विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
by महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह)
Source: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (origin)
Public domain in India · Report a copyright issue
About this granth
The Vishnudharmottara Purana (विष्णुधर्मोत्तरपुराण) is a large Upapurana that presents itself as a supplement to the Vishnu Purana. It has three books: the first on creation, the cosmic ages, geography and genealogies; the second on kingship, law, astronomy, medicine and related subjects; and the third on the arts, covering painting (the Chitrasutra), music, dance, poetry, image-making and temple architecture. The Chitrasutra is among the oldest systematic accounts of Indian painting.
The scanned copy is the complete Sanskrit edition of about a thousand pages printed by the Shri Venkateshwar Press, Bombay, catalogued by the Digital Library of India under 1929. It opens with a Sanskrit preface on the authority of the Puranas, citing the Bhagavata and the Yajnavalkya Smriti. There is no Hindi translation in this edition, and the copy bears the stamp of Sarvodaya Sahitya Mandir, Hyderabad.
Art historians and students of iconography and Indian aesthetics can read the whole Purana here in Sanskrit.
राहुरुवाच ॥ न हि मे रोचते वैरं विष्णुना प्रभविष्णुना ॥ यस्य क्रोधादहञ्जातो जातः परबलार्दनः ॥ ३ ॥ प्रसादाच्च
तथा यस्य महत्त्वमुपलब्धवान् ॥ किमन्यैः कीर्तितैस्तस्य कर्मभिस्तेऽसुरात्मज ॥ ४ ॥ साल्व उवाच ॥ भगव-
ञ्छ्रोतुमिच्छामि कथं तेन महात्मना ॥ अनंगस्त्वं कृतो वीर प्रवेशश्च कथं कृतः ॥ ५ ॥ राहुरुवाच ॥ अमरत्वमभीप्सन्तः पुरा देवा सवा-
सवाः............केशवं शरणं गताः ॥ ६ ॥ देवा ऊचुः ॥ भगवन् देवदेवेश जगतामार्तिनाशन ॥ निर्विशेषा वयं मर्त्यैर्बाधिता तत्राऽहर्ह
नो भवान् ॥ ७ ॥ श्रीभगवानुवाच ॥ क्षीरोदमथने यत्नं त्रिदशाः कर्तुमर्हथ ॥ दानवैः सहिता भूत्वा ततः श्रेयोऽवाप्स्यथ ॥ ८ ॥
राहुरुवाच ॥ एवमुक्ताः सुराः सर्वं देवदेवेन शार्ङ्गिणा ॥ दानवैः सहिता भूत्वा ममन्थुर्वरुणालयम् ॥ ९ ॥ सांहाय्यमकरोत्तेषां तत्र कर्मणि
पार्थिव ॥ विना विष्णुसहायेन न शक्ताः ससुरासुराः ॥ १० ॥ अनन्तः स ततो भूत्वा चोंशः संकर्षणस्य च ॥ उत्पाट्य मंदरं दोर्भ्यां चिक्षेप
पयसां निधौ ॥ ११ ॥ अकूपारे ततो भूत्वा कूर्मरूपी जनार्दनः ॥ मन्दरं धारयामास क्षीरोधिध्वगतमञ्जसा ॥ १२ ॥ स्वेनैव तेजसा नागं
तथा संयोज्य वासुकिम् ॥ चक्रे स नेत्रतां तत्र तत्र कर्मणि दानव ॥ १३ ॥ ततो ममन्थुः सहसा समुद्रं देवदानवाः ॥ यतो मुखं ततो
दैत्या यतः पुच्छं ततः सुराः ॥ १४ ॥ वासुकेर्भवदैत्या मथ्यमाने महोदधौ ॥ मुखञ्ज नागराजस्य केण धृतवान्स्वयम् ॥ १५ ॥
आकाशमिश्रमुखं कृत्वा देवदेवो जनार्दनः ॥ मुखे निःश्वासवातेन सविषेण हि भूपते ॥ १६ ॥ अन्यथा दैत्यसंघानां विनाशमभ-
विष्यत ॥ हिमाचलाभः कल्लोलाः क्षीराब्धेर्गगनस्पृशः ॥ १७ ॥ उत्पेतून्मथ्यमानस्य बलिभिर्देवदानवैः ॥ १८ ॥ शृङ्गाणि निपतन्ति
स्म मन्दरस्य महोदधौ ॥ रत्नचित्राणि रम्याणि शतशोऽथ सहस्रशः ॥ १९ ॥ द्रुमाश्च शतशः पेतुस्तुंगाः पेतुः सहस्रशः ॥ त्रैलोक्यं
पूरयन्नादं स्यास पयसां निधिः ॥ २० ॥ क्षीकल्लोलवसनः श्वेतमेचक्कृतांगुकः ॥ राजते मन्दराङ्गित्स नानाद्युतिविभूषितः ॥ २१ ॥
चलन्र्नेत्रांशुको घूर्णन्नत्यर्थं वायुपूरितैः ॥ गुहामुखैः समन्तं गिरिमित्तोरेणार्णवः ॥ २२ ॥ निर्जंगअर्महानादः शुद्धोच्छ्रितमहाभुजः ॥ अनिशं स
गिरिश्रेष्ठः स्थानहान्येव रोदिति ॥ २३ ॥ देवोपभोग्यान्सकलान्महान्त इति चिन्तयन् ॥ वाद्येषु देववाद्येषु नृत्यतीव स मन्दरः ॥ २४ ॥
एवं हि मथ्यमानस्य क्षीराब्धेः सुमहात्मनः ॥ प्रादुर्भूतं विषं घोरं कालानलसमप्रभम् ॥ २५ ॥ येन प्रोद्भूतमात्रेण विषण्णा देवदानवाः ॥
१ ‘ सहायम् ’ इति ख० । २ ‘ अंशात् ’ इति ख० ।
वि० ध०
॥ २३ ॥
प्र० खं०
अ० ४१
तत्पपौ भगवान्छम्भुस्त्रैलोक्यहितकाम्यया ॥२६॥ विषे कण्ठममुप्राप्ते नीलकण्ठत्वमागतः॥ धार्यमाणान तन्कण्ठे शोभाथं सुवरास्तिः ॥ २७॥
ततश्चाभूत्कला जाता त्रैलोक्यस्यैव सुन्दरी ॥ जटाजूटेन तां चक्रे देवदेवो महेश्वरः ॥ २८ ॥ रश्मिज्वालावलीपुञ्जविभासितजगत्त्रयम् ॥
वैदूर्य्यकौस्तुभं जातं यं बभार हृदा हरिः ॥ २९ ॥ वातरोहो महाकायः शशाङ्कसदृशच्छविः ॥ उच्चैःश्रवाह यो जातस्तं च देवाउपाश्रितः ॥ ३० ॥
