अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1034, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ८८५
न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च ॥ ११ ॥ (१।४।३)
मन्त्रान्तरेण पुनराशङ्क्य परिहरति । बृहदारण्यकषष्ठे श्रूयते ।
'यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः ।
तमेव मन्य आत्मानं विद्वान् ब्रह्माऽमृतोऽमृतम्' ॥
भाष्यप्रकाशः।
न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च ॥ ११ ॥ सूत्रमवतारयन्ति मन्त्रा-
न्तरेणेत्यादि । आशङ्क्येति सांख्यमतस्य श्रौतत्वमाशङ्क्य । तेन विषयरूपहेतुभेदादधिकरणा-
न्तरत्वं वा, पूर्वशेषत्वान्न वेत्यपि बोधितम् । विषयमाहुः बृहदित्यादि अत्र षष्ठ इति
काण्वपाठाभिप्रायेणोक्तम् । माध्यंदिनानां चतुर्थे दर्शनादिति । मन्त्रार्थस्तु, यस्मिन्नेते पञ्चादय
आकाशान्ताः प्रतिष्ठितास्तमात्मानमेवं ब्रह्माऽमृतं विद्वानन्यो जीवः, अमृतो मुक्तो भवतीति
शेषः । अन्यैस्तु तमेवात्मानं ब्रह्माऽमृतं विद्वानहममृत इति मन्य इति व्याक्रियते ।
रश्मिः ।
स्फुटत्वान्न कोपीत्यर्थः । सूत्रार्थः । कल्पनोपदेशाच्चकारात् पञ्चम्या लुक् । चकारात् परोक्षवादात् ।
मध्वादिवच्च मध्वादिवदित्यत्र सप्तम्यन्ताद्वतेर्व्याकृतत्वात् अजाशब्दसाहचर्य्यरूपज्योतिर्वाचक-
त्वस्याविरोधः । विरोधः सहानवस्थानलक्षणः । अजात्वविशिष्टाजावाचकत्वेन सह ज्योतिर्वाचक-
त्वस्यानवस्थानं न । प्रत्यक्षवादे पूर्वस्य परोक्षवाद उत्तरस्य सत्त्वादिति । भाष्ये । वेद इति वेदस्य
चेश्वरात्मकत्वादिति भावः । प्रकाशे गौण्युक्तेव । अत्राजामेकां लोहितशुक्लकृष्णामिति विषयः ।
अत्राजाशब्देन सांख्यमतसिद्धा प्रकृतिरुच्यते वा अग्निसोमसूर्य्यविद्युदादिरूपं ज्योतिरुच्यते इति संशये
प्रकृतिरिति पूर्वपक्षेऽजाशब्देन ज्योतिरेवोच्यत इति सिद्धान्तः । संगतिस्तूक्ता निर्वाहकस्वरूपा
ज्ञेया । पूर्वाधिकरणनिरूपणानन्तरं किं सांख्यनिराकरणनिर्वाहप्रयोजकमिति जिज्ञासाया 'कल्पनोप-
देशाच्च मध्वादिवदविरोधः' इत्यधिकरणनिरूपणमिति ॥ १० ॥
इति द्वितीयमधिकरणम् ॥ २ ॥
न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च ॥ ११ ॥ भाष्ये । बृहदारण्यकेति
माध्यंदिनानां षष्ठेऽध्याये 'अथ जनको ह वैदेहः कूर्चात्' इत्यारम्भके तत्रापि शारीरब्राह्मणे श्रूयते ।
प्रकृते । सूत्रमिति त्रिसूत्रमिदमधिकरणम् । तत्रात्र सूत्रे मंत्रान्तरेण पुनराशङ्क्य परिहार इतरयो-
र्मंत्रार्थः संख्यापूरणं च । एवमन्यत्रापि । यस्मिन्निति । पूर्वार्ध भाष्ये व्याकरिष्यते । उत्तरार्धं व्याकुर्वन्ति
यद्यपि तमेव मन्येहमात्मानं विद्वान् वेदोपबोधयामि ब्रह्मामृतं कृष्णं सदानन्दं अमृतोऽहं मन्ये ब्रह्म
सदमृतमानन्द इत्यर्थो भवति । तथापि पूर्वमत्रे 'यदैतमनुपश्यत्यात्मानं देवमञ्जसा । ईशानं भूतभव्यस्य
न तदा विचिकित्सति' इति मन्त्रे आत्मदर्शी विशेषेण निवासं कर्तुं नेच्छतीत्युक्तम् । तत्रास्मद्दर्शनस्य
पूर्वं सिद्धत्वाद्बोधनं नोपयुज्यत इत्यर्थान्तरमाहुः तमात्मानमिति । ब्रह्मामृतं कृष्णम् ।
'कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः ।
तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते' ॥ इति वाक्यात् ।
अन्यैरिति बृहदारण्यकटीकाकृदादिभिः । शाब्दापरोक्षवादोत्र । तत्तच्छब्दार्थ एव जीवात्मानः
तत्त्वमसीति वाक्येन ब्रह्मामृतं विद्वान् शाब्दज्ञानवान् । मन्ये अपरोक्षज्ञानवान् । अस्वरसस्तु
शाब्दापरोक्षस्य दूषणादाकरे दूषितत्वं ज्ञेयम् । विषयवाक्यार्थ उक्तः । विषयस्त्वत्र पञ्चगुणिताः
११९ म० सू० २० 937