अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1241, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ६७
एकविज्ञानेन सर्वविज्ञानोपक्रमबाधात् प्रकरणविरोधश्च । त्रयाविरोधभयपरित्यागे-
नैकमिदं सूत्रमन्यथा योजयन्नतिधृष्ट इत्यलं विस्तरेण ॥ १४ ॥
भाष्यप्रकाशः ।
विज्ञानमिति सिद्धयति । तच्च विशेषणसत्तायामेव घटते । अतो विज्ञानश्रुतिबाधेन तादृशोप-
क्रमबाधात् सूत्रे तथार्थो न संभवति । किंच । प्रकरणमिदं ब्रह्मणः । तत्र सृष्टिद्वारा
तत्कारणीभूतं ब्रह्म ज्ञाप्यते बीजाङ्कुरभावेन, तत्र 'एतच्छुङ्गमनुत्पतितं नेदममूलं भविष्यतीति क्व
तस्य मूल ५ स्यादन्यत्राद्भावेव खलु सोम्यान्नेन शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजो-
मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः प्रजाः सदायतनाः
सत्प्रतिष्ठाः' इत्यादिना । तद् यदि सर्वं मिथ्या स्याच्छुङ्गमूलभावो विरुद्ध्येत । रजतशुक्त