सामग्री पर जाएँ
सर्वकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

कॉपीराइट समस्या बताएँ

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 105, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 105
पृष्ठ 105 स्कैन

आचाराध्यायः ४६
मित्राणि, सम्बन्धिनो येभ्यः कन्या गृहीता दत्ता वा, मातृपितृसम्बन्धिनो १
बान्धवाः ॥ १०८ ॥
भाषा - भिखारी को और ब्रह्मचारी को सत्कारपूर्वक भिक्षा देनी चाहिए ।
( भोजन के ) समय पर आये हुए मित्र, संबन्धी और बान्धव को भोजन
करावे ॥ १०८ ॥
महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् ।
सत्क्रियाऽन्वासनं स्वादु भोजनं सूनृतं वचः ॥ १०९ ॥
महान्तमुक्षाणं धौरेयं महाजं वा श्रोत्रियायोक्तलक्षणायोपकल्पयेत् ‘भवदर्थ-
मयमस्माभिः परिकल्पितः’ इति। तत्प्रीत्यर्थं, नतु दानाय व्यापादनाय वा,
यया सर्वमेतद्भवदीयमिति, प्रतिश्रोत्रियमूचासम्भवात्, अस्वर्ग्यं लोकविद्विष्टं
धर्म्यमप्याचरेन्नतु’ (आ. १५३) इति निषेधाच्च । तस्मात्सत्क्रियोद्येव कर्तव्यम् ।
सत्क्रिया स्वागतवचनासनपाद्यार्घ्याचमनादिदानम् । तस्मिन्नुपविष्टे पश्चादुप-
वेशनमन्वासनम्, स्वादु भोजनं मिष्टमन्नम्, सूनृत वचः ‘धन्या वयमद्य
भवदागमनात्’ इत्येवमादि । अश्रोत्रिये पुनः ‘अश्रोत्रियस्योदकासने’ ( ५।४१ )
इति गौतमोक्तं वेदितव्यम् ॥ १०९ ॥
भाषा-श्रोत्रिय ( वेदपाठी ) अतिथि के लिए बड़ा बैल या बड़ा बकरा
उसके सम्मुख प्रस्तुत करे । ( उसके उपरान्त ) उसका ( पाद्यार्घ्य, आचमन
आसन आदि से ) स्वागत करे; ( उसके बैठने पर ) निकट बैठे, मधुर भोजन
करावे और प्रिय वचन बोले ॥ १०९ ॥
प्रतिसंवत्सरं त्वर्घ्याः स्नातकाचार्यपार्थिवाः ।
प्रियो विवाह्यश्च तथा यज्ञं प्रत्यृत्विजः पुनः ॥ ११० ॥
स्नातको विद्यास्नातकः, व्रतस्नातकः, विद्याव्रतस्नातकः इति । समाप्य
वेदमसमाप्य व्रतं यः समावर्तते स विद्यास्नातकः, समाप्य व्रतमसमाप्य वेदं
यः समावर्तते स व्रतस्नातकः, उभयं समाप्य यः समावर्तते स विद्याव्रतस्नातकः।
आचार्य उक्तलक्षणः, पार्थिवो वक्ष्यमाणलक्षणः, प्रियो मित्रम्, विवाह्यो
जामाता । चक्राराच्छ्वशुरपितृव्यमातुलानां ग्रहणम् । ‘ऋत्विजो वृत्वा मधुपर्कमाहरे-
त्स्नातकायोपस्थिताय राज्ञे चाचार्यश्वशुरपितृव्यमातुलादीनां च’ इत्याश्वलायन
( गृ. सू. अ. १. खं. ४ ) स्मरणात् । एते स्नातकादयः प्रतिसंवत्सरं गृहमागता
अर्घ्याः मधुपर्केण . पूज्या वन्दितव्याः । ‘अर्घ’ शब्दो मधुपर्कं लक्षयति ।
ऋत्विजश्चोक्तलक्षणाः संवत्सरादर्वागपि प्रतियज्ञं मधुपर्केण संपूज्याः ॥ ११० ॥
१. संबद्धा बान्धवाः । २. याद्येव कर्तव्यं ।
४ या०