सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 131, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 131

तथाच निर्णये येन केनचिद्रूप्येहरिः स्वयं व्यासो विचारं चिकीर्षुस्तत्क-
र्तव्यतां बोधयति । ब्रह्मजिज्ञासा कर्तव्येति व्यासोक्तत्वादपि कर्तव्यता । कर्तव्य-
पदाध्याहारे स्वातन्त्र्यं न भवति । अन्यथा, 'अथ योगानुशासनम्'इतिवत्
स्वतन्त्रता स्यात् । तथाच ज्ञानानुपयोगः । तथाहि । 'तं त्वौपनिषदं पुरुषं पृच्छामि'
इति केवलौपनिषद्वेद्यं ब्रह्म, न शास्त्रान्तरवेद्यम् । तद् यदि मीमांसा स्वतन्त्रा
स्यात् तज्जनितं ज्ञानं न ब्रह्मज्ञानं भवेत् ।
भाष्यप्रकाशः ।
एतेन शास्त्रप्रयोजनमारम्भसमर्थनायोक्तम् । विचारकर्तव्यतासमर्थनेनोपोद्घातरूपा अधिकरण-
संगतिरपि बोधिता । अतः परं प्रयोजनवत्त्वेऽपीदं शास्त्रं कया संगत्या आगतम् । श्रुतौ च तपस
उपदेशात् तदेव च कुतो नोक्तमित्याकाङ्क्षायां शास्त्रसंगतिं वदन्त एव सूत्राक्षराणि व्याकुर्वन्तः