सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1401, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1401

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १२१
भाष्यप्रकाशः ।
वृत्तिष्वप्येतादृशव्याख्यानानुमानात् । तेनात्रेर्दं निष्पन्नम् । सांख्ये हि प्रकृतिपुरुषपर्यन्तता
निरीश्वरता च श्रुतिविरुद्धा । सेश्वरसांख्ये च तदैश्वर्यस्य प्रधानाधीनता केवलनिमित्तता । तथैव
योगेपि । तदननुसंधाय तत्र प्रवृत्तानां जीवन्मुक्तताभवनोत्तरमपि पातः । तयोर्भगवन्निष्ठताया
अज्ञानात् । तदत्रैवोक्तं, न चैनमित्यर्द्धेन । दशमस्कन्धे च ।
'येन्येऽरविन्दाक्ष विमुक्तमानिनस्त्वय्यस्तभावादविशुद्धबुद्धयः ।
आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्यधोऽनादृतयुष्मदङ्घ्रयः' इति ।
तयोर्भगवत्परत्वज्ञाने तु देवहूतिवत्कृतार्थता । तदप्युक्तं द्वितीयस्कन्धे ।
'जज्ञे च कर्दमगृहे द्विजदेवहूत्यां स्त्रीभिः समं नवभिरात्मगतिं स्वमात्रे