Skip to content
SarvaKosh
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

by महर्षि याज्ञवल्क्य

Source: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (origin)

DevanagariSanskritpublished782 pages

Page 153 of 782

Read in context
Page 153

आचाराध्यायः ६७
भाषा—बिना माँगे ही दुराचारी व्यक्ति द्वारा भी लाई हुई (कुशादि)
वस्तुएँ ग्रहण करने योग्य होती हैं; किन्तु कुलटास्त्री, नपुंसक एवं पतित व्यक्ति
द्वारा स्वयं लाई गई (ये वस्तुएँ भी) द्विज न ग्रहण करे ॥ २१५ ॥
प्रतिग्रहविवृत्तेरपवादान्तरमाह—
देवातिथ्यर्चनकृते गुरुभृत्यार्थमेव वा ।
सर्वतः प्रतिगृह्णीयादात्मवृत्त्यर्थमेव च ॥ २१६ ॥
देवातिथ्यर्चनादेरावश्यकत्वात्तदर्थम १नात्मकारणात् । पतिताद्यत्यन्तकुत्सित-
वर्जं सर्वतः प्रतिगृह्णीयात् । गुरवो मातापित्रादयः, भृत्याः भरणीयाः
भार्यापुत्रादयः ॥ २१६ ॥
भाषा—देवता और अतिथि की पूजा एवं सत्कार के लिये अथवा
माता पिता आदि गुरुजनों एवं स्त्री पुत्रादि आश्रित जनों के लिए तथा अपनी
वृत्ति के लिए सभी स्थानों से दान लेना विहित है ॥ २१६ ॥
इति दानप्रकरणम् ।
अथ श्राद्धप्रकरणम्
इदानीं श्राद्धप्रकरणमारभ्यते । श्राद्धं नामादनीयस्य तत्स्थानीयस्य वा
द्रव्यस्य प्रेतोद्देशेन श्रद्धया त्यागः। तच्च द्विविधं—पार्वणमेकोद्दिष्टं चेति। तत्र
त्रिपुरुषोद्देशेन यत्क्रियते तत्पार्वणम् । एकपुरुषोद्देशेन क्रियमाणमेकोद्दिष्टम् ।
पुनश्च त्रिविधं-नित्यं नैमित्तिकं काम्यं चेति । तत्र नित्यं नियतनिमित्तोपाधौ चोदि-
तमहरहरमावास्याष्टकादिषु । अनियतनिमित्तोपाधौ चोदितं नैमित्तिकं यथा पुत्र-
जन्मादिषु । फलकामनोपाधौ विहितं२ काम्यं यथा स्वर्गादिकामानां कृत्तिकादि-
नक्षत्रेष्ठ, तिथिषु च। पुनश्च पञ्चविधम्—'अहरहः श्राद्धं पार्वणं वृद्धिश्राद्धमे-
कोद्दिष्टं सपिण्डीकरणं चे'ति । तत्राहरःश्राद्धं—'अन्नं पितृमनुष्येभ्यः' इत्यादि-
नोक्तम् । तथा च मनुः (३।८२)—'कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा।
पयोमूलफलैर्वापि पितृभ्यः प्रीतिमावहन् ॥' इति ॥
अधुना पार्वणं वृद्धिश्राद्धं च दर्शयिष्यंस्तयोः कालानाह—
अमावास्याऽष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् ।
द्रव्यं ब्राह्मणसंपत्तिर्विषुंवत्सूर्यसंक्रमः ॥ २१७ ॥
व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः ।
श्राद्धं प्रति रुचिश्चैते श्राद्धकालाः प्रकीर्तिताः ॥ २१८ ॥
१. मानापत्कारणात् । २. चोदितं । ३. विषुवः ।
७ या०