ततः पुरा समुत्पन्ना सा च पीता महासुरैः ॥ ततस्त्वप्सरसो जाता देवरामा मनोरमाः ॥ ३१ ॥ देवी लक्ष्मीस्ततो जाता रूपेणाऽप्रतिमा
शुभा॥३२॥ यस्याः शुभौ तामरसप्रकाशौ पादाम्बुजौ स्पृष्टतलाङ्गुलिकौ ॥ जंघे शुभे रोमविवर्जिते च गूढास्थिकं जानुयुगं सुरम्यम् ॥ ३३॥
सुवर्णदण्डाप्रतिमौ तथोरू चाभोगाढ्यस्थं जघनं घनं च ॥ मध्यं सुवृत्तं कुलिशोदरागं वलित्रयं चारु शुभं दधानम् ॥ ३४ ॥ उत्तुङ्गमाभोगि समं
विशालं स्तनद्वयं चारुसुवर्णवर्णम् ॥ बाहू सुवृत्तावतिकोमलौ च करद्वयं पद्मदलाग्रकान्ति ॥ ३५ ॥ कण्ठञ्च शङ्खप्रतिमं सुभ्रुवं पृष्ठं समं चारु
सिराविहीनम् ॥ कर्णौ शुभौ चारुशुभप्रमाणौ सम्पूर्णचन्द्रप्रतिमञ्च वक्त्रम् ॥ ३६ ॥ कुन्देन्दुसुल्या दशनास्तथोष्ठौ प्रवालकान्तौ प्रतिपक्वभूतौ ॥
स्पृष्टा च नासा चिबुकं च रम्यं कपोलयुग्मं शशितुल्यकान्ति ॥ ३७ ॥ जनित्रिनीलोत्पलसन्निाकाशं त्रिवर्णमाकर्णिकमक्षियुग्मम् ॥ शिरोरुहाः
कुञ्चितनीलदीर्घा वीणेव वाणी मधुरा शुभा च ॥ ३८॥ वक्रे सुसूक्ष्मे विमले दधाना चन्द्रामृतुल्येऽतिमनोभिरामम् ॥ श्रोत्रेऽवनाथ्याथ कुण्डले च
संतानकानां शिरसा च मालाम् ॥ ३९ ॥ गङ्गाप्रवाहप्रतिसञ्च हारं कण्ठेन शुभ्रं दधती सुवृत्तम् ॥ ४० ॥ तथाऽङ्गदौ रत्नसहस्रचित्री हेमप्रवन्तौ
चाऽप्यथ नूपुरौ च ॥४०॥ करेण पद्मं भ्रमरोपगीतं वैदूर्य्यनालञ्च शुभं गृहीत्वा ॥ स्वरूपमुद्देक्ष्य सुरासुरेषु दृष्टिं ददौ चारुमनोभिगामा ॥४१॥ सा
देवसंघानासुरांश्च दृष्ट्वा ददर्श देवं जगतां प्रधानम् ॥ देवासुरेभ्योऽन्वतिनिक्तिरूपं सूर्यानुतप्तं भुवनेश्वजयेव ॥४२॥ उद्विग्ननालनिलिनद्युतिचारुवणं
संतताहटकनिभे वसने वसानम् ॥ दृष्ट्वैव जातपुलकोद्गगमात्रकम्पा क्षीरोदविज्या मदनवाणवशं जगाम ॥ ४३॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे
मार्कण्डेयवज्रसंवादे समुद्रमथने लक्ष्मीसमुद्भवो नाम चत्वारिंशत्तमोऽध्यायः ॥४०॥ गरुडउवाच ॥ सा कामवाणाभिहता ममीक्ष्य मधुसूदनम् ॥
स्वयं वृतवती नाथं भर्तारमपराजितम् ॥१॥ प्रकृतिस्मा विनिर्दिष्टा पुरुषः पुरुषोत्तमः ॥ तया वियुज्यते नाऽसौ कदाचिदपि शङ्खहा ॥२॥ शक्रः
पुरुषः प्रोक्तः प्रकृतिः पार्वती स्मृता ॥ पुरुषः पावकः प्रोक्तः प्रकृतिश्च तथा शची ॥३॥ हुताशनश्च पुरुषः स्वाहा च प्रकृतिः स्मृता ॥ यमश्च
^१ 'कर्णौ शुभौ चाभवतां प्रमाणौ' इति पु० ।
॥ २६ ॥
पुरुषः प्रोक्तो धूमोर्णा प्रकृतिः स्मृता ॥ ४ ॥ विरूपाक्षश्च पुरुषः प्रकृतिर्निरृतिः स्मृता ॥ वरुणः पुरुषः प्रोक्तो गौरी च प्रकृतिस्तथा ॥ ५ ॥
वायुश्च पुरुषो ज्ञेयः प्रकृतिश्च तथा शिवा ॥ पुरुषश्च धर्मो वृक्षस्तद्धिष्मप्रकृतिः स्मृता ॥ ६ ॥ चन्द्रमा पुरुषः प्रोक्तो ज्योत्स्ना च प्रकृतिस्तथा॥
धर्मश्च पुरुषः प्रोक्तः प्रकृतिश्च करीषिणी ॥ ७ ॥ यज्ञश्च पुरुषः प्रोक्तो दक्षिणा प्रकृतिस्तथा ॥ दिवसः पुरुषः प्रोक्तो प्रकृतिश्च तथा निशा ॥ ८ ॥
आकाशः पुरुषः प्रोक्तः प्रकृतिश्च तथा मही ॥ ॐकारः पुरुषः प्रोक्तः सावित्री प्रकृतिः स्मृताः ॥ ९॥ प्रकृतिः सा शुभा लक्ष्मीर्विष्णुः पुरुष उच्यते ॥
सा सदैहा विद्दिहा सा सगुणा निर्गुणा च सा ॥ १० ॥ तथा सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ॥ सा कान्तिः सा धृतिः सा श्रीः सा प्रभा च
सनातनी ॥ ११ ॥ सा निद्रा सा शुभा वाणी सा च देवी सरस्वती ॥ रतिः प्रीतिः क्षितिश्चाथ सा गंगा सा सरस्वती ॥ १२ ॥ तुष्टिः पृथिव्वपुः
प्रजा स्वधा मेधा सरस्वती ॥ सैव नद्यः शुभा सर्वाः सैव देवी वनस्पति ॥ १३ ॥ सा वास्तुदेवता दीक्षा सा शक्तिर्विष्णवी स्मृता ॥ बुद्धिलज्जा
धृतिः शान्तिः सुधा शोभा जया त्विषा ॥ १४ ॥ सिनीवाली कुहू राका त्वेवं चातुर्मातः शुभा ॥ कात्यायनी भद्रकाली सुप्रभा विजया तथा ॥
॥ १५ ॥ अदितिर्दितिर्दनुः काला स्नायुः सिंहिका मुनिः ॥ कद्रूः क्रोधा त्विषा प्रावा विनता सुरभिः खँगा ॥ १६ ॥ कीर्तिर्लक्ष्मीर्धृतिर्मेधा क्षमा
श्रद्धा क्रिया रतिः ॥ अनसूया सती मूर्तिर्विभूतिर्वारुणी तथा ॥ १७ ॥ अरुन्धती वपुर्ज्यामी लोभा भ्रातृन्नृचन्ती ॥ संकल्पा च मुहूर्ता च
साध्या विश्वा तथैव च ॥ १८ ॥ मृगा च सुघमन्दा च हरिमद्भा युवा त्विडा ॥ भृता च कपिला दंष्ट्रा सुरमा सुरसा तथा ॥ १९ ॥ राज्ञीश्र्योश्मि
पालानां ब्रह्मश्रीस्तद्विदां शुभा ॥ पुष्पश्रीः काननानां सा जयश्रीर्जयिनां रणे ॥ २० ॥ स्वर्गश्रीः स्वर्गतानां सा दीक्षा सा यज्ञयाजिनाम् ॥ बुद्धि
र्बुद्धिमतां देवी क्षमा देवी क्षमावताम् ॥ २१ ॥ शिखा वह्नौ प्रभा सूर्ये ज्योत्स्ना चन्द्रे प्रकीर्तिता ॥ कान्तिस्तारागणस्योक्ता सा वेला नक्षत्राणाञ्च
