अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1233, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ५१
भाष्यप्रकाशः।
'सेय देवतैक्षत'इत्यादिनोक्ते त्रिवृत्करणेक्षणे, 'इमास्तिस्रो देवता' इति बोधिता देवतानां
या ब्रह्मप्रत्यक्षगोचरता सापि ब्रह्मणो ऽमराहित्वात् युज्येत । न च 'अपागादग्नेरग्नित्वम्'इति
निगमनवाक्यविरोधः । शिष्यस्यार्वाचीनतया अग्नित्वादीन् स्वाभाविकत्वेनावधारयतस्तत्त्वावधा-
रणनिवृत्त्यर्थं तस्य वाक्यस्य तत्राभिमन्यमानस्वाभाविकताऽपगतिबोधकतया विरोधाभावात् ।
अत एतैः शब्दैः 'इदं सर्वं यदयमात्मा', 'सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद'इत्यादिभिश्च
कार्यस्य कारणाभिन्नत्वमेव वाक्यार्थो, न मिथ्यात्वमित्यर्थः ।
रश्मिः।
'सर्वमतुमम्रियत' इति बृहदारण्यकाद्भोगार्थम् । अत्र निमित्तकारणन्यायः । समवाय्यौषधिजं बीजं
व्रीह्या