अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1300, कुल 2600 में से
संदर्भ में पढ़ेंअन्यत्राभावाच्च न तृणादिवत् ॥ ५ ॥
तृणपल्लवजलानि स्वभावादेव परिणमन्त एवमेव प्रधानमिति न मन्तव्यम् ।
अन्यत्र शृङ्गादौ दुग्धस्याभावात् । चकाराचेतनक्रियाप्यस्ति । ततश्च लोकदृष्टा-
न्ताभावादचेतनं प्रधानं न कारणम् ॥ ५ ॥
भाष्यप्रकाशः ।
अन्यत्राभावाच्च न तृणादिवत् ॥ ५ ॥ ननु यथा तृणपल्लवजलानि पशुभक्षितानि
स्वभावादेव क्षीरभावेन परिणमन्त एवं प्रधानमपि महदादिभावेन परिणंस्यते । एवं चा-
नपेक्षाहेतुको व्यतिरेकानवस्थितिदोषोऽपि परिहृतो भवति दृष्टान्तस्य लभ्यत्वादित्याशङ्कायामाह
अन्यत्रेत्यादि । अत्रापि पूर्ववदनुषङ्गः । तद् व्याकुर्वते तृणेत्यादि । प्रधानमन्यानपेक्षपरि-
णामम्, अचेतनत्वात् तृणादिवदित्येवं कारणतया प्रधानानुमानं न कर्तव्यम् । कुतः । अन्यत्र
शृङ्गादौ दुग्धस्याभावात् । यदि हि तृणादिकं स्वभावादेव परिणमेत् सर्वत्रैव दुग्धं भवेत्
तन्न भवति । अतः प्रधानमन्यापेक्षपरिणामम्, अचेतनत्वात् तृणादिवदिति हेतूदाहरणयोः
साधारणत्वे नानुमानं न शक्यं कर्तुमित्यर्थः । चेतनक्रियेति घासभक्षणादिरूपा धेन्वादिक्रिया ॥ ५॥
रश्मिः ।
अन्यत्राभावाच्च न तृणादिवत् ॥ ५ ॥ अनपेक्षाहेतुको व्यतिरेकानवस्थितिदोषस्तत्परि-
हारार्थं सांख्यप्रयासं परिहर्तुं स्वस्वभावकृतपरिणामं दूषयन्तीत्याशयेन पूर्वभाष्यं विवृण्वन्त एवा-
न्यत्रेतिभाष्यमवतारयन्ति स्म नन्विति । पूर्वभाष्ये स्वभावादित्यस्य स्वस्वभावादित्यर्थः । परस्व-
भावाद्ग्रिमाधिकरणे वक्ष्यन्ति । परिणमन्त इति तदीयात्मनेपदानुवादः । तेन न परस्मैपदाभाव-
प्रयुक्तो दोषः । प्रकृते परिणमन्त इति भाष्यानुवादः परिणंस्यत इत्यपि प्रसिद्धयनुरोधेन,
परिणमन्ति परिणमिष्यतीत्येव । ज्ञानादियोग्यं जलाहरणादियोग्यं परिणामं करिष्यत इत्यर्थः । तथा च
द्वितीये सांख्यसूत्रम् 'तत्कर्मार्जितत्वात्तदर्थमभिचेष्टा लोकवत्' इति प्रधानकर्मार्जितत्वात्प्रपञ्चकरणार्थं
प्रधानस्याभिचेष्टा । लोके यथा धेनुभक्षणरूपकर्मार्जितत्वात् तृणादेः क्षीरीकरणार्थं धेनुश्चेष्टा तद्वदिति
सूत्रार्थः । एवं चेति दृष्टान्ते परिणामव्यतिरेकेणापि भक्षिततृणपल्लवजलानामवस्थानदर्शने चेत्यर्थः ।
१व्यतिरेकेणेति कार्यव्यतिरेकेणावस्थानाभावरूपो दोषः । परिहृत इति प्रधानं कार्यव्यतिरेकाव-
स्थानवत् जडत्वात् तृणादिवदिति सत्प्रतिपक्षत्वात्परिहृतः । पूर्ववदिति सप्तम्यन्ताद्वतिः । नानुमान-
मित्यस्यानुषङ्गः । सर्वत्रेति शृङ्गकर्णचरणादौ । तथा च पूर्वोक्तो हेतुर्विरुद्ध इत्याहुः अत इति