णाम् ॥ २२ ॥ सहस्रनेत्राजा दृष्टिः सहस्रनयनस्य सा ॥ उपत्यका पर्वतानां फलश्रीः सा च शाखिनाम् ॥ २३ ॥ महोदधेश्च सा वेला नक्षत्राणाञ्च
कृत्तिका ॥ धनुर्लता च मन्त्राणां हेतीनां चाप्यसेर्लता ॥ २४ ॥ गान्धारी सर्वविद्यानां वृद्धिः सा जगतितले ॥ कार्षकाणां तथा सीता सस्य
शोभा महीतले ॥ २५ ॥ मदलेखा च नागानां भोगिनाञ्च फणावली ॥ रत्नावली च शेषस्य द्युतिर्भगण्डलस्य सा ॥ २६ ॥ सा स्थिता सततं
चन्द्रे बिल्वे नीलोत्पले वृषे ॥ कुञ्जरे तुरगे सिंहे खड्गे च विमले शुमे ॥ २७ ॥ चामरे व्यजने छत्रे भृंगारे गोमये वने ॥ सहस्रकिरणे सूर्ये
१ 'प्रकृतितस्तथा' इति ख० । २ 'कीर्त्तिः' इति ख० । ३ 'क्षितिः प्रीतिरतिस्तथैव' इति ख० । ४ 'मृगाश्वा'इति ख० । ५ 'युधा' इति ख० ।
शके वैश्रवणे यमे ॥ २८ ॥ कमले रजते हस्ति शंखे भद्रासने शुभे ॥ गोमूत्रे सर्पिषि क्षीरे दधि श्रीफलेषु च ॥ २९ ॥ वरुणे च जलाश्रये
समुद्रेषु जलेषु च ॥ कुसुमेषु च शुक्लेषु प्रासादेषु सितेषु च ॥ ३० ॥ हुताशने प्रज्वलिते पार्थिवे चारुशोभिते ॥ रत्नेषु च विचित्रेषु तथैवा
मल्लकेषु च ॥ ३१ ॥ यथा व्याप्तं जगत्सर्वं देवदेवेन शार्ङ्गिणा ॥ तथा व्याप्तं जगत्सर्वं जगन् श्रीगोविन्दकन्यया ॥ ३२ ॥ स्वायंभुवेऽन्तरे देवी
भृगोः सा दुहिता स्मृता ॥ स्वारोचिषे तथा जाता सैव देवी हुताशनात् ॥ ३३ ॥ औत्तमस्यान्तरे जाता सलिलेडामलच्छुभा ॥ तामसस्या-
न्तरे राजन् भूतलात्सा समुत्थिता ॥ ३४ ॥ रैवतस्याप्यतीता सा¹ देवी रैवतमन्वतरे तथा ॥ उत्फुल्लकमलोद्भूता चाक्षुषेऽपि तथान्तरे ॥ ३५ ॥
वैवस्वतेऽन्तरे जाता तथैवाऽमृतमन्थनात् ॥ क्षीरोदधिजञ्जातां तां प्राप्य हृष्टयेन जनार्दनः ॥ ३६ ॥ दृष्ट्वा दुर्भगं देवीं त्रैलोक्यं तन्मृते प्रभुम् ॥
आदाय साऽमृतं शुभं शुभमर्कक्रमण्डलम् ॥ ३७ ॥ एतस्मिन्नन्तरे जातो वैद्यो धन्वन्तरिस्तथा ॥ अमृतं जातमात्रं तु दैत्यमंघाः समाकुलाः ॥
॥ ३८ ॥ धन्वन्तरिमथोन्मथ्य परिभूय च देवताः ॥ अमृतं च समादाय जगमुर्देत्या निवेशनम् ॥ ३९ ॥ इति हतामृतदैत्यगणात्निपातोनाशिवास्य
देवो भुवनस्य गोप्ता ॥ स्थाने च विन्यस्य गिरिन्द्रमुत्थ्य जगाम देवोसुरनांथवैष्वम्² ॥ ४० ॥ इति श्रीविष्णुधर्मामृते प्रथमखण्डे मार्क-
ण्डेयवज्रसंवादेऽमृतमन्थनं नामैकचत्वारिंशत्तमोऽध्यायः ॥ ४१ ॥ ॥ गङ्गरुवाच ॥ ॥ वभूव³ नारी कल्याणी न दृष्टा मधुसूदनः ॥
अनिंद्यव्यवयोरूपा सर्वलक्षणपूजिता ॥ १ ॥ समांगुलितलौ श्लक्ष्णौ स्फुतंगनखौ शुभौ ॥ विभृते चरणौ शुभ्रौ गूढगुल्फौ मनाहृद्यौ⁴
॥ २ ॥ जंघे मनोहरे शुभ्रे सृष्टे लोमविवर्जिते ॥ गूढमंध्यस्थिकै श्लक्ष्ण जानुनी च तथा शुभे ॥ ३ ॥ ऊरू करिगणकारां
कदलीदलकोमलौ ॥ घनसमांगथि जघनं मध्यं कुटिलगात्रिमम् ॥ ४ ॥ त्रिवलीविषयाथानांनाभिपुष्कर्मण्डितम् ॥ गूढमिक्षिक
समं पाश्र्वं समं पृष्ठं मनोरमम् ॥ ५ ॥ समां सुसंहता पीनौ कोमलावरुवक्षुकौ ॥ आभोगिनौ मण्डलिनौ मन्तौ कनकसन्निभौ ॥
॥ ६ ॥ मृणालसदृशौ वाहू करौ कोमलकोमलौ ॥ कम्बुतुल्यं शुभं कण्ठं चोन्नता च कृकाटिका ॥ ७ ॥ मुखं पूर्णन्दुसंकाशं
द्विजाः कुन्दसमप्रभाः ॥ अधरं विद्रुमाकारं नासा मण्युत्तमासमा ॥ ८ ॥ मधुकपुष्पसंकाशौ कपोलौ ललितात्रुवौ ॥ भ्रूयुग्मं कामचा-
पान्तसदृशं सुमनोहरम् ॥ ९ ॥ नातिप्रलम्बौ श्रवणौ नाट्यचारू च कुण्डलो ॥ चिबुकं च मनोहरंग ललाटं शशिसुप्रभम् ॥ १० ॥
¹ 'विष्याणां' इति क० । ² 'दैत्याधिपतावधेशम्' इति क० । ³ 'मल्लन्नम' इति ख० । ⁴ 'मनोहरं' इति क० । ⁵ 'वभूवु' इति क० ।
कृष्णमध्ये सुरक्तान्ते नयने श्वेतप्रभिके ॥ नीलोत्पलदलद्वारे दीर्धे चाऽतितमनोरमे<sup>१</sup> ॥ ११ ॥ कोकिलाऽलिकुलाकारं भिन्नञ्जनचयप्रभम् ॥
केशपाशं तथा किंचिद्वारं कुटिलं शुभम् ॥ १२ ॥ चन्द्ररश्मिप्रकाशेन वस्त्रयुग्मेन भूषिता ॥ १३ ॥ रूपेणाप्रतिमा राजन्सर्वालंकारभूषिता ॥
यत्रयत्र पदन्यासं करोति गजगामिनी ॥ १४ ॥ तत्र तत्रैव वसुधा सपद्मेवोपलक्ष्यते ॥ यत्रयत्राऽसितभ्रुवं दृष्टिं क्षिपति भामिनी ॥ १५ ॥
सितासितोत्पलैस्तत्र किरतीव वसुंधराम् ॥ १६ ॥ यत्रयत्र स्थिता भाति देशे कनकवर्णिनी ॥ १७ ॥ तत्र तत्रैव सौवर्णं सा करोति नभस्तलम् ॥
तां दृष्ट्वा चारुसर्वाङ्गीं मन्मथाविष्टचेतसः ॥ १७ ॥ प्रह्लादरहिताः सर्वे बभूवुर्दानवास्तदा ॥ पादयोः पृथिवीं तस्या धृतिं देवौ च जङ्घयोः ॥ १८ ॥
जानुभ्यां च तथा शान्तिं कान्तिसूरुयुगे शुभे ॥ आयतिं नियतिं लक्ष्मीं वेलां तु जघने तथा ॥ १९ ॥ मध्ये बाहां सतीं पृष्ठे पार्श्वयोश्च सुधां
मुखे ॥ रतिं प्रीतिं कुचयुगे कण्ठे वाणीं तथैव च ॥ २० ॥ जयाँ च विजयां चैव करयोर्भुजयोस्तथा ॥ शोभां प्रभां वक्षसि च श्रियं
देवीं मनोरमाम् ॥ २१ ॥ अरुन्धतीं च चिबुके जिह्वायां च सरस्वतीम् ॥ ज्योत्स्नां कपोलयोर्देवीं निद्रां नेत्रयुगे तथा ॥ २२ ॥
