अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1414, कुल 2600 में से
संदर्भ में पढ़ेंHere is the complete line-by-line transcription of the text from the image into pure Devanagari Markdown:
८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ३ अ० १ सू० ५
स्याच्चैकस्य ब्रह्मशब्दवत् ॥ ५ ॥
ननु कथं वियदुत्पत्तिर्गौणी भविष्यति । तत्र हि संभूत इत्येकमेव
पद्मुत्तरत्रावर्त्तते । तथा सत्युत्तरत्र मुख्या आकाशे गौणीति युगपद् वृत्ति-
द्वयविरोध इतिचेन्न । एकस्यापि स्यात् कचिन्मुख्या कचिद् गौणीति । ब्रह्मशब्दो
यथा, 'तपसा ब्रह्म विजिज्ञासस्व' 'तपो ब्रह्म' इति । प्रथमवाक्ये मुख्या, द्वितीये
गौणी । न चात्र प्रयोगभेदोऽस्तीति वाच्यम् । संभूतशब्दोऽप्यावर्त्तते न तु
तादृशार्थयुक्तोऽपि । आत्मसत्त्वेनैव तत्सत्त्वमिति सत्त्वगुणो वचनहेतुः ।
भाष्यप्रकाशः।
स्याच्चैकस्य ब्रह्मशब्दवत् ॥ ५ ॥ पुनरपि गौणत्वानुपपत्तिमाशङ्क्य परिहरति स्यादित्या-
त्यादि । तद् व्याकुर्वन्ति नन्वित्यादि । एकस्येति शब्दस्य । ननु ब्रह्मशब्दस्य दृष्टान्तता
न युक्ता, तपोवाक्ये तस्य प्रयोगभेदेन वृत्तिद्वययौगपद्याभावात्, 'तस्माद्वा' इति वाक्ये तु सं-
भूतशब्दस्य सकृत्प्रयोगेन यौगपद्यस्य दुर्वारत्वाद्विलक्षणां न चेत्यादिनानूद्य परिहरति संभूते-
त्यादि । तथा चात्राप्यावृत्त्या शब्दव्यक्तिभेदान्न यौगपद्यमिति न दृष्टान्तत्वायौग, इत्यर्थः ।
नन्वेवमेवं वृत्तिद्वयोपपत्तावपि गोत्वशक्यफलासाधकत्वरूपमपभ्रंशसादृश्यं छागादिषु यथा
गौणीवचनहेतुस्तथाऽऽकाशे किं वा संभूतसादृश्यं गौणीवचनहेतुर्येनात्र साऽऽद्रियत इत्यत आह
आत्मत्वेत्यादि । सत्कार्यवाद उत्पत्तेःपूर्वदशायां कारणभावेनैव कार्यं तिष्ठति, आत्मा चात्र
कारणम् । अत उत्पत्तिपूर्वदशायां यथा कार्यमात्मभावेन तिष्ठत्येवमाकाशोऽप्यात्माश्रुतत्वा-
दात्मभावेनैव तिष्ठतीत्यात्मसत्त्वेनैव तत्सत्त्वमाकाशसत्त्वं, न तु पृथक्त्वेन, अतः सृष्टिदशायां
कार्यवद् ब्रह्मणः सकाशादाकाशस्य पृथक् सत्त्वरूपो य आकाशनिष्ठः सत्त्वगुणः स एव कार्य-
सादृश्यरूप आकाशे गौणीवचनहेतुरतः साद्रियत इत्यर्थः । ननु भवत्वेवं तथाप्याकाशं
प्रति ब्रह्मणः कारणतानङ्गीकारे वाय्वादिवाक्येष्वत्मनः कारणत्वाकथनादाकाशादीनामेव
तत्कथनाद् वायुकारणता आकाशासाधारणा अभ्रिकारणता च वाय्वसाधारणेत्येवं कारणता
रश्मिः ।
स्याच्चैकस्य ब्रह्मशब्दवत् ॥ ५ ॥ परीति सूत्रकारः । तदिति तत्सूत्रमाचार्या व्या-
कुर्वन्ति । भाष्ये उत्तरत्रेति 'आकाशः संभूतः' इतिवद्वायुः संभूतोऽग्निः संभूत इत्येवं 'तस्माद्वा
एतस्मात्' इति श्रुतावुत्तरत्रावर्त्तते । प्रकृते शब्दस्येति संभूतशब्दस्य । वृत्तिद्वयेति 'ब्रह्म विजिज्ञासस्व'
इत्यत्र मुख्याभिधा, तपसि गौणी, जगज्जन्मादिकर्तृत्वचतुर्मुखत्वतपस्त्वादिगुणयोगाद् अतो
यौगपद्याभावात् । परीति मीमांसकः परिहरति । संभूतेत्यादीति । अयमर्थः । शब्दस्य शक्त्या
गौणार्थेष्वनुगयेप्यर्याः । एतादृशः संभूतशब्दः आकाशाद्वायुरित्यानावर्त्तते न तु तादृशार्थयुक्तः । उभ-
येषामेकतमार्थयुक्तस्त्वार्थलँते । एतादृशे आवृत्ते शब्देऽपि शब्दसान्यस्य संनिषेद्यमयेषामेकतमस्यार्थस्य
निर्णयः । यथा देवस्य त्रिपुरारातेरित्यत्र त्रिपुरारातिशब्दसंनिधिः । अपभ्रंशेति अपशू घटादि
सादृश्यम् । अत्रेति आकाशे गौणीत्यर्थः । सादृश्यरूप इति संभूतपदस्याकाशे गौणीवचनहेतु-
रित्यर्थः । वाय्वादीति 'तस्माद्वा एतस्मात्' इति 'वायुश्चान्तरिक्षम्' इति एवमन्यत् तेषु ।
असाधारणेति 'बजाद्यतश्छाए' इति सूत्रेण 'यत्' । साधारणीनां परिग्रह इति सुबोधिन्यां तु
1304