सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1447, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1447

त्रिविधा निरूपिता । 'अनित्ये जननं नित्ये परिच्छिन्ने समागमः' इति । तथाच
जीवस्य समागमलक्षणाऽप्युत्पत्तिर्न स्यादितीमामाशङ्कां निराकरोति तुशब्दः ।
चराचरे स्थावरजङ्गमे शरीरे तयोर्विशेषेणापाश्रय आश्रयः शरीरसंबन्ध इति
यावत् । स तु स्यात् । न तु स्वतः । ननु शरीरस्योत्पत्तौ जीवोऽप्युत्पद्यते ।

भाष्यप्रकाशः ।
मनोमयस्य चानुत्पत्तौ सर्वव्यवहारोच्छेदः । न हि जीवानुत्पादे कश्चित् संसारासक्तो वा
मुमुक्षुर्वा प्रवृत्तिनिवृत्तिलक्षणकर्मज्ञानभक्त्यधिकारी भवेत्, तदभावे च लोकयात्रा तत्तत्पुरुषा-
र्थोपायबोधकानि शास्त्राणि चोच्छिद्येरन् । न वा वेदस्यानुत्पत्तौ धर्माधर्मादिकमसंकीर्ण-
मवगन्तुं शक्येत, तदभावे लोकमर्यादाऽप्युच्छिद्येत, एवं सर्वव्यवहारोच्छेद उभयत्रापि
समान इति पृथक् तदनुक्तिः । नच नामरूपसंबन्धात्मिका या उत्पत्तिः सैवात्र निषिध्यते
नेतरेत्यतो न दोष इति वाच्यं, उत्पत्तिस्तु पूर्वं त्रिविधा निरूपिता 'अनित्ये जननं नित्ये
परिच्छिन्ने समागमः' इत्यादि, सन्नियोगशिष्टासु तिसृष्वेकतरैव निषिध्यते नेतरे इत्यत्र
विनिगमकाभावात् तथाच जीवस्य समागमलक्षणाऽप्युत्पत्तिर्न स्यादितीमामाशङ्का-
मित्यर्थः । शरीरे इति प्रथमायाः तयोरिति सप्तम्या द्विवचनम् । स तु स्यादिति जायमानः
शरीरमभिसंपद्यमान उत्क्रामन्म्रियमाण इति श्रुत्या देहसंबन्धेनैव तयोरुक्तत्वाद्देहसंबन्धस्तु
स्यादित्यर्थः । नच वेदस्य न शरीरसंबन्ध इति शङ्क्यं, नादात्मना सर्वशरीरेषु तस्यैव विद्य-
मानत्वात्, तदुक्तमेकादशस्कन्धे भगवता 'स एष जीवो विवरप्रसूतिः' इत्यादिद्वयेन ।

रश्मिः ।
देवदत्तो जातो विष्णुमित्रो जात इति भाष्यंत् । आदिशब्देन मनोमयो वेदः । व्याकुर्वन्ति स्म
नहीति । असंकीर्णमिति वेदोक्तप्रकारेणासंदिग्धम् । लोकेति । मनुष्याणां मध्ये ब्राह्मणानां
वेदाध्ययनादयः । क्षत्रियाणां अध्ययनदानयजनानि युद्धापलायनादयश्च । वैश्यानां अध्ययन-
दानयजनानीति वाणिज्यादयश्च । शूद्राणां सेवादयः । स्त्रीणां पतिशुश्रूषादयो धर्मास्तैरेव कर्तव्या
इति मर्यादा । पृथगिति विज्ञानमयात्पृथक्त्वेन मनोमयानुक्तिः । उत्पत्तिरित्यादि भाष्यं विवरीतुमाहुः
नचेति । अत्रेति भाक्तपदेन निषिध्यते नाद्यक्षणसंबन्धरूपा समागमरूपा वातो न दोषः
सर्वव्यवहारोच्छेदरूपः । भाष्यं विवृण्वन्ति स्म उत्पत्तिरिति । पूर्वमिति 'न वियदश्रुतेः'
इति सूत्रे । इत्यादीति । 'नित्यापरिच्छिन्नतनौ प्राकट्यं चेति सा त्रिधा' इत्यादिशब्दार्थः । तथा
चेति भाष्यं विवरीतुं त्रिविधेति भाष्यपदतात्पर्यमाहुः सन्निति हेतुगर्भविशेषणम् । यद्वा ।
उत्पत्तयोऽनेकविधाः । नामरूपसंबन्धः । आद्यक्षणसंबन्धः । प्रथमज्ञप्तिः । आत्मतया शरीरस्वीकृतिः ।
जननम् । समागमः प्राकट्यम् । आविर्भावभेदाः । तद्व्यावर्तकं विशेषणमेकतरैवेति । ननु
बहूनां निर्धारणे डतमच् प्राप्तः । मैवम् । 'एकाच्च प्राचाम्' इति सूत्रेण डतरच् । यद्यप्युदाहरणेऽनयो-
रेकतरो मैत्रः एषामेकतम इति बहूनां निर्धारणे डतमजुदाहृतः । द्वयोर्निर्धारणे डतरच् तथापि द्वयो-
रित्युपलक्षणम् । प्रत्यय इति सूत्रे बहुष्वासीनेषु कश्चित् कंचित्पृच्छति कतरो देवदत्त इति महा-
भाष्यात् । अतो द्वयोर्बहूनां वा मध्ये एकस्य निर्धारणे डतरच् । अयं न हेतुः किंतु त्यप्प्रन्तम् । इति
निरूपितेति भाष्ये इत्येवं निरूपितेल्यर्थे हेत्वन्वयात् । तथा चेत्यग्रेतनभाष्यस्य जीवस्यानुत्पत्तौ
६ ब्र० सू० २०