ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 22, कुल 304 में से
संदर्भ में पढ़ेंअध्या० १। ख० ४] ऐतरेयारण्यकम्। १७
षष्ठस्य तृचस्य प्रथमार्थं स्पष्टार्थत्वाभिप्रायेण पठति —
ओमासश्चर्षणीधृतो विश्वे देवास आगतेति, इति ।
हे विश्वे देवा अस्मिन्कर्मण्यागच्छत । कीदृशाः — अवन्ति रक्षन्तीत्योमासः ।
चर्षणयो मनुष्या यजमानास्तान्धारयन्ति पोषयन्तीति चर्षणीधृतः ।
वेदनशंसने प्रशंसति—
. आ हास्य विश्वे देवा हवं गच्छन्ति य एवं
वेद येषां चैवं विद्वानेतद्धोता शंसति, इति ।
हूयतेऽत्रेति हवो यज्ञः ।
द्वितीयार्धं व्याचष्टे—
दाश्वांसो दाशुषः सुतमिति यदाह ददुषो
ददुषः सुतमित्येव तदाह, इति ।
कीदृशा विश्वे देवाः — सुतमभिषुतं सोमं दाशुषो दत्तवतो यजमानस्य दाश्वांसः
फलं दत्तवन्त इत्येतस्मिञ्छ्रुतिर्यदाह दाशुष इति यत्पदं तत्तेन पदेन ददुषो ददुष
इत्यमुमेवार्थमाह । “दाशृ दाने” (भ्वा० उ० से० ८८२) इत्यस्माद्धातोस्तच्छब्द-
निष्पत्तिः । एकवचनस्य यजमानजातिविषयत्वाद्वीप्सार्थोऽपि लभ्यते ।
दाश्वांस इति पदेन सूचितं फलं दर्शयति—
ददति हास्मै तं कामं देवा यत्काम एतच्छंसति, इति ।
वेदन शंसने प्रशंसति—
य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति ।
ददति हास्मा अपि(इति) फलमत्राप्यनुवर्तते ।
सप्तमस्य तृचस्य तृतीयपादे धियावसुशब्दं व्याचष्टे—
पावका नः सरस्वती यज्ञं वष्टु धिया-
वस्रिति वाग्वै धियावसुः, इति ।
या सरस्वती देवी सा नोऽस्माकं पावका शुद्धिहेतुः सती यज्ञमस्मदीयं वष्टु
वहतु । कीदृशी सरस्वती—धियावसुर्बुद्ध्या सर्वान्राच्छादयन्ती बुद्धिप्रदेत्यर्थः ।
पावकेत्यादिस्तृचस्य प्रथमपादो यज्ञमित्यादिस्तृतीयस्तस्मिन्धिंयावस्रितिशब्देन देव-
तान्तरं नाभिधीयते किं तु वागेव प्रथमपादोक्ता सरस्वत्येव ।
ओमासश्च०—ऋ० सं० म० १ सू० ३ ऋ० १। दाश्वांसो दा०—ऋ० सं०
म० १ सू० ३ ऋ० ७ । पावका नः स०—ऋ० सं० म० १ सू० ३ ऋ० १० ।
१ ग. घ. ॰यार्थ व्या॰। २ घ. इत्यस्मिं॰।
३