अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1411, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ५
अस्ति तु ॥ २ ॥
तुशब्दः पक्षं व्यावर्तयति । तैत्तिरीयके वियदुत्पत्तिरस्ति । यद्यपि मुख्ये
नास्ति तथापि विरोधाभावान्न्यत्रोक्तमप्यङ्गीकर्तव्यमेकवाक्यत्वाय, एक-
विज्ञानेन सर्वज्ञानानुरोधाच्च ॥ २ ॥
गौण्यसंभवात् ॥ ३ ॥
वियदुत्पत्तिर्गौणी भविष्यति, कुतः। असंभवात् । न ह्याकाशस्योत्पत्तिः
भाष्यप्रकाशः।
अस्ति तु ॥ २ ॥ सिद्धान्तं वदतीत्याहुः तुशब्द इत्यादि । विरोधाभावादिति
वियदुत्पत्त्यादेरपि मुख्यवाक्येऽनुपपत्त्यभावात् । एकवाक्यतायां को वा आग्रह इत्यत आहुः
एकेत्यादि । तथा चैतत्प्रतिज्ञानुरोधात् तैत्तिरीयवाक्यं सृष्ट्यर्थमीक्षासाकाङ्क्षम्, छान्दोग्यवाक्यं च
सृज्यर्थमाकाशादिसाकाङ्क्षम्, क्रमसृष्टिस्तूमयत्राप्यर्थ इत्येक