अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1273, कुल 2600 में से
संदर्भ में पढ़ेंवैषम्यादिदोषापत्तिरित्युभयथापि दोषाद्वायं वादः साधीयानिति
मीमांसकादिशङ्कायामाहुः वादीत्यादि । पूर्वं तदनन्यत्वादिसूत्रैः सर्वस्य ब्रह्मात्मकत्वं जीवस्यापि
ब्रह्मात्मकत्वं च प्रतिपादयन् यदत्र सापेक्षत्वं हेतूकरोति तेन ज्ञायते वादिबोधनायेदमिति । यतो
Lower section heading:
रश्मिः।
तत एवेति दृष्टान्तादेव । समाधानादिति न कारणमप्रयोजनवत्त्वादित्यत्र हेत्वाभासापत्तेः कार-
णमप्रयोजनवत्त्वादुन्मादादिभिन्नराजवदिति दृष्टान्तान्तरेण समाधानात् । जगत्कारणत्वाभाववति कार्य-
प्रयोजनवत्त्वस्य व्यधिकरणहेतुत्वात् । पर्यनुयोग आक्षेपः । सा लीलेत्यादीति । ननु तथासति
शुद्धलीलाया दशमस्कन्धोक्ताया मुक्तिस्कन्धप्रवेश उचितो न तु निरोधस्कन्धत्वमिति चेत्तत्राहु-
र्भाष्ये तस्येति । तस्य विद्वन्मण्डने नित्यलीलावादे 'विष्णोः कर्माणि पश्यत' इति सं