अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1356, कुल 2600 में से
संदर्भ में पढ़ेंप्रतिसंख्यानिरोधः । अयमपि निरुपाख्यम् । निरोधद्वयमपि न प्राप्नोति । संतते-
रविच्छेदात् । पदार्थानां च नाशकसंबंधाभावात् प्रतिबन्धसंबंधाभावः ।
आद्यनिरोधः पदार्थविषयको व्यर्थः । द्वितीयः क्षणिकाङ्गीकारेणैव सिद्धत्वान्ना-
ङ्गीकर्तव्यः ॥ २२ ॥
भाष्यप्रकाशः ।
विसदृशसंतानः स आद्यः । प्रतिक्षणभावी चोपलब्ध्यनर्हः सूक्ष्मश्च यो निरन्वयविनाशः स द्वितीय
इति रामानुजाचार्याः । निरुपाख्यमिति अनिर्वाच्यम्, अवस्त्विति यावत् । दूषणं व्युत्पा-
दयन्ति निरोधेत्यादि । कथं संतत्यविच्छेद इत्याकाङ्क्षायां विभजन्ते पदार्थानामित्यादि ।
तन्मते पदार्थाः सर्वे क्षणिकाः सदृशसंतानजननस्वभावाः । क्षणिकानां च नाशकसंबंधो न
पूर्वं दृष्ट इत्यन्त्यानामपि पदार्थानां नाशकसंबंधाभावात् पूर्ववदेव संततिप्रतिबन्धाभाव
इत्यविच्छेद इत्यर्थः । न च यदा प्रतिसंख्यासंबंधस्तदा प्रतिभन्त्स्यत इति युक्तम् । तन्मते
विज्ञानसंतानात्मकस्य जीवस्य क्षीणे संस्कारे तैलक्षये प्रदीपस्येव निर्वाणेनाभावप्राप्तिर्मोक्षः ।
संस्कारक्षयश्चार्य्यचतुष्टयाभ्यासजन्यया प्रतिसंख्यया वाच्यः । तत्राभ्यासस्य पौनःपुन्यरूपत्वेन
स्थिरधर्मतया क्षणिके जीवे वक्तुमशक्यत्वेन तज्जन्यप्रतिसंख्यायाः सुतरां तथात्वात् । अतः
संततेरविच्छेद एवेत्याद्यनिरोधो विज्ञानपदार्थविषयको व्यर्थः । तथा सति पदार्थान्तर-
विषयकोऽपि तथा । न च द्वितीयो युक्त इति शङ्क्यम् । यतो द्वितीयः क्षणिकाङ्गी-
कारेणैव साधनयोगशून्यतायां संतत्यविच्छेदस्य सिद्धत्वान्नाङ्गीकर्तव्यः । 'अर्हे कृत्यतृच-
रश्मिः ।
विसदृशस्य कपालस्य संतानरूपं कपालोत्पत्तेः प्राक् सदृशसंतानाभ्युपगमात् तथा च सदृशघटादि-
संतानावधिरित्यर्थः । विसदृशइति कपालादिसंतानो घटादिविसदृशः । स आद्य इति प्रतियोगि-
व्यतिरेकाव्यतिरेकशून्यः प्रतियोगिसत्ताभाविको नाश इत्यङ्गीकारात् विसदृशसंतान एव नाश इत्यर्थः ।
निरन्वय इति तप्तायःपतिताऽम्बुबिन्दोरिव निःशेषनाशः । निरोधेत्यादि प्रतिसंख्याप्रतिसंख्या-
निरोधद्वयमपि न प्राप्नोति न संभवति । तदुक्तं प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिरिति ।
कुतः । संततेरविच्छेदादिति सूत्रभाष्यार्थः । दृष्ट इति क्षणिकत्वात् दृष्टः । अन्त्यानामिति
परिनिष्पन्नावस्थानां पुञ्जानां घटादीनाम् । आद्यनिरोध इत्यादि भाष्यं विवरीतुमाशङ्क्य निषे-
धन्ति स्म न च यदेति । प्रतिसंख्येति सन्तमेनमसन्तं करोमीति प्रतिकूलबुद्धिसंबन्धः ।
प्रतिभन्त्स्यत इति कल्याणप्रतिकूलं नाशं भावः करिष्यते । भदि कल्याणे सुखे च 'कल्याण-
स्यान्मङ्गलम्' स्वरवर्णानुक्रमहैमधातुपाठे भ्वादिः । इदमत्रास्तु चिन्त्यः । संस्कारमदादिरूप-
संस्कारस्कन्धे । निर्वाणेनेति 'निर्वाणमस्तंगमने' इति विश्वः । आर्य्यचतुष्टयेति । अग्रे
वाच्यम् । तथात्वादिति जीवे वक्तुमशक्यत्वादिति । तथा च प्रतिसंख्यासंबन्धाभावेन प्रति-
बन्धाभावाद्युक्तः प्रतिसंख्यानिरोध इति भावः । अविच्छेदं इति निरन्वयध्वंसाभाव एव ।
आद्येत्यादिभाष्यं विवृण्वन्ति स्म आद्येति । बुद्धिपूर्वको विनाशः । व्यर्थ इति यथाद्यनिरोधः
ज्ञाद् दृश्येत परं न दृश्यत इत्याद्यनिरोधो व्यर्थः । तथा सति संततेरविच्छेदे सति । पदार्थेति
रूपस्कन्धादिविषयकोऽपि व्यर्थः । द्वितीय इति भाष्यमवतारयन्ति न चेति । द्वितीय इत्यादिभाष्यं
विवृण्वन्ति स्म यत इति । द्वितीयो ऽबुद्धिपूर्वको विनाशः । क्षणिकेति भावपदार्थमात्रस्य । साधनेति
1248