सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 11, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 11

अवतरणिका ।
—*—
इह खलु भोज-भूपालोऽशेषशास्त्र-विशारदः निखिलनृपति-
मुकुटाभरणो धारानगरीनाथः । एतन्नाम्नाऽन्येपि प्राञ्चो नृपालाः
पूर्वमनेके आसन् । तथाच ऋग्वेदे * “भोजा याश्वं संमृजन्त्याशुं
भोजायास्ते.........भोजस्येदं पुष्करिणीव वेश्म”......... । अत्र
दक्षिणा नाम प्रजापतेर्दुहिता, तया सूक्तात्मनः स्तुतिसम्बन्धं
दृष्टम् । तत्रैषा जगती दातृ-प्रशंसा । ‘भोजाय’ राज्ञे ‘अश्वं आशुम्’
शीघ्रम् ‘संमृजन्ति’ संमार्जयन्ति-स्नापयन्ति भृत्याः । किञ्च,—
भोजाय उद्वहनार्थं अन्यान् वरानपास्य ‘शुम्भमाना’ स्वलङ्कृता शोभ-
माना-‘कन्या’ ‘आस्ते’ स हि तामर्हतीत्यभिप्रायः । किञ्च, भोजस्य
‘इदं’ ‘वेश्म’ गृहं परिष्कृतम्, ‘पुष्करिणी’ ‘देवमाना इव’ पुष्करै-
र्दैवतं विमानमिव......... । इति निरुक्त दैवतकाण्डवृत्तौ श्रीम-
दुर्गाचार्याः । नायं वैदिको भोजोऽस्य प्रणेता धाराधीशो वा ।
एवं महाभारते † पुराणे च भोजः भोजकट-देशश्च प्रख्यातोऽस्ति ।

  • ऋक् सं ८।६।४।५ । निरुक्ते अः ७, खः ३ ।
    † महाभारते आदिपर्वणि तृतीयाध्याये,—द्रुह्युतनयानां नाम भोज इत्यासीत् ।
    कुन्त्याश्च पालक-पिता, अस्य तु नाम कुन्तीभोज इति । जरासन्धाधीन जनैकनृपतिः ।
    अयोध्यायां कोऽपि नरेश स्तन्नाम्नासीत् । तथैवोत्कलदेशे कोऽपि नृपतिः । वङ्गदेशे तन्नाम्ना
    बहवो नृपाला आसन् । जैतपुर्रीय प्राचीनलेखे भोजनाम्ना नरेश आसीत् । तथैव कान्य-
    कुब्जे तन्नाम्ना नरपाल आसीत् । इति डाक्तरराजराजेन्द्रलालमित्रेणोक्तम् । एतन्मतेऽपि