अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 146, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ५९
मनसा तज्जननेऽपि तथा । तस्मात् प्रथमं शाब्दमेव ज्ञानमिति मन्तव्यम्,
अनुभवसिद्धत्वात् । इदानीन्तनानामपि शमादिरहितानां निर्विचिकित्सितवेदार्थ-
ज्ञानोपलब्धेः । संन्यासानुपपत्तिश्च ।
भाष्यप्रकाशः ।
घटमानयेत्यत्रापि वाक्यार्थज्ञानं प्रत्यक्षं स्यात् । आत्मन इव घटस्यापि पूर्वमनुभूतत्वात् । चीत्कारेण
गजानुमितिरपि न स्यात् । यद्वा, प्रमाणे ज्ञानेऽनुव्यवसीयमानयोः प्रत्यक्षत्वपरोक्षत्वयोर्जातित्व-
बाधकसंकरापत्तिः स्यात् । नचेष्टापत्तिः । व्यवहारे भङ्गनयमपगच्छतस्तथा वक्तुमयुक्तत्वात् ।
भारत आजगरेऽपि,
'जातिरत्र महासर्प मनुष्यत्वे महामते ।
संकरात् सर्ववर्णानां दुष्परीक्ष्येति मे मतिः' ।। इति ।
युधिष्ठिरेण ब्राह्मणत्वजातिबाधकतया संकरस्योपगतत्वाच्च । अतोनेकदूषणग्रासादधि-
कारिभेदशब्दापरोक्ष्योः कल्पनमेवायुुक्तमित्यर्थः । ननु मास्तु शब्दादपरोक्षं, तथाऽपि दशम-
स्त्वमितिवाक्यसहकृतचक्षुषा दशमोऽहमितिवन्मनसैवानुद्रष्टव्य इति श्रुतेस्तत्त्वमस्यादिवाक्यसहकृ-
तमनसैव विविक्तात्मसाक्षात्कारो भावीत्यधिकारिभेदो नायुक्त इति चेत्तत्राहुः मनसेत्यादि ।
वाक्यसहकृतमनसा यदि सर्वेषां साक्षात्कारस्तदा मननादिविधिवैयर्थ्यम् । यदि कस्यचिद् तदा
यस्य न साक्षात्कारस्तस्य वेदान्तार्थनिर्धार एव विचारफलत्वेन वाच्यस्तथा सत्युक्तरीत्या वैराग्या-
दिसंपादकत्वेन तस्य प्रागेवापेक्षितत्वात् पूर्वोक्तान्योन्याश्रयादिदोषतादवस्थ्यमित्यर्थः । सिद्धमाहुः
तस्मादित्यादि । मन्तव्यमिति सर्वेषां भवतीति मन्तव्यम् । अनुभवसिद्धत्वं विशदयन्ति
इदानीमित्यादि । तथाच पूर्वोक्तं दूषणं दुरुद्धरमित्यर्थः । उक्तदार्थ्याय दूषणान्तरमाहुः संन्यासे-
त्यादि । 'गृहाद्वा प्रव्रजेद् वनाद्वा प्रव्रजेत्' इतिश्रुतौ तत्तदाश्रामानन्तर्यकथनाद् दृढं वैराग्यं
रश्मिः ।
इल्पकारिणं प्रति विपरीतलक्षणयोक्तिः । अपकारिणि उपकारित्वरूपेण मुख्यार्थे बाधिते
सति विरोधरूपसंबन्धेन अपकारित्वलक्षणादिति वाच्यम् । तथा सति पारोक्ष्यापत्त्या प्रतिज्ञा-
व्याहतेः । वाक्यार्थज्ञानमिति वाक्यार्थस्य घटानयनस्य ज्ञानं प्रत्यक्षात्मकं स्यादित्यर्थः ।
पुरोवर्तिवाक्यार्थस्य ज्ञानं निशामनं भवतीति परोक्षवाचितपदेन घटो विशेत् इति ज्ञेयम् ।
गजानुमितिरिति । शब्दापरोक्षप्रतिज्ञा गजवान् देश इत्यनुमितिरित्यर्थः । किंतु गजप्रत्यक्षं
स्यादिति भावः । परस्परात्यन्ताभावसमानाधिकरणयोर्धर्मयोरेकत्र समावेशः संकरः इति नैयायिकोक्तं
लक्षणमनुसृत्याहुर्यद्वेति । प्रमीयत इति प्रमाणमिति । भावव्युत्पत्तिमत्त्वादाहुः प्रमाणे ज्ञान
इति अहं ब्रह्मास्मीति ज्ञाने इत्यर्थः । अनुव्यवसीयेति ब्रह्म अहं जानामीति अनुव्यवसीय-
मानयोरित्यर्थः । अत्र ज्ञानानुकूलो व्यापार इत्यत्र ज्ञानस्य शाब्दत्वप्रत्यक्षत्वाभ्यां बोधः, न ज्ञान-
स्त्वेन प्रकारेण अन्वेषणमाणे ज्ञानत्वस्य तत्रैव पर्यवसानात् । अयुक्तत्वादिति आकृत्यधिकरणविरोधेन
तन्मत्वादित्यर्थः । यद्वा न भावव्युत्पत्तिः । करणव्युत्पत्तिरेव । तथा च व्यवसायज्ञानस्यानुव्यवसा-
यकारणत्वात् प्रमीयतेऽनेन व्यवसायेन तत् प्रमाणं ज्ञानं ब्रह्म इत्याकारकं तस्मिन् सति अनुव्यवसी-
यमानयोरेवानुव्यवसायप्रत्यक्षत्वपरोक्षत्वप्रकारकज्ञानं विषयतासंबन्धेन तस्य कर्तॄर्मोः । अत्र धात्व-
र्थफलमात्रं कृतिमत्त्वं कर्तृत्वं फलानुकूलव्यापारश्चानेकधा । भाष्ये इदानीमिति । 'अलौकिको
हि वेदार्थः' इति श्रुत्युक्तसाधनवतामिति विशेषणीयम् । निर्विचिकित्सेत्यादि । विचिकित्सा
तु संशयः । प्रकृते । पूर्वोक्तमिति अनुभवविरोधरूपमित्यर्थः । तत्तदाश्रामानन्तर्येति ।
59