अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1082, कुल 2600 में से
संदर्भ में पढ़ेंयहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्तिशः (line-by-line) लिप्यन्तरण है:
भाष्यप्रकाश-रश्मि-परिबृंहितम् । ९३३
तत्र नन्वस्मिन् संघाते आत्मज्ञानं भवतीत्याकाङ्क्षायां दुन्दुभ्यादिदृ-
ष्टान्तत्रयमाह । परंपरया बाह्याभ्यन्तरभेदेन । यथा महाकोलाहले दुन्दुभेर्ह-
न्यमानस्य शब्दो गृहीतो भवति । तत्र करणं दुन्दुभिदर्शनं दुन्दुभ्याघातदर्शनं
वा । अनुमानद्वारा चित्ते तत्र निविष्टे तत्साक्षात्कारो भवतीति तथा आत्मनो
बोधककार्यानुसंधाने तत्साक्षात्कारो भवतीति । तत्र कथं सर्वत्वमित्याकाङ्क्षायां
तत एवोत्पन्नं सर्वं नामरूपात्मकं तस्मिन्नेव लीयत इति । स यथेति द्वयेनाह । मध्ये
भाष्यप्रकाशः।
च्छब्दे श्रुते, कस्यायमिति जिज्ञासायां योग्यतया सजातीयशब्दान्तरेण वा कारणमनुमिनोति ।
एवमनुमानद्वारा चित्ते तत्र निविष्टे ततः प्रयत्नेनान्यथा वा तस्य दुन्दुभेः साक्षात्कारो भव-
तीति दृष्टान्तः । तथात्रात्मबुभुत्सायाम्, आत्मनो बोधकानि यानि चेष्टादिरूपाणि तत्कार्याणि
तेषां विचारेण चित्तेऽनुमानद्वारा आत्मानुसंधाने तस्यात्मनोऽप्यस्मिन् संघाते श्रवणादिभिः
रश्मिः।
तथा चेति योग्यतयेति एकपदार्थेऽपरपदार्थसंबन्धो योग्यता। एकस्मिन् पदार्थे महाकोलाहलामि-
भावके शब्देऽपरपदार्थस्य दुन्दुभेः संबन्धः। स्वान्वितान्वितत्वं संबन्धः खं शब्दः तस्माद्वा एतस्मा-
दात्मनः इति श्रुतेः तेनान्वित आकाशस्तेनान्वितो वायुरित्येवं संबन्धः स्वरूपः। अनया कारणानुमानं
दुन्दुभिशब्दः क्वचिदाश्रितः गुणत्वादूपादिवादिति । ननु रूपादिकं न दृष्टान्तः साध्यतावच्छेदक-
स्वरूपसंबन्धेन हेतुतावच्छेदकसमवायसंबन्धेन हेतुमति घटादिरूपादौ साध्याभावात् । प्रत्युत
साध्याभाववद्वृत्तित्वेन साधारणो हेतुरिति चेन्न घटादिभिन्नौषधिवृत्तिरूपादीनां दृष्टान्तत्वात् । तथा च
श्रुतिः 'तस्माद्वा एतस्मादात्मन आकाशः संभूतः आकाशाद्वायुर्वायोरग्निरग्नेरापः अद्भ्यः पृथिवी पृथिव्या
ओषधयः' इति । स्वरूपं रूपं तेजस्सन्तन्मात्रा तत्राश्रयो दुन्दुभिरेव संबद्धत्वात् ततश्च शब्दः
दुन्दुभ्याश्रित इत्यनुमितिः। अत्र नैयायिकैः साध्यतावच्छेदकसंबन्धशैथिल्यप्रयुक्तसमवायाङ्गीकारेण
शब्द आकाशाश्रित इत्यनुमित्यापत्त्यार्थान्तरं निग्रहस्थानमित्यरुच्या पक्षान्तरमाहुः सजातीयेति।
'सर्वः शब्दो नभोवृत्तिः श्रोत्रोत्पन्नस्तु गृह्यते।
वीचीतरङ्गन्यायेन तदुत्पत्तिस्तु कीर्तिता' ॥
इति भाषापरिच्छेदस्य मुक्तावल्याम् । दूरस्थशब्दस्याग्रहणादाह श्रोत्रेति ननु सृद्द्माद्य-
वच्छेदेनोत्पन्ने शब्दे श्रोत्रे कथमुत्पत्तिरित्यत आह वीचीति आद्यशब्दस्य बहिर्देशदिगवच्छिन्नोऽन्य-
शब्दस्तेनैव शब्देनोत्पाद्यते एवाद्यशब्दव्यापकः । एवं क्रमेण श्रोत्रोत्पन्नः शब्द उपलभ्यत इति ।
एवं च श्रोत्रोत्पन्नेन तत्कारणं शब्दानुमिनोति तेन शब्देन तत्कारणं तेन तत्कारणमित्येव
सजातीयशब्दान्तरेण कारणं दुन्दुभिमत्नुमिनोति शब्दान्तरं कारणजन्यं कार्यत्वात् घटवदिति कारणं
दुन्दुभ्यादिकमिति । अनुमानेति भाष्यं विवृण्वन्ति एवमनुमानद्वारेति । तत्रेति दुन्दुभ्यादौ
जानाति इच्छति यतते इत्यत्रेच्छा न नियतेत्याशयेनाहुः ततः प्रयत्न इति । अन्यथेति ।
अप्रयत्नकर्तृत्वेन द्वितीयपक्षे दुन्दुभिसाक्षात्कारोनुमितिः सोक्ता । तथेति भाष्यं विवृण्वन्ति
तथात्रात्मेति । बुभुत्सेति बोद्धुमिच्छायां सन् मध्भावः खरि चेति चर्वम् । तत्कार्याणीति
शरीरकार्याणि शरीरसमवेतचेष्टयेति अग्रे ग्रन्थात् । अनुमानेति अनुमानं च संघातः आत्मवान् चेष्टाव-
त्त्वात् देवदत्तसंघातवत् । कार्यादिति वा हेतुः । भाष्यप्रकाशे तत्र कार्यलिङ्गकानुमानमित्यग्रे वक्ष्य-
११८ ब्र० सू० २०
985