युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 14, कुल 278 में से
संदर्भ में पढ़ें( ११० )
त्वयि कापालिके भुवन-चमत्कारौकलावशेषः औषधि-विशेषो
वास्ति । ततो राजाप्याह—मया सहसा हतं सुतं रक्ष । सोऽब्र-
वोत् नृपेन्द्र ! माभैसीः तनयस्ते नाथ-प्रसादेन नैवमरिष्यति ।
प्रातस्तव गेहं स्वयमेव समेष्यति, परं श्मशानभूमौ बुद्धिसागर
सचिवेन सह होमद्रव्यसम्भारं प्रेषय । कापालिकेन यदुक्तं तत् सर्व्वं
भूपालेन सम्पाद्य बुद्धिसागरामात्यः प्रेषितः । ततश्च यामिन्यां
निगूढ़तया वत्सराजगेहाद्-भोजस्तत्र सरित् पुलिनं नीतः । तपस्विना
भोज कुमारः पुनर्जीवित इति जनश्रुतिः सर्व्वतोऽप्यजायत । ततः
पौरामात्यैः परिवृतो भोजोराजसदनमागतः । ततस्तमालिङ्ग्य
रुदन्तं मुञ्जं निवार्य्य भोजः स्तौति । ततो राजा लज्जावनतशिरा सन्
स्वीय-सिंहासने भोजमुपवेश्य राज्यभारं समर्प्य वनं गतः । ततो
मुञ्जे वनं प्रस्थिते बुद्धिसागरं श्रेष्ठामात्यं विधाय भोजः स्वयं राज्यसुखं
बुभुजे । ततो राजपरिषद सहस्रशः सूरिवरा चतुर्दिग्भ्यः समा-
जग्मुः । ततो राजा सचिवं प्रत्याह, “लक्षं महाकवेर्देयं तदर्द्धं
विवुधस्यच......” इति । ततः क्रमेण वररुचि-सुबन्धु-बाणामर-
वामदेव-हरिवंश-शङ्कर--कलिङ्ग-कर्पूर-विनायक-मदन-विद्याविनोद-
कोकिल-तारेन्द्र प्रमुखाः सर्वशास्त्रविशारदाः सर्वज्ञा इव बुधवरा
राजसभामहर्निशमलङ्कुर्व्वन्ति । कियत्कालानन्तरं कविराज-कालि-
दासे समागते तेन सार्द्धं भूपेन्द्रस्य परमाप्रीतिरजायत । अन्यत्
भोजप्रबन्धे विस्तृतमस्ति । केचित् सूरयः अस्यैरेन्द्रजालिकविद्यां,
अपरेतु भोजविद्यां वानुमिमते । अपरेतु शैवतन्त्रोक्ता कामसूत्र-
व्याख्यातृ-यशोधरेणोल्लिखिताः चतुःषष्टिकलाविद्याःसन्ति तास्वे-
वान्तर्नीता ऐन्द्रजालिकविद्या इति वदन्ति ।
अन्येतु—यदा यवनमहावीर मामुदगजनो कालञ्जरं समवरुरोध,
तदैव भोजनृपतिर्यवनसैन्यं सर्वथा जघान । चालुक्य भूपाला अस्य