अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 128, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४१
अनेन धर्मविचारोप्याक्षिप्त एव । न ह्येतन्निराकर्तुः सोऽयमतिभार इति
पूर्वपक्षः ।
सिद्धान्तस्तु ।
भाष्यप्रकाशः ।
ननु मास्तु ब्रह्मविचारस्यानारम्भणीयत्वं, धर्मविचारे तु दोषाभावात् तदारम्भे को दोष इत्यत
आह अनेनेत्यादि । 'स तृतीयमतप्यत, स एतं दीक्षितवादमपश्यत्' इत्यादि तपस एव कथने-
नेत्यर्थः । नन्विदमपि शास्त्रमुपयुक्तत्वात् प्रामाणिकमतः कथं निराक्रियत इत्यत आह नही-
त्यादि । गुरोर्मते एव निराकृते शिष्यस्य का वा गणनेत्यर्थः । एवं च यथा मीमांसाकरणात् पूर्व-
मन्त्रैरेव संदेहनिवृत्तिस्तथेदानीमपि भविष्यतीति व्यर्थं तत्करणमिति केवलवैदिककृतः पूर्वपक्षो
निरूपितः ।
उत्तरं वक्तुं गृह्णन्ति सिद्धान्त इत्यादि । ननु शब्दस्य निःसंदिग्धमर्थप्रतिपादकत्वात्
रश्मिः ।
वाचकानां क्षराक्षरसंबन्धित्वेन पुरुषोत्तमनिःश्वासे वेदे असत्यार्थस्याभावात् । तेजो घृतादि ।
अर्थविधुराणां वैदिकानां धर्मज्ञानात्संशयो न घटत इति विशिषन्ति प्राज्ञेति । प्रज्ञ एव प्राज्ञः
ते वेदार्थभूतात्मत्वज्ञाः । पूर्वमीमांसाकारिकाणां भावार्थपादभाष्यस्य च तद्विषयकविचारो लाघवा-
दत्रैव युक्त इत्याशयेनानेन इत्यादि भाष्यमित्याशयेन विवृण्वन्ति स्म स तृतीयमिति । इयं श्रुतिः
संहिता तृतीयाष्टकेऽस्ति । स प्रजापतिस्तृतीयं तपो अतप्यत तदन्वेतं दीक्षितवादं ज्ञातवानित्यर्थः ।
पूर्व प्रकाशे प्राज्ञेति स्वयं विशेषणोक्तेः । ननु मीमांसकान्तरोत्यापकग्रन्थाभावात् पूर्वपक्षोपन्यासोऽयं
दुर्बोध इति चेन्न, नात्र ब्रह्मपदेन भ्रमितव्यम् । ब्रह्मपदस्य 'जिज्ञासितमधीतं च यद्ब्रह्म' इत्यत्र वेदे
प्रयुक्तत्वात् । वेदत्वेन वेदान्तविचारेपि संहृतमेतच्छारीरकं जैमिनीयेन षोडशलक्षणेनेति वदतां ब्रह्मसूत्राणां
प्राचीनवृत्तिकृतां वेदगतिप्रदर्शनार्थं ब्रह्मपदग्रथनस्य सत्त्वान्न ग्रन्थाभाव इति । सिद्धान्तग्रन्थमवतारयन्ति
उत्तरमित्यादि । गृह्णन्तीति पूर्ववत् । भाष्ये संदेहवारकमिति द्वितीयाधिकरणे—
'संदेहवारकं शास्त्रं वेदप्रामाण्यवादिनाम् ।
क्रियाशक्तिज्ञानशक्ती संदिह्येते परस्थिते' ॥
इति वक्ष्यते । तत्र ज्ञानशक्तिक्रियाशक्ती किन्निष्ठे इति विशेषजिज्ञासाजनकत्वात् विशेषवेदार्थ-
जिज्ञासा भवति । तर्हि कोऽत्र वेदार्थः यत्र संशयोदयः । ज्ञानशक्तिक्रियाशक्ती संदिह्येते परस्थिते
इति भाष्यात् ज्ञानशक्तिक्रियाशक्तिविषयकः संशयः तस्योदय इत्यर्थः । अत्र ब्रूमः ।
'श्रुतिवृन्दैः सदा जुष्टं श्रुतिवृन्दैः सदाहृतम् ।
श्रुतिवृन्दैः सदा सन्तं श्रौतं श्रीकृष्णमाश्रये' ॥
इत्युक्तम् । अथ पुनर्बर्हन्मित्यादिः फलिष्यति । 'शतं शुक्राणि यत्रैकं भवन्ति, सर्वे वेदा
यत्रैकं भवन्ति, सर्वे होतारो यत्रैकं भवन्ति, स मानसीन आत्मा जनानाम्, वेदाहमेतं पुरुषं
महान्तं आदित्यवर्णं तमसस्तु पारे । सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन्यदास्ते'
इत्यत्र पूर्वस्यां शुक्रवेदज्योतिषामृतस्यादिमत्तां यत्रैकीभावः, स आत्मा जनानां, मनसि भव इति
निर्वचनेर्मानसीनस्तस्य च रसामतिरिक्तानन्दलिङ्गत्वमित्यानन्दो ब्रह्म । द्वितीयस्यां चानन्दस्यैव पुरु-
६ प्र० दू० २०
41