सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1354, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1354

७४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० २ अ० ४ सू० २१
द्यन्त इति । वस्तुनः क्षणान्तरसंबन्धे प्रथमप्रतिज्ञा नश्यति । असति द्वितीया ।
द्वितीया चेन्नाङ्गीक्रियते तदा प्रतिबन्धाभावात् सर्वं सर्वत एकदैवोत्पद्येत ॥ २१ ॥
भाष्यप्रकाशः।
पुञ्जस्य कारणता निरस्ता । अतः परमसत्येव हेतौ फलोत्पत्तिरिति तदभ्युपगतमाकस्मिक-
पक्षं दूषयति असतीत्यादि । तत्र कस्याः प्रतिज्ञाया उपरोध इत्याकाङ्क्षायां तां स्फुटीकर्तु-
माहुः एका इत्यादि । एका स्फुटा । एतस्यामेवाभावस्य कारणताऽभ्युपगमः । अपरा त्वेवम् ।
आलम्बनप्रत्ययः, समनन्तरप्रत्ययोऽधिपतिप्रत्ययः, सहकारिप्रत्ययश्चेति चतुर्विधान् हेतून्
प्राप्य चित्तं विज्ञानस्कन्धात्मकं, चैत्ता वेदनास्कन्धात्मका उत्पद्यन्ते । तत्रालम्बनप्रत्ययो
नाम विषयः, तेन चित्तस्य नीलाद्याकारता । समनन्तरप्रत्ययः पूर्वविज्ञानं, तेन बोधरूपता ।
अधिपतिप्रत्यय इन्द्रियं, तेन रूपादिग्रहणप्रतिनियमः । सहकारिप्रत्यय आलोकादिः, तेन
स्पष्टार्थता । एवं चतुर्भिर्हेतुभिर्नीलाद्याकारकविज्ञानात्मकं चित्तमुत्पद्यते । एवं चित्ताभिन्न-
हेतुजानां सुखादीनां चैत्तानामेत एव चत्वारो हेतव इति द्वितीया प्रतिज्ञा । एतस्या अङ्गी-
कारे हेतुभूतस्य वस्तुनो द्वितीयक्षणस्थित्या क्षणान्तरसंबन्धे क्षणिकत्वप्रतिज्ञा नश्यति ।
इदमत्र प्रसङ्गादुक्तम् । प्रस्तुतमाहुः असतीत्यादि । यदि चासत्येव हेतावभावादेव फलोत्पत्ति-
रिष्यते तदा द्वितीया चतुर्विधान् हेतून् प्रतीत्येति प्रतिज्ञा नश्यति । तदिदमुक्तम् असति
प्रतिज्ञोपरोध इति । यदि च क्षणिकत्वं स्थितमेवेति द्वितीया नाङ्गीक्रियते, तदा हेत्व-
भावस्य सर्वत्र सुलभत्वेन प्रतिबन्धाभावात् सर्वं सर्वत उत्पद्येत, एकदैव चोत्पद्येतेति ।
तदिदमुक्तं यौगपद्यमन्यथेति । तथा चोभयथाप्यसंगतं सौगतं मतमित्यर्थः ॥ २१ ॥
रश्मिः।
असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥ २१ ॥ निरस्तेति ब्रह्मणः समवायित्वस्य
निरस्ता। दूषयतीति सूत्रकारः। तत्रेत्यादि असति उभयोः प्रतिज्ञयोः कस्याः। तामिति प्रतिज्ञाम्।
अपरेत्यादिभाष्यं विवृण्वन्ति स्म अपरेति । प्राप्येति प्रतीत्य इत्यस्य विवरणम् । विज्ञानेति ।
एते स्कन्धा अधिकरणारम्भे व्याख्याताः चैत्यचैत्तचैतिकशब्दैर्व्यवह्रियन्ते । चित्तस्येति । यथा
नीलविज्ञानस्य नीलं वस्त्वालम्बनप्रत्ययो विषयस्तेन नीलाद्याकारता चित्तस्य विज्ञानस्कन्धस्य ।
पूर्वविज्ञानमिति पूर्वस्य विज्ञानं यत्स्मरणमित्युच्यते संस्कारो वा । रूपादीति रूपादिग्रहणस्य
प्रतिनियमः चक्षू रूपमेव गृह्णाति श्रोत्रं शब्दमेवेत्यादिनियमः । द्वितीयायां किंचित्कुर्वन्ति स्म एव-
मिति, पूर्वोक्तप्रकारेण । वस्तुन इत्यादिभाष्यं विवृण्वन्ति स्म एतस्या इति । क्षणिकत्वप्रतिज्ञेति
प्रथमप्रतिज्ञा इति भाष्यविवरणमिदम् । इदमत्रेति अत्र भाष्ये । प्रसङ्गादिति संगतिसामान्यलक्षणस्य
प्रसङ्गघटितत्वात्सामान्यलक्षणसमन्वयाय । एवमुपोद्घातसंगतिमुक्त्वा प्रकृतं सूत्रार्थमाहुरित्यर्थः ।
तेनोपोद्घातः संगतिरिरिति सिद्धम् । असतीत्यादीति । असति द्वितीया प्रतिज्ञा नश्यति । हेतूनिति
विषयादिरूपान् प्रतीत्य नामानं प्राप्य । इतीति इति सूत्रांशेन । (अत्र यद्यपि वस्तुनः क्षणान्तरसंबन्धे
ऽसतीत्यर्थः संभवति तथाप्याकस्मिकपक्षदूषणस्यावश्यकत्वात्) भाष्ये सौत्रमन्यथाशब्दः द्वितीया
चेदित्यादिना व्याख्यातं तद्भाष्यं विवृण्वन्ति स्म यदि चेति । स्थितमेवेति स्थितमेव । नाङ्गीति
अनतिप्रयोजनत्वान्नाङ्गीक्रियते । अतियौक्तिकत्वात् । भाष्ये तदेत्यादिना सौत्रं यौगपद्यपदं व्याख्यातं
तद्भाष्यं व्याकुर्वन्ति स्म तदा हेत्विति । उभयथेति सत्त्वेऽसत्त्वे च हेतौ ॥ २१ ॥
1246