केशपाशे तथा रात्रिं दिशः श्रोत्रयुगे तथा ॥ भृकुट्योर् ललाटे च नासायां च तथा शुचीम् ॥ २३ ॥ सर्वाङ्गसन्धिगा नद्यो लोमस्वथ
वनस्पतिम् ॥ पार्श्वयोः पर्वताश्चैव दैत्येशः सर्वदेवताः ॥ २४ ॥ दृष्ट्वान्निर्ववृतुं तत्र प्रह्लादरिकुलान्तकः ॥ विश्वरूपधरां दृष्ट्वा प्रह्लादस्त्वथ
योषितम् ॥ २५ ॥ विष्णुं मत्वा विशालाक्षीं ज्ञात्वा चैवाऽमृतार्थिनीम् ॥ कामात्तैर्दैत्यैर्लुब्धैस्तु प्रह्लादो दैत्यसत्तमः ॥ २६ ॥ प्रह्लादश्चामृतं
तस्यै प्रणिपत्य प्रसाद्य च ॥ श्रीरूपमास्थितेर्देवैस्त्रैलोक्यं सचराचरम् ॥ २७ ॥ स्त्रीचेष्टमभवत्सर्वं तस्मिन्काल उपस्थिते ॥ उवाच सा
स्त्री प्रह्लादं दैत्य त्वममृतं विना ॥ २८ ॥ ब्राह्मेण कर्मणा सौम्य जीवितान्न विमोक्ष्यसे ॥ योद्धुमभ्युदिता दैत्यैर्देवद्विजकारणात् ॥ २९ ॥
न प्रबोध्यस्तमोमुक्तास्त्वया दैत्य जनार्दनः ॥ भक्तोसि मे सदा वत्स सदैव विजितेन्द्रियः ॥ ३० ॥ तेन ते दर्शिता सौम्य प्रकृतिर्या परा
मम ॥ इत्येवमुक्त्वा प्रह्लादं सोममादाय सत्वरा ॥ ३१ ॥ कामात्तैर्निन्दितैर्दैत्यैस्त्यक्त्वा जगाम सुरमन्दिरम् ॥ स्त्रीरूपं तत्र संत्यज्य देवरूपमु
पाश्रितः ॥ ३२ ॥ पाययामास तत्सर्वं सुरान्सर्वान्समाहितान् ॥ मयाऽपि मध्ये देवानां पीतं तत्सूर्यरूपिणा ॥ ३३ ॥ आदित्यरूपो दैत्योऽ
यं ज्ञातोऽहं शशिभास्करैः ॥ निवेदितश्च देवाय तेनाऽपि लघूकारिणा ॥ ३४ ॥ चक्रेण पातितं वत्स सासृजं मस्तकं मम ॥ अमृतप्राशनात्प्राणे
१ 'मनोहरे' इति ख० ।
५
वि० ध०
॥ २६ ॥
प्र० खं०
अ० ४२
नविद्युत्कोऽसि दानव ॥ ३६ ॥ न मे कण्ठादधोभागमागतं मम चक्रिणा ॥ शिरश्छिन्नं महाराज तत्र प्राणास्ततः स्थिताः ॥ ३६ ॥ शिरस-
श्छेद्नाद्दीनं मां दृष्ट्वा मधुसूदनः ॥ जातानुकम्पो भगवांनिदं वचनमब्रवीत् ॥ ३७ ॥ पीतामृतस्य दैत्यस्य मरणं नास्ति कर्हिचित् ॥ मम
हस्तनिबन्धानां गतिर्भवति शोभना ॥ ३८ ॥ अमरत्वं त्वमासाद्य वरं वरय काक्षितम् ॥ ततो मयोक्तो भगवान्प्रणम्य मधुसूदनः ॥
॥ ३९ ॥ लभेयातां <sup>१</sup> ग्राहौ मत्तो देव परामवम् ॥ पूजाञ्च प्रार्थये लोकाद्ग्रहश्व जनार्दन ॥ ४० ॥ एवमुक्तः स भगवा-
न्मामुवाच तदा हरिः ॥ ग्रहस्त्वं भविता दैत्य पूजां चैवोपलप्स्यसे ॥ ४१ ॥ पर्वकाले च संप्राप्ते चन्द्रार्को छादयिष्यसि ॥ ४२ ॥ तमो
मूर्त्तिरहंश्चैव विपरीतं चरिष्यसि ॥ भूमिच्छायागताश्वन्द्वं चन्द्रगोऽर्कं च दानवः ॥४३॥ यस्योदद्यिष्यसि यदा तदा भागमवाप्स्यसि ॥ होति
जाप्ये तथा होमे दाने श्राद्धे सुरार्चने ॥ ४४ ॥ पुण्यः स कालो भविता नित्यमेवाऽसुरेश्वर ॥ एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत ॥४५॥ पीत
शेषमथादाय सोमं सुरगणेश्वरः ॥ सुरलोके सन्निहिते चकार बलवृत्रहा ॥४६॥ मच्छीर्षात्पतिताभिविन्दुद्वह्रोपा हता ऽसृजा दैत्यगणाः समन्ताः ॥ व्यध्वंश्रमा
देवगणाश्चिहन्तुं सन्नद्धसैन्याः प्रयुयुत्सुदानीम् ॥४७॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादेऽमृतानविभागो नाम द्विचत्वारिंशत्तमो
ऽध्यायः ॥ ४२ ॥ ॥ रुद्ररुवाच ॥ बलिवाणमहाकक्षं शम्बरानर्तेनर्वाषणम् ॥ असुहृदमहाग्राहं कालकेयमहान्जलम् ॥ १ ॥ हिरण्याक्षमहारत्नं
प्रह्लादचलनिश्छलम् ॥ तथा नमुचिकोल्लोलं वृत्तसंह्रादशम्फवत् ॥२॥ <sup>२</sup> शुष्काक्षिशिशुमारौतं कालनेमिमलङ्कृतम् ॥ अमृतोद्ग्रहणक्षुब्धं तदा दैत्यमहा
र्णवम् ॥ ३ ॥ क्षुब्धं दैत्यार्णवं श्रुत्वा निर्गतं समगाय च ॥ निर्ययुस्त्रिदशाः सर्व सन्नद्धा युद्धकोविदाः ॥ ४ ॥ ततः प्रवृत्ते युद्धे घोरं भीमरुचं
करम् देवानां दानवानां च परस्परवधैषिणाम् ॥५॥ पत्यमानैश्च शस्त्रैश्च कवचेषु महात्मनामा। देवानां दानवानाञ्च हुंयुतुर्वेलनोचिषः ॥६॥ गंज
वाजिहुरणुणसुतस्यो सुमहद्द्जः ॥ युगान्तानलशुभामं त्रैलोक्यम्व दुर्द्धतः ॥७॥ तस्मिन्प्रवृत्ते जुग्मि घोरे भीमभयङ्करें ॥ तिमर्यादकुङ्कुर्ड
देवानां दानवैः सहा॥८॥ततो दैत्यसमुत्थेन तथा देवाद्ववेन च ॥ रुधिरेण मही व्याप्ता प्रशान्तञ्च रजः क्षणात्॥ ९॥ध्वजे ध्वजेन युयुधे युयुधानश्च युयुधाना॥
सर्वत्र दृश्यते दैत्यस्तरैलोक्यासप्रमम् ॥१०॥तस्मिन्युद्धे महारौद्रे दैत्यवानवनाशने ॥ वभ्रमुः कुञ्जरा मत्ता महामात्रप्रचोदिताः ॥ ११॥ हतांवगैश्वमन्त्य
वाञ्ज्वैः कुञ्जराः पर्वतोपमाः ॥ कुर्वन्तः स्वान्यनीकानि दृष्यन्त शतशो गणे ॥ १२ ॥ छिद्रदन्ता भिन्नरुजा भिन्नतन्वगपालया ॥ शैलमा
१ ‘मुदा’ इति ख० । २ ‘चक्षुः’ इति क० । ३ ‘समाश्रितः’ इति ख० । ४ ‘निलब्धा’ इति ख० ।
॥ २६ ॥
पतितास्तत्र शोभन्ते रणाजिरम् ॥ १३ ॥ बभ्रुः सादिभिर्हीना हयाः सूर्यहयोपमाः ॥ मृताश्च शतशस्तत्र दृश्यन्ते विकृताननाः ॥ १४ ॥
