सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1004, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1004

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ८५५
उत्तरम् । एवमग्निजीवब्रह्मणां प्रश्नोत्तराणि । तत्र यदि साङ्ख्यमतं निरूपणीयम्,
'इन्द्रियेभ्यः' इत्यादि स्यात् तदा चतुर्थस्याप्युपन्यासः स्यात् । उपन्यासे हेतुः
प्रश्नः । अत एव पश्चाद्वचनम् । तस्य प्रकृतेऽभावादसङ्गतरीत्या त्रीण्येव प्रकर-
णानीति सिद्धम् । उत्तरप्रश्नाभावार्थं चकारः ॥ ६ ॥
भाष्यप्रकाशः।
सः, जीवं ज्ञात्वा विद्वान्, मोदनीयं सर्वथालम्बनेन प्रसाधनीयं ब्रह्म लब्ध्वा प्राप्य मोदते । एष
ह्येवानन्दयातीति श्रुतेः । मोदते हि यतो हेतोरतो नचिकेतसं त्वामधिकारिणं प्रति स च सद्म-
भूतं ब्रह्म विवृतमपाहृतद्वारं मन्य इति कथनेन ब्रह्मणः स्मारणात् । न च पञ्चमवल्लीस्थस्य, यथा च
मरणं प्राप्येति सार्द्धवाक्यस्योत्तरत्वं शङ्क्यम् । व्यवहितत्वात् । हन्त इदं