सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1349, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1349

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९९
भाष्यप्रकाशः।
पेक्षन्त इति वा अविद्यादय एव संघातस्य निमित्तमिति वा ? अनादौ संसारे संघात एव
संतत्यानुवर्तत इति वा । तत्र नाद्यः । एवं संघाताक्षेपकत्वेऽपि संघातनिमित्ताकाङ्क्षानुपशमेन
तेन निमित्तान्तरस्यान्वेषणे संनिधापयितुर्वक्तुमशक्यत्वेन संघातानुपचितस्तदवस्थ्यात् । न
द्वितीयः । तमेवाश्रित्यात्मानं लभमानानां तन्निमित्तत्वे अन्योन्याश्रयापत्तेः । तृतीये तु संघातः
संघातान्तरं किं स्वसदृशमेव नियमेनोत्पादयत्युतानियमेन सदृशं विसदृशं वेति विचार्यम् ।
तत्र नाद्यः । मनुष्यपुद्गलस्य दैवतैर्यग्योनिनारकप्राप्त्यभावापत्तेः । न द्वितीयः । मनुष्यपुद्गलस्य
कदाचित् क्षणेन हस्तिमनुष्यदेवमर्कटादिभावापत्तेः । तस्मादुभयमप्यभ्युपगमविरुद्धम् । किंच ।
यद्भोगार्थ