आगुल्फमवसीदन्ति दैत्याः शोणितकर्दमे ॥ रथिभिर्निहता नागा नागैश्च निहता रथाः ॥ १५ ॥ हयाश्च विद्धा नागैस्तु सादिभिः कुञ्जरा
हताः ॥ रथात्सादिगजारोहेर्निहताश्च पदातयः ॥१६॥ पतिता महता सादी कुञ्जरे रथ एव च ॥ ततः प्रावर्तत नदी रुधिरौघतरङ्गिणी ॥१७॥
अस्त्रग्राहा धनुर्मीना चक्रकूर्मा महास्वना ॥ छत्रहंसा नागवती केशशैवलशाद्वला ॥ १८ ॥ दैत्यौघोपपला रौद्रा तथा भीरुभयावहा ॥
बाहुसर्पा महावर्ता शूराणां हर्षवर्दिनी ॥ १९ ॥ अपारगम्या पत्तीनां फेनपुञ्जसमाकुला ॥ तस्मिन्युद्धे महाघोरे तुमुले लोमहर्षेणे ॥ २० ॥
आकीर्णा वसुधा भाति वदनैः कमलोपमैः ॥ विवृतेश्च महादंष्ट्रैर्दानवानां महात्मनाम् ॥ २१ ॥ बाहुभिश्चाङ्गदैश्चैव रक्तचन्दनरूषितैः ॥
हस्तिहस्तोपमैश्चापि सरत्नैश्च महाधनैः ॥ २२ ॥ तालवृन्तैस्तथा छत्रैश्चामरैर्यष्टिभिस्तथा ॥ मुकुटैः कुण्डलैश्चैव शुभ्रैश्च मणिविभूषितैः ॥२३॥ ततस्ते
दानवाः क्रुद्धाः स्वयुद्धेन दिवौकसः ॥ अभिद्रवन्ति देवेशं सहस्राक्षं पुरंदरम् ॥२४॥ दैत्यानां पततां दृष्ट्वा प्रह्लादं देवसूदनम् ॥ प्रत्युद्ययौ गजेना-
ऽऽढौ देवराजो महाबलः ॥ २५ ॥ हुताशनोऽपि नमुचिमनुहादं तथा शशी ॥ वरुणश्च तथा बाणं यमो देवस्तथा बलिम् ॥२६॥ हिरण्यकशिपुं
रुद्रो वायुर्वृत्रासुरं रणे ॥ विरूपाक्षं तथा शंसुंर्हिरण्याक्षं धनेश्वरः ॥२७॥ अन्ये च दैत्याः शतशः संयुक्ता देवतागणैः ॥ द्वन्द्वयुद्धसहस्रेषु तेष्वेवंवर्त-
त्सुदानवैः ॥ २८ ॥ प्रायशो विजिता देवा यद्युभूत्वा दिशो दश ॥ दानवाश्च जयं लब्ध्वा देवाननु ययुर्बलात् ॥२९॥ ते भग्नास्त्रिदशाः सर्वे दानवै-
श्चापिपीडिताः ॥ त्राणार्थमथ संप्राप्ता नरनारायणाश्रमम् ॥ ३० ॥ देवानानमभयं दत्त्वा नरनारायणौ तदा ॥ शंखचक्रायुधधरो युद्धाय समव-
स्थितौ ॥ ३१ ॥ नरनारायणौ दृष्ट्वा तत्क्षुब्धं दैत्यसागरम् ॥ सर्वायुधविसर्गेण तयोर्युद्धं व्यवस्थितम् ॥ ३२ ॥ गजाभ्राजालसंहन्नं शरधारौघ-
वर्षणम् ॥ चलन्खङ्गलतार्वद्युद्देत्यदुर्द्दिनमाबभौ ॥ ३३ ॥ ततः शरै रुक्मविभूषितैस्तैः सुनिशतैर्द्वन्डलकर्णिकैर्वणैः ॥ बिभेद गात्राणि नरो रिपूणां
जहार शीर्षाणि सकुण्डलानि ॥ ३४ ॥ नारायणोप्युत्तमवीर्यतोजाश्चक्रेण चक्रे दितिनन्दनानाम् ॥ विदारयामास महानुभावस्तस्मिन्त्रणे घोरतरे
तदानीम् ॥ ३५ ॥ वीर्यं तयोरप्रतिमं निरीक्ष्य ते दानवा भग्ननिकेतयोधाः ॥ हतामृता जीवितमात्रदेशा वेगेन याता वरुणाधिवासम् ॥ ३६ ॥
१ 'ह्रथिता निहतो नागो नागेन निहतो रथी ॥ हयश्च छिन्ना नागेन सादिना कुञ्जरो हतः ॥ इति ख० । २ 'हयैः प्राप्ते रथिभिश्च' इति ख० । ३ 'महाक्षत्रैः' इति ख० । ४ 'अभिद्रवन् हि' इति ख० । ५ 'शार्ङ्गचक्रायुधधरौ' इति ख० । ६ 'हन्तुम्' इति ख० । ७ 'निवृत्ता' इति ख० ।
वि० ध०
॥ २६॥
प्र० सं०
अ० ४४
लब्ध्वा जयं देवपतिर्महात्मा प्रह्लादभाजौ च तथा विजित्य ॥ संपूजयामास महानुभावौ धर्मात्मजौ तापसवेषयुक्तौ ॥ ३७ ॥ संपूज्य तौ धर्मसुतौ जितारिर्देवैः प्रहृष्टैरनुयास्यमानः ॥ जगाम नाकं त्रिदशप्रधानः सुखी बभूवाथ गतज्वरश्च ॥ ३८ ॥ एवं प्रभावो भगवान्स विष्णुर्वै न मे रोचति तेन नित्यम् ॥ सन्धिं कुरुष्वाऽऽत्महिताय राजञ्छक्रेण तेनारिनिपूदनेन ॥ ३९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे राहुवाक्येन देवदानवयुद्धवर्णनो नाम त्रिचत्वारिंशत्तमोऽध्यायः ॥ ४३ ॥ मार्कण्डेय उवाच ॥ १ एवमुक्तस्तदा साल्वो राहुणा भीमविक्रमः ॥ जगाद भ्रातरं वाक्यं सारभूतमहं तुमत् ॥ १ ॥ साल्व उवाच ॥ असारे ग्रह संसारे नित्ये सततयायिनि ॥ भवक्षये मतिः कार्या रजोपकरणेषु वा ॥ २ जन्तवस्त्रिविधा लोके त्रिया येषां विविचितम् ॥ २ ॥ तमसा राजसाश्चैव सात्त्विकाश्च ग्रहेश्वर ॥ भवक्षये वै विमुखा भवोपरकरणेषु च ॥ ३ ॥ लोकद्वितयविध्वस्तास्तमासास्ते प्रकीर्तिताः ॥ भवक्षयमतिश्चैव भवोपरकरणे स्थिताः ॥ ४ ॥ राजसास्ते विनिर्दिष्टा मध्यस्थाः सर्वजन्तुषु ॥ भवोपरकरणे दैत्य मतिर्येषां न विद्यते ॥ ५ ॥ भवक्षये मतिर्येषां सात्विकास्ते प्रकीर्तिताः ॥ तामसत्वान्मया दैत्य मतिः पूर्वं भवक्षये ॥ ६ ॥ न कृता तेन तप्त्यामि राज्यतन्त्रसमुत्थितम् ॥ मन्वन्तरेऽपि सम्पूर्णा मतिर्येषां ग्रहोत्तम ॥ ७ ॥ उद्विजनन्त्येव ते मृत्योर्महन्मृत्युक्तं भयम् ॥ अवश्यं दैत्य मर्त्यत्वं सर्वेणह शरीरिणा ॥ ८ ॥ सोऽहं मोक्षात्परिभ्रष्टः कामये केशवाद्वधम् ॥ दृष्टं यद्देवैस्तपन्तं त्रिपूर्णा मूर्धनि स्थितम् ॥ ९ ॥ मर्त्यत्वे च ध्रुवे गमान्मरणं कामयाम्यहम् ॥ संप्राप्य केशवान्मृत्युं गतिं प्राप्स्याम्यनुत्तमाम् ॥ १० ॥ भूयो गजयमवाप्स्यामि नाकश्रेष्ठो ग्रहोत्तम ॥ विवास्य वासवं स्वर्गात्पश्यिभूय पुनःपुनः ॥ ११ ॥ कथं सन्धि करिष्यामि तेनाऽहं जीवितप्रियः ॥ प्रणामं त्वं राजस्य केशवान्मरणं वरम् ॥१२॥ समीक्ष्य मातु पश्यामि केशवान्मरणं रण ॥ शक्रण कृतमन्यान् पातालनिलयं तथा ॥ १३ ॥ त्यक्षन्ति मां दैत्यगणा वृद्धं पतिमिवाऽङ्गनाः ॥ दिवि भूमौ तथा स्वर्गे पाताले गगने जले ॥१४॥ देहिनां मृत्युरभ्येति तस्य नाऽस्ति पलायनम् ॥ मवे श्चया त्ता निवयाः पतनान्ताः समुच्छ्रयाः ॥ १५॥ संयोगा विप्रयोगान्ता मणान्तं हि जीवितम् ॥ अवश्यभाविन्यर्थेऽस्मिन्नन्वेषां ग्रह मवेदा ॥ १६ ॥ पुण्यभाजो हि मरणं संग्रामे यदि जायते ॥ सोऽहं क्षत्रियधर्मेण संपूज्य समरे हरिम् ॥ १७॥ तन्मान्मुत्युमनुप्राप्य गतिं प्राप्स्यामि शोभनामा॥ नैवेद्यैः पुष्पधूपार्थैर्न तथा प्रूजितो हरिः ॥१८॥ तोषमायाति देवेन्द्र रु धमेंण यथा नृणाम् ॥ भ्रात्रा ऽयुध्न यडाच्य सुहृदा हितमिच्छता ॥१९॥
१ 'एवमुक्तस्तदा साल्बो राहुणा भीमविक्रमः' इति क० । २ 'नयावगतया' इति ख० । ३ 'हि' इति क० । ४ 'सन्तोषं' इति क० । ५ 'प्राप्स्याम्यनघाम' इति ख० ।
॥ २६ ॥
तद्भक्तोऽस्मि त्वया नाथ दैवात्तन्मे न रोचते ॥ स त्वं गच्छ महाभाग दिवि द्रक्ष्यसि मां पुनः ॥ २० ॥ देहान्तरमनुप्राप्तं मां हि दिव्येन चक्षुषा ॥
॥ मार्कण्डेय उवाच॥ इत्येव साल्वस्य निशम्य वाक्यं कालानुरूपं च तथा विदित्वा ॥ न किञ्चिदुक्तेव जगाम राहुर्दिवं महात्मा जगतां प्रधानः ॥ २१ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे साल्ववाक्यं नाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥ ४४ ॥ ॥ मार्कण्डेय उवाच ॥
राह्नौ दिवमसंप्राप्ते साल्वे राज्ञि सभां गते ॥ रामेण प्रेषितो दूतः सम्प्राप्तस्त्वकृतव्रणः ॥ १ ॥ स प्रविष्टः सभां रम्यां साल्वराज्ञा च पूजितः ॥
पाद्यार्घ्याचमनीयाद्यैर्निषण्णो वाक्यमब्रवीत् ॥ २ ॥ अकृतव्रण उवाच ॥ दूतोऽहं प्रेषितः साल्व रामेणाक्लिष्टकर्मणा ॥ श्रुत्वा रामस्य वचनं ततः
कुरु यथेप्सितम् ॥ ३॥ आह त्वां भार्गवो रामस्त्र्यम्बकेण विसर्जितः ॥ त्वया युद्धाय दैत्येन्द्र संग्रामं क्रियतां क्षणम् ॥ ४ ॥ विवास्य वासवं स्वर्गाद्देवान्निर्जित्य वा
सदाऽऽहवे ॥ अनन्यस्यास्य घोरस्य फलं प्राप्नुहि दुर्मते ॥ ५॥ नाहं प्रमत्ते विश्वस्ते प्रहरामि कदाचन ॥ तेन ते प्रेषितो दूतस्तस्माद्युद्धे स्थिरो भव ॥ ६॥
मार्कण्डेय उवाच ॥ एवमुक्तस्तदा साल्वो ब्राह्मणं वाक्यमब्रवीत् ॥ नाहं रामकृते ब्रह्मन्सन्नद्धामि कदाचन ॥ ७ ॥ किन्तु सैन्येन सर्वेण
सन्नद्धेन वरूथिना ॥ महादेवं विजेष्यामि येन रामो विसर्जितः ॥ ८ ॥ सन्नद्धसैन्यसहितं महादेवंजयैषिणम् ॥ यदि मां योत्स्यते रामो
हन्तास्मि तमहं मृधे ॥ ९॥ स त्वं गच्छ यथाकामं रामाय विनिवेद्य ॥ एतद्वचनमादाय साल्वस्य स महात्मनः ॥ १० ॥ जगाम रामं धर्मज्ञं
साल्ववाक्यनिवेदितः ॥ गत्वा शशंस रामाय सैहिकेयविचेष्टितम् ॥ ११ ॥ तेन वाक्येन रामोऽपि रोषाद्दैत्यपुरं ययौ ॥ रामदूते गते तस्मिन्
दैत्यान्साल्वः प्रचोदयत् ॥ १२ ॥ सन्नह्यध्वं विजेष्यामः सगणं भगसूदनम् ॥ ततस्ते दानवाः सर्वे साल्ववाक्यप्रचोदिताः ॥ १३ ॥ सन्नद्धा
स्वगृहेभ्यस्तु राजद्वारमुपागताः ॥ कुञ्जराणां निनादेन शङ्खभेरीरवेण च ॥ १४॥ राजद्वारं महाञ्छब्दस्तुमुलः समजायत ॥ हुत्वा हुताशने स्नातः साल्व
संपूज्य च द्विजान् ॥ १५ ॥ आरुरोह गजं मत्तं शैलाग्रं सविता यथा ॥ १६ ॥ विनिर्गतं दैत्यपतिं समीक्ष्य दैत्येश्वराः कालसमानदर्पाः ॥
ऊचुस्तदा तं समरेऽप्यजेयं जयस्व शत्रुंभुवि संगृह्ण ॥ १७॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे श्रीभार्गवरामयुद्धे साल्वनिर्याणं
नाम पञ्चचत्वारिंशत्तमोऽध्यायः ॥ ४५ ॥ मार्कण्डेय उवाच ॥ व्यस्पन्दतांऽथ साल्वस्य राजन्बाहुर्दक्षिणः ॥ हृदयञ्च तथा दृष्टं नयनञ्चाप्य
दक्षिणम् ॥ १॥ शून्यचित्तश्च विमनाः कम्पते च मुहुर्मुहुः ॥ पपात नायकाश्चापि किरीटात्तारकप्रभः ॥ २॥ आक्रमन्ति गजाः पादं तथा वामन
१ 'विवास्य वासवं जित्वा स्वर्गाद्देवान् सदाऽऽहवे' इति ख० । २ 'सन्नद्धामि कथञ्चन' इति ख० । ३ 'रणे' इति ख० । ४ 'साल्ववाक्यनिवेदक' इति ख० । ५ 'व्यस्फुरंस्तदाऽथ' इति ख० ।
वि०ध० ॥ २८ ॥
प्र०खं० अ० ४१
