सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1393, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1393

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११३
एवं किंचित् करोतीतीश्वरेप्यधिष्ठानमङ्गीकर्तव्यम् । तस्मिन् कल्प्यमाने
मतविरोधः, अनवस्था असंभवश्च ॥ ३९ ॥
भाष्यप्रकाशः ।
मान ईश्वरो लौकिकन्यायेनोपादानगोचरापरोक्षज्ञानचिकीर्षाप्रयत्नवत्ता कल्पनीयः ।
लौकिकश्च कर्ता शरीरमधिष्ठायैव करोतीतीश्वरेपि शरीराधिष्ठानमङ्गीकर्तव्यम् । न चाशरीरस्यैव
कर्तृत्वम् । मनसो नित्यत्वेप्यशरीरेषु मुक्तेषु मानसकार्यादर्शनात् तत्र दृष्टान्ताभावेन
न्यायानवतारात् । अतः शरीराधिष्ठानमवश्यमङ्गीकर्तव्यम् । अन्यथा दृष्टविरोधेन प्रतिवादिनं
पर्यनुयुञ्जानस्य तवैव निग्रहात् । तस्मिंश्च कल्प्यमाने नित्यानित्यविकल्पेन मत-
विरोधः । सावयवस्य शरीरस्य नित्यत्वे जगतोपि नित्यत्वाविरोधादीश्वरासिद्धेः । नच
तन्निरवयवम् । अदर्श