वा प्रष्टव्या
इतीति 'तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्' इत्यादिश्रुतेः ।
इति प्रकारे एवं श्र