कालगिनिर्वसा ॥ कृताः समरशौण्डेन भीमा रुधिरनिम्नगाः ॥ २४ ॥ परश्वथाग्रविक्षेपाद्गतजीवितकुञ्जरैः ॥ पादोपलेष्व समरे प्रतस्तार स भार्गवः ॥ २५ ॥ दन्तिदन्तपदन्यासम्नातं कुञ्जरमस्तकम् ॥ विनिहत्य गजारूढांश्छेदयन्नञ्चरच्चरन् लघु ॥ २६ ॥ आरुह्य कुञ्जरैके कुञ्जरात्कुञ्जरान्तरम् ॥ अपश्यत् स रणे रामं विचरन्तं यथासुखम् ॥ २७ ॥ भूयो भूमिगतो रामः कुञ्जराणां परश्वधा ॥ चकार कदनं घोरं प्रलयाग्निरिवोत्थितः ॥ २८ ॥ छिन्नाग्रहस्तान्विशिखाङ्कच्छोणितोक्षितान् ॥ क्षितौ गता न पश्यामः श्यामीकृतदिगन्तरान् ॥ २९ ॥ एवं हि युध्यता तेन रणे कालाग्निवर्चसा ॥ हतानि दानवेन्द्राणां प्रयुतान्यर्बुदानि च ॥ ३० ॥ येषां प्रहारं संसोढुं नैवं शक्ता वसुन्धरा ॥ तेषां प्रहारमभिवाङ्गो नैव रामो व्यकम्पत ॥ ३१ ॥ दृष्ट्वा महारवैर्व्याप्तं निहतांश्च महासुरान् ॥ प्रदुद्रुवुर्दैत्यगणाः माल्वं शरणमाहवे ॥ ३२ ॥ अल्पावशिष्टान्दितिजान्नष्टान्धन्वी समीक्ष्य साल्वः स्वहिते निविष्टाय ॥ गतं ययौ तेन गजेन युद्ध गमाद्रेण युद्धमभीप्समानः ॥ ३३ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० साल्वसैन्यवधो नामऽष्टचत्वारिंशत्तमोऽध्यायः ॥ ४८ ॥
मार्कण्डेय उवाच ॥ ॥
ततः साल्वो महातेजाः कुञ्जरेण तरस्विना ॥ अपेयामास धर्मज्ञ रेणुकाकान्दवर्धनम् ॥ १ ॥ स्तब्धकर्णो विवृत्ताक्षः कृत्वा कुण्डलिनं करम् ॥ ग्रीवां निश्चल यत्रागो ययौ गजमदोद्धतम् ॥ २ ॥ दृष्ट्वापतन्तन्तस्य वेगं गमोऽपि तं गजम् ॥ हुंकारमात्रेण गण स्तम्यामास वेगितम् ॥ ३ ॥ मन्मथयामास नागेन्द्र शैलशृङ्गशिखोपमम् ॥ तस्थौ स पुरतस्तस्य साल्वस्य ममप्रियः ॥ ४ ॥ पशुरुं सदिनाङ्कङ्कि मकलङ्कमलं करं ॥ वारयन् विष्णुव्यधाति सकलं कमलेङ्गने ॥ ५ ॥ दन्तिना दन्तिनः पृष्टं गमय्याऽऽडिङ्गुमिच्छतः ॥ जहार वेगवान्वंगं शरैः मन्त्रतपविभिः ॥ ६ ॥ साल्वसायकसंघातैरावितोसुविकृतविक्रमस् ॥ गयं गणे द्युत्यगाणाऽड्यादयिन् बभूवुथैः ॥ ७ ॥ महता माऽञ्चपुंजन गमः संद्यदितो गणे ॥ निर्मिलिताक्षश्चिक्षेप साल्वाय पशुरुं तदा ॥ ८ ॥ आगच्छमानं वेगंन माल्वम्ने पशुरुं गणे ॥ आधुर्वान्द्याचयामान न शशाक च शत्रूहा ॥ ९ ॥ म साल्वायमसंवातं भङ्क्त्वा मवमशेषतः ॥ जहार शीर्षं माल्वम्य मुक्तोत्तमाविभूषितम् ॥ १० ॥ गमाऽपि धृतत्यात्याग गदां हमिविभूषिताम् ॥ आविध्य निजत्रानेण साल्वं कुञ्जरमस्थितम् ॥ ११ ॥ आनडुक्षावणं युद्धो ह्ता च चमसिंविशिषाः ॥ युद्धासक्तौ तदा तौ वीरौ गजस्य गदने स्थितौ तम् ॥ १२ ॥ दृढं च तस्य माल्वम्य पताकां च मनोरमाम् ॥ एतदादाय मकलमाजागाम वमुन्धराम् ॥ १३ ॥ सिंहनादेन गमम्य वित्रमन्तो
१ तेषां प्रहारादिवाङ्गो नैव रामो व्यकम्पत् इति ख० । २ साल्वस्य दन्त्यवत्सत् इति ख० । ३ युनन्दं हाद् इति ख० ।
॥ २८ ॥
गजयूथपः ॥ आर्त्तनादं महत्कृत्वा प्रदुद्राव नराधिप ॥ १४ ॥ रामकर्मणि वृत्तेऽभूतलात्पङ्गु रणे ॥ जयाह वेगावान्कञ्चादानान्वन्तश्चिकी-
र्षया ॥ १५ ॥ दृष्ट्वा सपरशुं रामं साल्वं च विनिपातितम् ॥ हतशेषांस्तु ते दैत्याः प्रविष्टा वरुणाल्यम् ॥ १६ ॥ एतस्मिन्नेव काले तु देवाः
सेन्द्रपुरोगमाः ॥ आयोचनमुपाजग्मुः पुरस्कृत्य पितामहम् ॥ १७ ॥ प्रणाममकरोत्तेषां रामो गतिकरः पितुः ॥ पूजयित्वा तु ते रामं ययुर्द्दिवः
स्वमालयम् ॥ १८ ॥ शक्रोऽपि लब्ध्वा त्रिदिवं रामबाहुप्रसाधितम् ॥ विजहार दिवं राजन्पालयानो जगत्रयम् ॥ १९ ॥ रथेन सिद्धयुक्तेन
महादेवोऽपि भार्गवम् ॥ आदाय प्रययौ शीघ्रं कैलासं पर्वतोत्तमम् ॥ २० ॥ स्नेहेन चाऽस्य गात्राणां चक्रे सम्मार्जनं हरः ॥ येनाऽऽसीद्विगलवान्
रामो निर्व्रणश्च महायशाः ॥ २१ ॥ गतव्रणं श्रियोपेतं जयं लब्ध्वा ह्युपस्थितम् ॥ रामं प्रहरतां श्रेष्ठं शंकरो वाक्यमब्रवीत् ॥ २२ ॥ शङ्कर
उवाच ॥ रामराम महाभाग त्वयाऽहं परितोषितः ॥ तस्मात्तवाऽहं दास्यामि चास्त्राणां हृदुत्तमम् ॥ २३ ॥ अस्त्राणां धारणे शक्तस्त्वमेको
भुवि भार्गव ॥ तव धैर्यमनौपम्यं तव सत्त्वमनुत्तमम् ॥ २४ ॥ अवश्यंगमिहस्थैर्यं कृत्वा पुत्र शनैःशनैः ॥ सर्वास्त्रवित्तत्तो राम गन्तासि पितरं
स्वकम् ॥ २५ ॥ यश्चैष परशुर्दिव्यः पित्रा दत्तस्तवोऽनघ ॥ अद्य प्रभृति ते स्थितः करं भूयः समेष्यति ॥ २६ ॥ उपलक्षणमेतच्च तथा तव
भविष्यति ॥ छेत्स्यामि ते संशयांश्च निर्वृतो भव पुत्रक ॥ २७ ॥ मार्कण्डेय उवाच ॥ इत्येवमुक्तः परिपूर्णकामो रामो महात्मा जितसैन्यना-
थः ॥ उवास तत्र प्रमथैः समेतः सर्वाण्यथास्त्राण्यनुशिक्षमाणः ॥ २८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे साल्ववधो
नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ ब्रह्मास्त्रं वैष्णवं रौद्रमाग्नेयमथ वासवम् ॥ अब्धं नैर्ऋतं याम्यं
कौबेरमथ वारुणम् ॥ १ ॥ वायव्यमथ सौम्यञ्च सौरं पार्वतमेव च ॥ चक्रास्त्रमथ वज्रास्त्रं पाशास्त्रं सार्पमेव च ॥ २ ॥ गान्धर्वं स्वापनं भौतं
तथा पाशुपतं शुभम् ॥ ऐषीकं तर्जनं प्राप्तं मारुण्डं नर्तनं तथा ॥ ३ ॥ अंबरोधनमादित्यं रैवतं मानवं तथा ॥ अक्षिसंतर्जनं भीमं जृम्भणं
रोधनं तथा ॥ ४ ॥ सौपर्णमथ पार्जन्यं राक्षसं मोहनं तथा ॥ कालास्त्रं दानवास्त्रञ्च अस्त्रं ब्रह्मशिरस्तथा ॥ ५ ॥ एतान्यन्यानि चाऽन्यानि
