सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1364, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1364

एवं सतः कारणत्वं पूर्वपाद् उपपाद्यासतः कारणत्वं निराकृत्य व्यासचरणै-
र्वेदाना मव्याकुलत्वे संपादितेऽपि पुनर्द्दैत्यव्यामोहनार्थं प्रवृत्तस्य भगवतो बुद्ध-
स्याज्ञया
'त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ।
अतथ्यानि वितथ्यानि दर्शयस्व महाभुज ।
स्वागमैः कल्पितैस्त्वं च जनान् मद्दिङ्मुखान् कुरु'
इत्येवंरूपया, महादेवादयः स्वांशेनावतीर्य वैदिकेषु प्रविश्य विश्वासार्थं
वेदभागान् यथार्थानपि व्याख्याय सदसद्विलक्षणामसदपरपर्यायामविद्यां सर्व-
भाष्यप्रकाशः ।
संस्थानमात्रस्यैव निवृत्तिर्न तु द्रव्यस्येति । तत्र बीजद्रव्यं कूटस्थमेवावयवद्वारा कारणम् ।
एवं दध्यादावप्यवस्थाभेद एवेत्यभावाद्भावोत्पत्तिः सर्वथानुपपन्नैवेति सिद्धम् । एवमसत्कारण-
वादनिराकरणेन मायावादिप्रतिपन्नाविद्याकारणवादनिरकरणमप्यर्थादेव सिद्धमित्याहुः एवं