सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1359, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1359

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ७९
पदार्थवद् वस्तुत्वव्यवहारस्याविशेषात् ॥ २४ ॥
भाष्यप्रकाशः।
व्यवहारस्य समानत्वात् । यथा हि पृथिव्यां घटो, जले नौकेत्यादि व्यवह्रियते तथाऽऽकाशेऽप्यत्र
गृध्रोऽत्र श्येन इत्याधारता व्यवह्रियते । तथा बहिरन्तरमिति च । न चासौ भूमप्रदेशे दिशि वा
वक्तुं शक्यते । बाह्यो देशो, बाह्या दिगन्तरो देश, आन्तरी दिगिति बहिरन्तरव्यवहारविषयपरि-
च्छेदकत्वेनैव तयोर्मिलप्यमानत्वात् । अतो बहिरैव धूमो नान्तरिति व्यवहारसाक्षिकोऽवकाश
एवार्यं व्यवहारः । अवकाशश्च प्रत्यक्षः । भूयानवकाशः स्वल्पोऽवकाश इति प्रत्यक्षानुभवात् ।
नच रूपाभावो बाधक इति वाच्यम् । गन्धर्वनगरादिवद् वस्तुसामर्थ्येनैव तत्प्रतीत्यङ्गीकारे
बाधकाभावात् । तस्मादावरणाभावमात्रमाकाशो, नापि निरुपाख्य इत्यर्थः ।
रामानुजाचार्यास्तु त्रिवृत्करणेन पञ्चीकरणस्याप्युपलक्षितत्वादाकाशेऽपि रूपसत्त्वात्
तद्धेतुकेऽपि तत्प्रत्यक्षे न विरोध इत्याहुः । तच्चिन्त्यम् । तथा सति वायावपि तदापत्तेः ।
वैशेषिकादयः पुनः शब्दाख्यगुणानुमेयमाकाशमिच्छन्ति शांकराश्च ।
भास्कराचार्यास्तु-शब्दस्याकाशेन सह सम्बन्धाग्रहणादसत्यपि शब्दे नभोविषयक-
बुद्धयुत्पत्तेः, श्रूयमाणेऽपि शब्दे तद्द्वारेण तत्र तदनुत्पत्तेर्न तस्य शब्दानुमेयत्वं, किंतु
रश्मिः।
भाष्येण । इति चेति व्यवह्रियत इत्यन्वयः । बहिरन्तरव्यवहारविषयत्वमाकाशलक्षणे स्पष्टं
सुबोधिन्यादौ । असाविति व्यवहारः । बहिरन्तरिति बहिरन्तरव्यवहाराभ्यां विशेषेण सितुतः
सम्भ्रतः इति विषयौ, दिग्देशौ तत्परिच्छेदकत्वेन । तयोर्दिग्देशयोः । अवकाश इति अवकाशे
सप्तम्यन्तम् । अयमिति अत्र गृध्रोत्र श्येन इत्यादिः । नैयायिकाशङ्कामन्द्य परिहरन्ति न
चेति । गन्धर्वनगरादिस्तैत्तिरीयादौ प्रसिद्धः । बाधकेति । उपपादितं चैतत्सर्वं प्रसिद्धोपदे-
शादित्यधिकरणे नीरूपो नील इत्यस्य रश्मौ । इत्यर्थ इति । तथा चाकाशेऽपि व्यवहारेण मूर्ता-
न्तरतुल्यताया अविशेषान्नीरूपाख्यत्वावरणाभावमात्रत्वयोरप्राप्तिरिति प्रतिसंख्यासूत्रादप्राप्तिमनुवर्त्य
सूत्रं योजनीयम् । त्रिवृदित्यादि । 'तासां त्रिवृतं त्रिवृतमेकैकं करवाणि' इति श्रुतत्रिवृत्करणेन
पञ्चीकरणमुपलक्ष्यते । पञ्चीकरणं तु आकाशवायुतेजोबन्नानि तावद्विधासहायातरत्सादात्मनः
सकाशादनुक्रमेण जातानि तानि सूक्ष्माणि व्यवहाराक्षमाणीति तदीयस्थौल्याकाङ्क्षायां कल्पितव्य-
वहारनिर्वाहकतद्धीयधर्माधर्मात्मककर्मापेक्षया तानि पञ्चीकृतानि स्थूलानि भवन्ति । तानि हि
प्रत्येकं द्वैविध्यमापद्यन्ते । तत्र चैकैकं भागं परिहायापरेष्वेकैकशश्चातुर्विध्ये सिद्धे तत्तदीयात्मीयमर्धं
परित्यज्यार्धान्तरेष्वेकैकभागस्यानुप्रवेशे प्रत्येकं भूतानि पञ्चतापनानि पञ्चीकृतान्युच्यन्ते शांकरैः ।
एवं च शब्दस्पर्शरूपरसगन्धानां परस्परस्मिन्नवेशादाकाशेऽपि रूपसत्त्वात्तद्धेतुके रूपहेतुकेप्याकाश-
प्रत्यक्षे विरोधो नेत्यर्थः । तदिदं नीरूपो नील इत्याकारेण विरुद्धं तर्करूपमिति लीलाभेदाय
चिन्त्यत्वमाहुः तच्चिन्त्यमिति । तदापत्तेरिति रूपापत्त्या चाक्षुषापत्तेः । शब्दाख्येति शब्दः
पृथिव्याद्यष्टद्रव्यातिरिक्तद्रव्याश्रितः । अष्टद्रव्यानाश्रितत्वे सति द्रव्याश्रितत्वात् सुखवदित्यनुमेयम् ।
शांकराश्चेति आगमप्रामाण्यात्तावद् 'आत्मन आकाशः संभूतः' इत्यादिश्रुतिभ्यः आकाशस्य
वस्तुत्वसिद्धिः । विप्रतिपन्नान् प्रति शब्दगुणानुमेयत्वमिति भाष्ये इच्छन्ति । तदनुत्पत्तेरिति
शब्दादिहाकाश इति बुद्धयनुत्पत्तेः । न तस्येति गवेच्छन्दामयत्वेनाकाशसिद्धिर्यद्याकाशे शब्द-
1251