सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1209, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1209

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३५

भाष्यप्रकाशः।
सन्मात्रमसदन्यत्' इति । इहापि जडमोहात्मके जगत्यपि अन्यत्त्वेन प्रतीयमानं यज्जडादि-
रूपत्वं तदसत् । अतस्तदनादृत्य सर्वं सन्मात्रं पश्येदित्यर्थः । ननु जडादिरूपताप्याकारादि-
वदसि औत्पत्तिकी प्रतीयत इति कथं सन्मात्रत्वमवधारणीयमित्याकाङ्क्षायां तदवधारण-
प्रकारमाह 'सत्यं हीत्थं पुरस्तादयोनि स्वात्मस्थमानन्दचिद्धनं सिद्धं ह्यसिद्धं तत्' इति ।
हि यतो हेतोः सत्यं सद्रस्तु, पुरस्तात् सृष्टिपूर्वकाले, इत्थं सर्वाकारम्, अयोनि अजन्यं,
स्वात्मस्थं स्वप्रतिष्ठम्, आनन्दचिद्धनम् आनन्दचिदाकारमेव सिद्धम् । हि अतो हेतो-
र्निश्चयेन वा तज्जडमोहात्मकत्वमसिद्धम् । तथा चेदानीं जडादिरूपताया औत्पत्तिकत्वेन
प्रतीयमानत्वेऽप्यविद्याभिभवविरहदशायामप्रतीतेरान्तरालिकमेव