अगस्त्य संहिता (महर्षि अगस्त्य - पञ्चरात्र राम-उपासना एवं मन्त्र-विधान सटीक)
Agastya Samhita of Sage Agastya with Commentary
महर्षि अगस्त्य / पं. भवनाथ झा द्वारा
पृष्ठ 303, कुल 337 में से
संदर्भ में पढ़ेंपरिशिष्ट 1
हेमाद्रि-कृत 'चतुर्वर्गचिन्तामणि' में उद्धृत 'अगस्त्य-संहिता'
(कमलाकर भट्ट-कृत 'निर्णय-सिन्धु' में उद्धृत)
उपोषणं जागरणं पितॄनुद्दिश्य तर्पणम्। A.S.-28.5a-b
तस्मिन् दिने तु कर्तव्यं ब्रह्मप्राप्तिमभीप्सुभिः।। A.S.-28.5c-d
सर्वेषामप्ययं धर्मो भुक्तिमुक्त्यैकसाधनः। A.S.- 26.11a-b
अशुचिर्वापि पापिष्ठः कृत्वेदं व्रतमुत्तमम्। A.S.-26.11c-d
पूज्यः स्यात् सर्वभूतानां यथा रामस्तथैव सः। A.S.-26.12a-b
यस्तु रामनवम्यान्तु भुङ्क्ते मोहाद् विमूढधीः। A.S.-26. 12c-d
कुम्भीपाकेषु घोरेषु पच्यते नात्र संशयः।। A.S.-26.13a-b
अकृत्वा रामनवमीव्रतं सर्वव्रतोत्तमम्। A.S.-26.15 a-b
व्रतान्यन्यानि कुरुते न तेषां फलभाग् भवेत्।। A.S. -26.12c-d
प्राप्ते श्रीरामनवमीदिने मर्त्यो विमूढधीः। A.S.-27.9a-b
उपोषणं न कुरुते कुम्भीपाकेषु पच्यते।। A.S.-27.9c-d
आचार्यं चैव सम्पूज्य वृणुयात्प्रार्थयेन्निशि। A.S. 26.25 a-b
श्रीरामप्रतिमादानं करिष्येऽहं द्विजोत्तम। A.S.-26.25c-d
भक्त्याचार्यो भव प्रीतः श्रीरामोऽसि त्वमेव च।। A.S.-26.25e-f
तथा-
स्वगृहे चोत्तरे देशे दानस्योज्जवलमण्डपम्।
शङ्खचक्रहनूमद्भिः प्राग्द्वारे समलंकृतम्।। A.S.-26.35a-b
गरुत्मच्छाङ्गिबाणैश्च दक्षिणे समलंकृतम्। A.S.-26.35c-d
गदाखड्गाङ्गदैश्चैव पश्चिमे सुविभूषितम्।। A.S.26.36a-b
पद्मस्वस्तिकनीलैश्च कौबेरे समलंकृतम्। A.S- 26.36c-d