सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1267, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1267

भावा न तांस्तर्केण योजयेत्' अर्वाचीनविकल्पवितर्कविचारकुतर्कप्रमाणाभास-
शास्त्राकलितान्तःकरणदुरवग्रहवादिनां वादानवसरे सर्वभवनसमर्थे ब्रह्मणि
विरोधाभावाच्च' ।
एवं परिहृतेऽपि दोषे स्वमत्याऽनुपपत्तिमुद्भाव्य सर्वसंप्लवं वदन् मन्दमतिः
सद्भिरुपेक्ष्यः ॥ २७ ॥
भाष्यप्रकाशः ।
केनचिन्न ततः सावयवं स्यात् । न च षोडशिग्रहणाग्रहणवद् विकल्पोऽत्राश्रयितुं शक्यते ।
अक्रियारूपत्वेनापुरुषतन्त्रत्वादतो दुर्घटमेतदित्याशङ्क्य, अविद्याकल्पितरूपभेदाभ्युपगमात् सुघटः
परिहारः । न ह्यविद्याकल्पितरूपभेदेन वस्तुतः सावयवत्वं भवति । न हि तिमिरोपहतनयनेन
अनेक इव चन्द्रमा दृश्यमानोऽनेक एव भवतीति रूपभेदस्याविद्यकत्वान्निरवयवत्वशब्द-
कोपः । न च परिणामश्रुतिः परिणामप्रतिपादनार्था । तत्प्रतिपत्त