Skip to content
SarvaKosh
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

by महर्षि याज्ञवल्क्य

Source: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (origin)

DevanagariSanskritpublished782 pages

Page 156 of 782

Read in context
Page 156

प्रभृतयो निरस्ताः । पुनर्भूक्तलक्षणा, तस्यां जातः पौनर्भवः, अवकीर्णी
ब्रह्मचर्य एव स्खलितब्रह्मचर्यः, कुण्डगोलौ—'परदारेषु जायेते द्वौ सुतौ
कुण्डगोलकौ । पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः॥' (मनुः ३।१७४)
इत्येवमुक्तलक्षणौ, कुनखी १कुत्सितनखः, श्यावदन्तकः स्वभावान्कृष्णदशनः ।
'एते श्राद्धे निन्दिताः' इति वक्ष्यमाणेन संबन्धः ॥ २२२ ॥
भाषा—रोगी, अङ्गहीन या बढ़े हुए अंग वाला, काना, पुनर्भू (दुबारा
व्याही गई स्त्री) का पुत्र, स्खलितब्रह्मचर्य, कुण्ड (पति के जीवित रहते
दूसरे पुरुष के सम्बन्ध से उत्पन्न) पुत्र, गोलक (पति के मरने पर दूसरे
पुरुष से उत्पन्न) पुत्र, भद्दे नाखूनों वाला, काले दाँतों वाला, ॥ २२२ ॥
भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः ।
मित्रध्रुक् पिशुनः सोमविक्रयी परिविन्दकः ॥ २२३ ॥
वेतनग्रहणेन योऽध्यापयति स भृतकाध्यापकः, वेतनदानेन च योऽधीते
सोऽपि, क्लीबो नपुंसकः, असद्भिः सद्भिर्वा दोषैर्यैः कन्यां दूषयति स कन्या-
दूषी, सताऽसता वा ब्रह्महत्यादिनाभियुक्तोऽभिशस्तः । मित्रध्रुक् मित्रद्रोही,
परदोषसंकीर्तनशीलः पिशुनः, सोमविक्रयी यज्ञे सोमस्य विक्रेता, परिविन्दकः
परिवेत्ता, ज्येष्ठेऽकृतदारेऽकृताग्निपरिग्रहे वा यः कनीयान्दारपरिग्रहमग्निपरिग्रहं
वा कुर्यात्स परिवेत्तः । ज्येष्ठस्तु परिवित्तिः । तथाह मनुः (३।१७१)—
'दाराग्निहोत्रसंयोगं यः२ करोत्यग्रजे स्थिते । परिवेत्ता स विज्ञेयः परिवित्तिस्तु
पूर्वजः ॥' इति । एवं दातृ-याजकावपि—'परिवित्तिः परिवेत्ता यया च परि-
विद्यते । सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥' इति (३।१७२) ३मनु-
वचनात् ॥ २२३ ॥
भाषा—वेतन लेकर पढ़ाने वाला, नपुंसक, कन्या पर झूठे या सही
दोष लगाने वाला, ब्रह्महत्यादि के पाप से अभिशस्त, मित्रद्रोही, चुगलखोर,
सोमलता का विक्रय करने वाला, बड़े भाई के अविवाहित रहते विवाह
करने वाला ॥ २२३ ॥
४मातापितृगुरुत्यागी कुण्डाशी वृषलात्मजः ।
परपूर्वापतिः स्तेनः कर्मदुष्टाश्च निन्दिताः ॥ २२४ ॥
विना कारणेन मातापितृगुरून् यस्त्यजति स मातापितृगुरुत्यागी । एवं
भार्यासुतत्याग्यपि, 'वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्य-
१. संकुचितनखः । २. कुरुते योऽग्रजे स्थिते । ३. इति समान-
दोषश्रवणात् । ४. मातृपितृ, मातापित्रोगुरोः ।