सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 6, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 6

प्रकाशकीयम्
ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् ।
तेषां च यो निरोध एवंवादी महाश्रमणः ॥
मान्या विद्वत्तल्लजाः !
इदं खलु विमृशतामस्माकं मानसं भृशमुल्लासमासादयति यदस्माभिः
बौद्धभारतीस्थापनात्षष्ठे वर्षे (१९७४तमे ख्रिष्टाब्दे) इदं महत्त्वशालि,
अभिधर्मशास्त्रस्य मुकुटालङ्कारभूतम् आचार्यवसुबन्धुविरचितं सभाष्यम्
यशोमित्रकृतस्फुटार्थव्याख्यासहितं सम्पूर्णम् अभिधर्मकोशाख्यं ग्रन्थरत्नं श्रीमतां
करकमलेषु सादरं समुपाहृतम् । तत्संस्करणमापणे निःशेषतां गतमिति कृत्वा
इदानीमस्येदं द्वितीयं संस्करणं ग्राहकाणामाग्रहवशाच्चित्रप्रतिकृतिमुद्रणेन पुन-
र्मुद्राप्यते ।
अत्रास्माभिः पाटलिपुत्रीयकाशीप्रसादजायसवालशोधसंस्थानतः प्रकाश-
मापन्नं भाष्यम् ('का०' संकेतेन), तथा कलिकातानगरतः प्रकाशितं
श्रीलाहासम्पादितं चतुर्थकोशस्थानपर्यन्तं स्फुटार्थव्याख्यापुस्तकं ('स्फु०' मु.द्वित-
पा०संकेतेन) आदर्शपुस्तकत्वेन स्वीकृतम् । ततश्च जापानदेशीयटोकियोनगरतः
'अभिधर्मकोशव्याख्याप्रकाशनसमित्या' प्रकाशितं श्रीवोगिहारामहोदयसम्पादितं
स्फुटार्थव्याख्यापुस्तकं च (जा० संकेतेन) आदर्शत्वेन स्वीकृतम् । आचार्य-
वसुबन्धुविरचितः पुद्गलविनिश्चयोऽपि अत्राष्टमकोशस्थानस्य क्रोड़े
स्थापितः ।
इत्येवं भारतवर्षे सपादेकसहस्रवर्षानन्तरं विगतदशके पुनः प्रकाशमा-
प्तस्यास्य साङ्गोपाङ्गस्य समग्रस्याभिधर्मकोशस्य द्वितीयसंस्करणरूपेणा-
दितोऽष्टमकोशपर्यन्तं सम्पूर्णो ग्रन्थो विदुषां मनस्तोषमावक्ष्यतीत्याशास्ते ।
दि० १५-३-८५ मन्त्री
वाराणसी बौद्धभारतीपरिषदः