सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1215, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1215

यहाँ दिए गए पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी पाठ प्रस्तुत है:

भाष्यप्रकाश-रश्मि-परिवृंहितम्। ४१
न तु दृष्टान्तभावात् ॥ ९ ॥
नैवास्मदीये दर्शने किंचिदसामञ्जस्यमस्तीति तुशब्देन परिहरति । स्वपक्ष-
स्थापनपरपक्षनिराकरणयोर्विद्यमानत्वान्न तु वचनम् । तत उत्पन्नस्य तत्र लये
न कार्यावस्थाधर्मसंबन्धः शरावरुचकादिषु प्रसिद्धः । भवतां परं न दृष्टा-
न्तोऽस्ति ॥ ९ ॥
स्वपक्षदोषाच्च ॥ १० ॥
स्वपक्षे चैते प्रतिवादिनः साधारणा दोषाः । निर्विशेषात् प्रधानात्
भाष्यप्रकाशः।
न तु दृष्टान्तभावात् ॥ ९ ॥ परिहारसूत्रमिदम् । व्याकुर्वन्ति नैवेत्यादि । न तु
वचनमिति न तु इति पदद्वयकथनम् । लये नेत्यत्र, लये इति पदच्छेदः । अयमर्थः ।
ब्रह्मकारणवादे ये दोषाः कार्यप्रलयावस्थामादाय भवता प्रदर्शितास्ते कस्य कार्यस्य कस्मिन्
कारणे लये दृष्टा अत्रापाद्यन्ते । लौकिक इति त्वत्सङ्गतम् । शरावादीनां मृदि लये परमाणु-
भावापत्तौ स्थौल्यसावयवत्वाद्यदर्शनात् । महापृथिवीरूपत्वे च परिच्छिन्नत्वाशुद्धत्वाद्यदर्शनात् ।
रुचककटकादीनां च सुवर्णे लये तददर्शनात् । प्रत्युत तैजसानां भाण्डानां मद्यादिसंबन्धेन
दुष्टत्वेभिसंबन्धात् तत्स्र्याकारस्य नाशनेन पुनः पूर्वभावसंपत्तौ निर्दोषता स्मर्यते । 'तैजसानां
रेतोविण्मूत्रासृक्कुणपादिभिश्चाण्डालसूतिकोदक्यापतितादिभिश्चिरमुपहतानामावर्तनम्' इति । एवं
मार्तिकानामपि मृद्भावे । 'वातोद्धृतं रजः शुचि' इति । अतो लोकविचारेऽस्माकं दृष्टान्ताः
सन्ति, न भवतामिति ॥ ९ ॥
स्वपक्षदोषाच्च ॥ १० ॥ अथ शास्त्रीये कारणे दृष्टा इत्युच्यते तर्हि स्वगृहमन्वेषयित्वा
ततो वक्तव्यम् । तवापि निर्विशेषात् प्रधानात् सविशेषस्य शब्दादिमत उत्पत्तेः कार्य-
रश्मिः।
न तु दृष्टान्तभावात् ॥ ९ ॥ पदद्वयेति । स्वपक्षस्थापनं नञर्थः । ननु पूर्वपक्षत्वाव-
च्छिन्नप्रतियोगिकाभावो नञर्थः । न तु पूर्वपक्षत्वावच्छिन्नतादात्म्यसंबन्धावच्छिन्नप्रतियोगिताको
भेदोपि । स स्वपक्षस्थापनेपीति स्वपक्षस्थापनं भेदः तमोवन्न भावप्रतीतिर्नाधिका । भाष्ये स्व-
पक्षस्थापनं पूर्वपक्षभेदरूपं क्रियते इति । द्वितीयार्थः स्पष्टः । तथा च युक्त्या श्रुतिविप्रतिषेधपरिहारे
सिद्धान्तनिरूपणम् । स्वपक्षस्थापनपूर्वकपरपक्षनिराकरणस्य निरूपणत्वात् गदाधर्याम् । अन्यत्र तु
नकारमात्रप्रयोगे स्वपक्षस्थापनमात्रम् । पदद्वयमित्यत्र शक्तं पदम्, न तु सुप्तिङन्तं पदम्, सुपां सुलुका
लुप्तत्वेन तन्निमित्ताङ्गकार्यस्याभावात् । रुचकेति रुचकं कण्ठभूषणम् । आदिपदेन कुण्डलम् ।
चकारेण दार्वीयाणां तक्षणाद्यावर्तनम् । कुणपः शवः । आदिशब्देन मेदः । उदक्या रजस्वला
स्त्री । पतितः अतिनिषिद्धकर्मकर्ता । आदिशब्देन महापराधिनो गुरुनिन्दकादयः अपराधिनिरूपणे
प्रसिद्धाः । शुचीति तदावर्तितानां शुचित्वम् । दृष्टान्ता इति तैजसदार्वीयमार्तिकाः । भवतामिति
असत्कारणवादिनाम् ॥ ९ ॥
स्वपक्षदोषाच्च ॥ १० ॥ एवं लौकिककारणे लये दृष्टान् दोषान्निवार्याथेति भिन्नप्रक्रमेण
शास्त्रीये दृष्टान् वितण्डया वारयन्ति स्म अथेति । दृष्टा इति दोषा दृष्टा अत्रापाद्यन्ते । निर्वि-
शेषादित्यादिभाष्यं विवृण्वन्ति तवापीति प्रतिवादिनोपि । तस्योत्पत्तिरिति भाष्यं विवृण्वन्ति
६ ब्र० सू० २०
1109