सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1338, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1338

५८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ४ सू० १८
समुदाय उभयहेतुकेपि तदप्राप्तिः ॥ १८ ॥ (२-२-४)
अतः परं बाह्यमतनिराकरणम् । ते समुदायद्वयं जीवभोगार्थं संहन्यत इति
भाष्यप्रकाशः।
अतः परमनूनविंशतिभिः सूत्रैर्बाह्यसमयो निराक्रियते ।
समुदाय उभयहेतुकेपि तदप्राप्तिः ॥ १८ ॥ ननु तदग्रे कया संगत्यैतन्मत-
निराकरणमित्याकाङ्क्षायामाहुः अतः परमित्यादि । वैशेषिका ह्यर्धवैनाशिकाः । परमा-
ण्वाकाशादिद्रव्याणामन्येषां च पदार्थानां नित्यत्वाङ्गीकारेऽपि कार्यद्रव्याणां केषांचिद् गुणानां
च निरन्वयविनाशाङ्गीकारात् । निरन्वयध्वंसो नाम तप्तायःपतिताम्बिन्दोरिव निःशेषनाशः ।
सर्ववैनाशिकास्तु बाह्याः सर्वानित्यत्ववादिनः । तन्मते सर्वस्यैव निरन्वयध्वंसात् । तत्र निरा-
[L11