सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1426, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1426

२० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ३ अ० ४ सू० १० ]
तेजोऽतस्तथा ह्याह ॥ १० ॥ ( २-३-४ )
तेजोऽतो वायोः । तथा ह्याह । वायोरग्निरिति श्रुतेः । हिशब्देनैवमाह ।
छान्दोग्यश्रुतिः प्रतिज्ञाहानिनिराकरणार्थं तैत्तिरीयकमपेक्षते वाय्वाकाशयोरूप-
भाष्यप्रकाशः ।
एतेनैव भिक्षुरपि दत्तोत्तरः । यत्पुनस्तेनोक्तमिदं सूत्रं प्रधानोत्पत्तिनिराकरणार्थम् ।
तथाहि । 'सदेव सौम्येदमग्र आसी'दित्यादौ तस्याःपिण्डवदीक्षितृब्रह्माभेदेनोपन्यस्तं सूक्ष्मं जगत्
सत्, तस्य सतोऽन्यक्तस्य प्रधानस्य तु संभव उत्पत्तिर्नास्ति, कुतः अनुपपत्तेः । तस्य
कारणाभावेन विकाररूपत्वासंभवात् । कारणकल्पने चानवस्थानादिति । तन्न । सच्छब्दस्य
प्रधानवाचकत्वे मानाभावात् । सांख्यसमाससूत्रीयपञ्चशिखसूक्तावप्यव्यक्तपर्यायेषु, अव्यक्तम्,
प्रधानं, ब्रह्म, गुरु, बहु, धातृकं, अक्षरं, क्षेत्रं, तमः, प्रधानमिति दशनामेव गणनात्, कोशा-
दिष्वपि तथानुपलम्भात् । ब्रह्मवाचकत्वं तु गीतायामेव सिद्धम् । 'ॐ तत् सदिति निर्देशो
ब्रह्मणस्त्रिविधः स्मृतः' इति वाक्यात् । अतः सद्भावेन ब्रह्मैवात्रोच्यत इत्यपार्थ एवाडम्बरः ॥९॥
इति तृतीयमसम्भवाधिकरणम् ॥ ३ ॥
तेजोऽतस्तथा ह्याह ॥ १० ॥ आकाशवाय्वोरुत्पत्तिं विचार्य तेजसो विचारयति,
तेजः किं साक्षाद् ब्रह्मणोऽथ परंपरयेति विचारयति । श्रुतिविरोधपरिहारार्थत्वादध्यायस्य ।
तत्र छान्दोग्योक्तसृष्टेर्मुख्यत्वात् साक्षात्तथैव श्रेयानिति प्राप्त आह तेजोऽत इति । तद्
व्याकुर्वन्ति तेज इत्यादि । नन्वेवं सति छान्दोग्यविरोधस्य कथं परिहार इत्यत आहुः
हिशब्देनेत्यादि । अयमर्थः । तेजसः साक्षाद् ब्रह्मजत्वाङ्गीकारे, 'सदेव सौम्येदमग्र आसीत्'
रश्मिः ।
त्वाऽसंभव इति सूत्रार्थात् । भिक्षुरिति भगवान्भिक्षुः । अव्यक्तमेकं, प्रधानं द्वितीयं, गुरुः तृतीयं,
बहु तुरीयम् । धातृकं पञ्चमम् । तम इति नवमम् । प्रधानं दशमम् । पुनः कथनप्रयोजनं सूग्यम् ।
सद्भावेनेति सत्पदसत्त्वेन । आडम्बर इति समारम्भः 'आडम्बरः समारम्भे गजगर्जिततूर्ययोः' इति
विश्वः ॥ ९ ॥ इति तृतीयमसम्भवाधिकरणम् ॥ ३ ॥
तेजोऽतस्तथा ह्याह ॥ १० ॥ विषयमाहुः आकाशेति । विचार्येति ताभ्यां ब्रह्मोत्पत्ति-
शङ्कानिरासपूर्वकं विचार्य । विचारयतीति अवसरगर्भितैककार्यत्वसंगत्या विचारयति । वियदुत्पत्तिं
विचार्यैककार्यत्वसंगत्या मातरिश्वोत्पत्तेर्विचारात् । परंतु पूर्वसूत्रेणावसरसंगतिरिति तद्गर्भितत्वम्,
एकस्य कार्यता प्रयोजकता एककार्यता । अत्र तु कारणता । विचारयतीति छान्दोग्यतैत्तिरीयश्रुतिभ्यां
संदेहे विचारयति । तत्रेति तयोः । छान्दोग्येति श्वेतकेतूपाख्याने 'सदेव सौम्येदमग्र आसीत्'
इत्युपक्रम्य 'तत्तेजोऽसृजत' 'तदपोऽसृजत' 'ता अन्नमसृजन्त' इति श्रुष्टेः मुख्यत्वं 'तदैक्षत' 'ता आप
ऐक्षन्त' इतीक्षापूर्वकत्वम् । ईक्षासंबन्धात्फलत्वं फलसंबन्धान्मुख्यत्वं वा पूर्वतन्त्रसिद्धम् । तेज इत्या-
दीति । तेजःपदप्रयोगस्तु छान्दोग्यसृष्टेर्मुख्यत्वात्, न त्वग्निपदप्रयोग उत्पत्त्यनर्हत्वात् । न वा तेजो-
धिकरणमग्निः । 'यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्' इत्युक्तः । तथा चाध्यात्मं तेजः आधिदैवि-
कस्य ब्रह्मरूपामेराधिकभौतिकाग्नेः संबन्धात् । तथेति वायुजत्वेनाह । अग्निरत्राधिभौतिकः परतेज
आभ्यः । अग्निरत्राध्यात्मस्तेजःपदवाच्यः । एवं च पर्यायता । छान्दोग्येति विरोधस्तु छान्दोग्ये
1316