अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 120, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ३३
भाष्यप्रकाशः ।
कृत्वेनेतराविषयतया पारिशेष्यादात्मविषयत्वस्यैव सिद्धेः । नचैवं सति तत्स्वरूपयाथात्म्यभान-
प्रसङ्गः । साधनान्तरवैकल्येन तथाऽऽपादयितुमशक्यत्वात् । लोकेऽपि मणिपरीक्षादौ तथा
निर्णयात् । अन्यथा सांख्यादिशास्त्रतो नित्यानित्यवस्तुविवेकस्याप्यसंभवे त्वदमितविचारा-
धिकारस्याप्यसंभवापत्तेः । अतोऽनिच्छतापि प्रत्यग्वित्तिवेद्यत्वमात्मनोऽङ्गीकार्यम् । नचैवं परतः-
प्रकाशत्वेन जडत्वापत्तिः । इदानीं तथात्वेऽपि, अत्रात्मा स्वयंज्योतिर्भवतीति श्रुतेः स्वप्न एव
तस्य स्वतःप्रकाशत्वेन जाग्रति तदभावेऽपि भस्मच्छन्नाग्निवददोषात् । जाग्रति तथाऽभ्युपगमस्यो-
क्तश्रुतिविरुद्धत्वाच्छ्रौते मते चित्स्वरूपत्वे सति स्वयंप्रकाशसंविदाश्रयत्वस्यैव चेतनत्वात्, तेनै-
रश्मिः ।
अहमित्यस्याभिमाने योगाद् ब्रह्मणि रूढिरिति भाष्योक्तेः । वस्तुतस्तु असन्निवृत्तिकृतः पुरुष-
विधसाहमिति सत्तारूपधर्मेणाविर्भावः । अस्तेर्भुवोर्यकस्य शतरि कृते रूपमिदमिति । तर्हि अहमिति
सत्ताकृत् स्वरूपं सत्तानित्यत्वे तत्कारणेच्छायां व्यापारः । व्यापारः कर्म स्वयमेवेति ब्रह्मणि योगः
इति वेदान्तत्वादुपपन्नतरः । मीमांसाकारिकासु वेदान्ते योगमात्रादरात् । अहंकारेत्यादि अहंकारो
विषयो यस्याः सा अहंकारविषया तस्याः भावो अहंकारविषयता तस्या इत्यर्थः । प्रत्यक्त्वेन
रूपेण ज्ञानता कर्तृत्वादयो ये इतरे ते विषया यस्याः सेति पूर्ववत् । एवं सतीति
आत्मविषयिण्या अप्रमत्वे सतीत्यर्थः । साधनान्तरेति । मनः करणं 'एषो अणुरात्मा चेतसा
वेदितव्यः' इति श्रुतेः, योगेन साधितमेव पश्यति, 'अन्तरेव च पश्यति' इति श्रुत्यन्तरात् 'अयं
हि परमो धर्मो यद्योगेनात्मदर्शनम्' इति स्मृतेश्च योगादिसाधनान्तरवैकल्येनेत्यर्थः । तथेति
माने प्रकारस्य याथात्म्येत्यर्थः । नासौ न भ्रमः । अग्रे बाधादिति । तथा निर्णयादिति ।
वज्रयोगानन्यमनस्त्वादीनि साधनान्तराण्यत्र । अन्यथेति प्रत्यग्वित्तिविषयत्वे प्रकारे ।
नित्यानित्येति नित्यानित्यवस्तुविवेकः शमदमादि वैराग्यं मुमुक्षुत्वं चेति साधनचतुष्टयवानधि-
कारी तत्र प्रकारो नित्यानित्येति, अधिकारिशरीरे विशेषणत्वेन निविष्टेत्यर्थः । सिद्धमाह अत
इति । एतावता व्यासेवैपरीत्यमङ्गीकारितमधुना दूषयितुमुपक्रमः । उक्तज्ञानान्तरविषयत्वे
जडत्वापत्तिरित्यनुवदति न चेति । भस्मच्छन्नेति । भस्मस्थानीयमविद्यादेहादि । उक्तश्रुतीति ।
अत्र आत्मा स्वयंज्योतिरिति श्रुतिविरुद्धत्वात् । एवं आत्मसंविदोः स्वयंप्रकाशत्वेन प्राप्तं तौल्यं
निषिद्धम् । 'सत्यं ज्ञानम्' 'यः सर्वज्ञः' इति श्रुतिद्वयसिद्धं लक्षणमाह श्रौते मते इति । जीव-
जडयोरतिव्याप्तिवारणाय दलद्वयम् । स्वयंप्रकाशश्चासौ संविदाश्रयश्चेति कर्मधारयः ततः षष्ठीतत्पु-
रुषः । तेनैवेति संविदि विशेष्यशून्यत्वेन संविदात्मनोरर्थयोस्तौल्यस्य परिहारादित्यर्थः । यत्तु
प्राभाकरमतमाक्षिप्तं तत्तु इष्टमेव । एकसत्त्वे द्वयं नास्तीति प्रतीत्याध्यापनविधिप्रयुक्ताध्ययनस्य सिद्धान्ते
सत्त्वादिति । अर्थज्ञानस्य अध्ययनविधिप्रयुक्तत्वाभावात् स्वाध्यायादिविधिप्रयुक्तत्वस्यार्थज्ञाने सत्त्वात् ।
प्राभाकरमते ज्ञानविषययोर्यः कश्चिद्भवतु । किंच ज्ञातता भट्टमते प्रत्यक्षेण, मुरारिमिश्रमते तु व्यव-
सायज्ञानेन ज्ञातता भवति तत्रानुव्यवसायानुक्तिः । किंच नात्मनश्चाक्षुषाध्यक्षविषयता आकाशे
चाक्षुषग्रहणवारणायोद्भूतरूपस्य कारणत्वात् । तस्य चात्मन्यभावात् । अपि च ज्ञानेन ज्ञानप्रामा-
ण्यगृहीतिरपि न सांप्रतम् । तथा सति दूराहितज्ञाने प्रामाण्यसंशयानुदयप्रसङ्गात् । ज्ञानस्य ज्ञात-
त्वेन तन्निष्ठप्रामाण्यस्यापि ग्रहादिति । ज्ञातत्वाभावे च धर्म्यज्ञानात् संशयानुदय इति । अतो
५ ब्र० सू० २० 33