सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1510, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1510

१०४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ३ अ० १४ सू० ३३
कर्ता शास्त्रार्थवत्त्वात् ॥ ३३ ॥ (२-३-१४)
सांख्यानां प्रकृतिगतमेव कर्तृत्वमिति तन्निवारणार्थमधिकरणारम्भः । कर्ता
जीव एव । कुतः शास्त्रार्थवत्त्वात् ।
भाष्यप्रकाशः।
कर्ता शास्त्रार्थवत्त्वात् ॥ ३३ ॥ अधिकरणप्रयोजनमाहुः सांख्यानामित्यादि ।
तथा च पूर्व ज्ञानस्वरूपत्वे ज्ञानगुणकत्वे च सिद्धान्तिते सांख्यवदकर्तृत्वं नैयायिकवत् कर्तृत्वं च
संभाव्यते, अतः संशयः । तत्र कठवल्ल्याम् ।
'हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते' ।
इत्यत्र हन्तृत्वं जानतोऽज्ञत्वबोधनात् । गीतायामपि,
'प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहंकारविमूढात्मा कर्ता