अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1482, कुल 2600 में से
संदर्भ में पढ़ें७६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ३ अ० १२ सू० २६
वोक्तत्वावस्य दृष्टान्तत्वम् 'यथा वृक्षस्य संपुष्पितस्य दूराद् गन्धो वात्येवं पुण्यस्य
भाष्यप्रकाशः।
तथा वक्तुं शक्यत्वात् । अतस्तस्य पृथिवीगुणत्वं विद्यादित्येवार्थः । श्रुतिरपि, 'यथा वृक्षस्य
संपुष्पितस्य दूराद् गन्धो वाति' इति । अत्र तदवयवासत्त्वनिरूपणार्थमेव दूरपदम् । यत्तु
प्रसारितमुखस्य रसानुपलम्भे गन्धोपलम्भसामग्र्या एव प्रतिबन्धकत्वमिति कश्चिदाह तत्
फल्गु । विजातीयगुणोपलम्भकत्वेन रूपेण प्रतिबन्धकत्वस्याशक्यवचनत्वात् । एककालावच्छेदेन
नेत्रगोलकान्तस्त्वचा चक्षुषा च वह्नयौष्ण्यरूपयोर्ग्रहणस्य सर्वजनीनत्वात् । गन्धोपलम्भकत्वे-
नेति चेन्न असिद्धत्वाद् वैपरीत्यस्यापि सुवचत्वाच्च । नच फलबलेन तस्याः प्राबल्यं कल्प्यत इति
वाच्यम् । फलस्यास्मदुक्तरीत्यापि सिद्धेस्तस्या एव बलवत्त्वे नियामकाभावात् । क्षणान्तरे
रश्मिः।
शब्दतद्ध्वंसादिति । आदिपदेन तत्रागभावविरामकल्पना । किंच । यावदन्तमेकैकशब्देन दश-
दशशब्दारम्भोऽप्रामाणिकत्वान्न युक्तः । अन्यच्च । अव्याप्यवृत्तित्वार्थमसमवायिप्रादेशिकत्वस
कदम्बमुकुलादिन्यायविरुद्धत्वात् । प्रदेशान्तर एव कदम्बमुकुलयोर्वीचीतरङ्गयोर्दर्शनात् । किंच ।
कदम्बमुकुलन्यायेन दूरपर्यन्तमुत्पत्तौ तत्तदवान्तरदेशानां शब्दानामाश्रवणापत्तिः । वीचीतरङ्ग-
न्यायेन मन्दोच्चारणेऽपि तारश्रवणापत्तिः । प्रथमवीची तदुत्तरोत्तरं द्वितीयादीनामाधिक्यदर्शनात् ।
शब्दे च तारत्वातिक्ताधिक्याशक्यवचनत्वात् (संख्यादेर्जनकत्वेन परिमाणस्य स्तोत्कृष्टपरि-
माणजनकत्वेन) एतन्निष्ठबहुदेशव्यापित्वस्य परिमाणप्रसञ्जकत्वेन द्रव्यत्वगुणत्वहान्योर पत्तेश्च परि-
माणाश्रयत्वे द्रव्यत्वं गुणे गुणानङ्गीकाराह्णणत्वहानिश्चेति भावः । किंच । आद्यमध्यमशब्देषु
कार्यशब्दनाश्यत्वस्यान्तिमशब्दे च सुन्दोपसुन्दवत्परस्परनाश्यत्वोपान्त्यध्वंसनाश्यत्वयोरन्यतरस्या-
पिमानुत्पादनेन चान्तत्वस्य वक्तव्यत्वात्तन्निर्वाहायात्पादनप्रतिबन्धकादृष्टादेश्च वक्तव्यत्वाद्वहुतरा-
प्रामाणिकानन्तकल्पनापत्तिरितीमे दोषाः । एकत्रेति गन्धं । संचारे स्वाश्रयाधिकदेशवृत्तित्वे ।
अन्यत्रेति शब्दे । अर्थस्तूक्तः । फलितार्थ उच्यते अत इति । श्रुतिरपीति । गन्धस्य
स्वाश्रयाधिकदेशवृत्तित्वे प्रमाणमित्यर्थः । दूरेति । अन्यथा सद्युक्तिविरुद्धं कुतो ब्रूयादिति
भावः । एवेति । न त्ववयवरूपाश्रयाभावस्य प्रतिबन्धकत्वमित्यर्थः । विजातीयेति । रसो-
पलम्भसामग्री रसनारसवद्रव्यादिः । गन्धोपलम्भसामग्री घ्राणगन्धवद्द्रव्यादिः । एवंच घ्राणादौ
घ्राणत्वादिरूपेण प्रतिबन्धकतायां कदापि रसोपलम्भामानुत्पत्तिप्रसङ्गः । घ्राणत्वादीनां रसोपलम्भ-
कालेऽपि सत्त्वात् । किंतु रूपान्तरेण तदपि न संभवतीत्याहुः विजातीयेति । रसत्वगन्ध-
त्वादिना वैजात्यं बोध्यम् । एतादृशगुणोपलम्भकत्वं घ्राणादौ, नैयायिकास्त्वात्मन्याहुः तत्सर्व-
मागामिनि पादे प्राणवदधिकरणे स्फुटिष्यति । ग्रहणस्येति । तथा चोक्तरूपेण प्रतिबन्धकत्वे
चाक्षुषं स्पार्शनं वा न स्यादिति भावः । गन्धेति रूपेण प्रतिबन्धकत्वमिति बोध्यम् । तथा च त्वक्-
चक्षुषोर्न गन्धोपलम्भकत्वमिति चाक्षुषस्पार्शनयोरुपपत्तिरिति भावः । असिद्धेति । मृगमदमक्षणे गन्ध-
रसयोरेककालावच्छेदेनोपलम्भस्य सर्वसाक्षिकत्वेन गन्धोपलम्भकत्वेन रूपेण प्रतिबन्धकत्वस्यासिद्ध-
त्वात् । पद्मशतपत्रवेधवत्पौर्वापर्याज्ञानमप्युपगम्यते इति चेत्तत्राहुः वैपरीति । वह्नयौष्ण्यरूपग्रहण-
वदेककालावच्छेदेनोपलम्भस्यापि न वैपरीत्यसम्भावनेत्याशङ्कते न चेत्यादि । फलबलेन गन्धोपलम्भ-
बलेन तस्याः गन्धोपलम्भकसामग्र्याः प्राबल्यम् । अस्मदिति । स्वाश्रयाधिकदेशवृत्तित्वेनापि ।
तस्या इति पूर्ववत् । नियामकेति । रसाश्रयावयवानां त्वन्मते सत्त्वादिति भावः । अस्मन्मते तु
1372