अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1507, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १०१
नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा ॥ ३२ ॥
ननु कथमेवं स्वीक्रियते । इदानीं संसारावस्थायां सच्चित्प्राकट्यमेव । मोक्षे
त्वानन्दांशोऽपि प्रकट इति तन्निवारयति । तथा सति नित्यमुपलब्धिः स्यादा-
नन्दांशस्य । तथा सति न संसारावस्थोपपद्येत । अथानुपलब्धिः सर्वदा तथा
सति मोक्षदशा विरुध्येत । अथान्यतरनियमः । जीवो निरानन्द एव, ब्रह्म
त्वानन्दरूपम् । तथा सति, ब्रह्मैव सन् ब्रह्माप्येतीति श्रुतिविरोधः । तस्मात्
भाष्यप्रकाशः।
नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा ॥ ३२ ॥ सूत्रप्रयोजन-
माहुः ननु कथमित्यादि । तन्निवारयतीति । तमेतमाशङ्कोत्पादकं प्रश्नमुत्तरयति । तथाचेदं
सूत्रप्रयोजनमित्यर्थः । व्याकुर्वन्ति तथा सती