रामो निवसन्वै ततः ॥ समप्रयोगदृष्ट्यानि संहाराणि चाप्यथ ॥ ६ ॥ आजहार महादेवात्प्राप्तसुखवाततः ॥ एवं हि वसतः कालो गयो
रामस्य धीमतः ॥ ७ ॥ हरप्रसादात्संजातात्विक्रमो भुवनद्रुहः ॥ ध्यानासक्तं हरं देवं कदाचिदथ दृष्टवान् ॥ ८ ॥ ध्यानमसक्तं स हरं समीक्ष्य
१ 'हृतदर्पस्तु' इति ख० । २ 'सुखी' इति ख० । ३ 'त्वमेव' इति ख० । ४ 'अक्षयोगमवश्यस्त्वम्' इति ख० । ५ 'अन्तरोधनं' इति ख । ६ 'वसू इति' क० ।
वि० ध०
॥ २१ ॥
प्र० खं०
अ० ६२
॥ २१ ॥
रामस्तु संजातकुतूहलेन ॥ विस्मिसिष्मे धर्मभृतां वरिष्ठः स चेतसा यादववंशचन्द्र ॥ ९॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे अङ्ग-
प्रदानं नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥ ॥मार्कण्डेय उवाच॥ कैलासशिखरे रम्ये नानाधातुविचित्रिते ॥ नानाद्रुमलराकीर्णे नानापक्षिनिना-
दिते ॥ १ ॥ गंगांनिर्झरसंजाते<sup>१</sup> सततं चारुनिस्वने ॥ देवदेवं महादेवं पर्यपृच्छत भार्गवः ॥ २ ॥ राम उवाच ॥ देवदेव महादेव गंगालोलित
मूर्द्धज ॥ शशांकलेखासंयुक्त<sup>२</sup> जटाभारतिभास्वर ॥ ३ ॥ पार्वतीहृदयाह्लादार्थ कामकालाङ्गनाशन ॥ भगनेत्रान्तकविचित्य पृच्छो दशशतातन ॥
॥ ४ ॥ त्वत्तः परतरं देवं नाऽन्यं पश्यामि कञ्चन ॥ पूजयन्ति सदा लिंगं तव देवाः सवासवाः ॥ ५ ॥ स्तुवन्ति त्वामृषिगणा ध्यायन्ति
च मुहुर्मुहुः ॥ पूजयन्ति तथा भक्त्या वरदं परमेश्वर ॥ ६ ॥ जगतोऽस्य समुत्पत्तिस्थितिसंहारपालने ॥ त्वामेकं कारणं मन्ये त्वयि सर्वं
प्रतिष्ठितम् ॥ ७ ॥ कं त्वं ध्यायसि देवेश तत्र मे संशयो महान् ॥ आचक्ष्व तन्मे भगवन्पृच्छ्यनुग्राह्यता मयि ॥ ८ ॥ प्रसादान्मुख्यताया
र्मयैतद्विप्रमभासाद्य जगत्यथान ॥ भवन्तमीढ्यं प्रणिपत्य मूर्ध्ना पृच्छामि संजातकुतूहलात्मा ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे
मार्कण्डेयवज्रसंवादे परशुरामोपाख्याने शंकरगीतासु गद्यप्रश्नो नामकषष्टितमोऽध्यायः ॥ ६१ ॥ छ ॥ शंक उवाच ॥ त्पुळ्तोयमप्रश्नो
राम राजीवलोचन ॥ त्वमेकः श्रोतुमर्होऽसि मत्तो भृगुकुलोद्वह ॥ १ ॥ यत्तत्परमकं धाम मम भार्गवनन्दन ॥ गुह्याद्गुह्यतरम
व्यक्तं परं यस्मान्न विद्यते ॥ ज्ञानज्ञेयं ज्ञानगम्यं हृदि सर्वस्य चाधितम्<sup>३</sup> ॥ २ ॥ त्वामहं पुण्डरीकाक्षं चिन्तयामि जनार्दनम् ॥ एतद्गुह्य
रहस्यं ते ययावत्कथितं वचः ॥ ३ ॥ ये भक्तास्तन्मजं देवं न तें<sup>४</sup> यान्ति पराभवम् ॥ नर्मीशमजमव्यक्तं सर्वभूतपरायणम् ॥ ४ ॥ मवं
नारायणमनिर्देश्यं जगत्कारणकारणम् ॥ सर्वतः पाणिपादन्तं सर्वतोऽक्षिशिरोमुखम् ॥ ५ ॥ सर्वतः श्रुतिमँल्लोके सर्वमावृत्य तिष्ठति ॥ सर्वे-
न्द्रियगुणाभासं सर्वेन्द्रियवि वर्जितम् ॥ ६॥ असक्तं सर्वतश्चैव निर्गुणं गुणभोक्तृ च ॥ बहिरन्तश्च भूतानामचरञ्चर एव च ॥ ७ ॥ सूक्ष्मत्वातद
विज्ञेयं दूरस्थं चान्तिके च यत् ॥ अविभक्तं विभक्तेषु विभक्तमिव च स्थितम् ॥ ८॥ भूतभर्ति च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ ज्योतिपामपि
तज्ज्योतिः तमसः परमुच्यते ॥९॥ अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ प्रकृतिर्विकृतियोंऽसां जगतां भूतभावनः॥ १०॥ यस्मान्नपरंतं नास्ति ॥ २१॥
१ 'गंगाप्रकर्षसंजाते' इति ख० । २ 'शशांकलेखायुत' नयनागरानुगन्क' इति ख० । ३ 'विदितम्' इति क० । ४ 'इ' इति ख० ।
तं देवं चिन्तयाम्यहम् ॥ इच्छामात्रमिदं सर्वं त्रैलोक्यं सचराचरम् ॥ ११ ॥ यस्य देवादिदेवस्य तं देवं चिन्तयाम्यहम् ॥
यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ॥ १२ ॥ यश्च सर्वमयो नित्यस्तं देवं चिन्तयाम्यहम् ॥ गोणीधरं पद्मनाभं विष्णुं
जिष्णुं जगत्पतिम् ॥ १३ ॥ जगन्नाथं विशालाक्षं चिन्तयामि जगद्गुरूम् ॥ शुचिं शुचिपदं हंसं तत्परं परमेष्ठिनम् ॥ १४ ॥ युक्तो
सर्वात्मनाऽऽत्मानं तं प्रपद्ये प्रजापतिम् ॥ यस्मिन्स्रवन्ति भूतानि तिष्ठन्ति च विशन्ति च ॥ १५ ॥ गुणभूतानि भूतेशे सूत्रे मणिगणा इव ॥
यस्मिन्त्रिते तते तन्तौ दृढे स्रगिव तिष्ठति ॥ १६ ॥ सदसद्ग्रथितं विश्वं विश्वांगे विश्वकर्मणि ॥ हरिं सहस्राशिरसं सहस्रचरणेक्षणम् ॥ १७ ॥
प्राहुर्नारायणं देवं यं विश्वस्य परायणम् ॥ अणीयांसमणीयांसं स्थविष्ठञ्च स्थवीयसाम् ॥ १८ ॥ गरीयसां गरिष्ठञ्च श्रेष्ठञ्च श्रेयसामपि ॥ यं
वाकेष्वनुवाकेषु निषत्सूपनिषत्स्वपि ॥ १९ ॥ गृणन्ति सत्यकर्म्माणं सत्यं सत्येषु सामसु ॥ चतुर्भिर्भिश्चतुराननं सत्त्वस्थं सात्वतां पतिम् ॥२०॥
यं दिव्यैर्वमर्चन्ति गुह्यैः परपनामभिः ॥ यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम् ॥ २१ ॥ इह्यानन्त्याय गोविन्दं पश्यत्यात्मन्यवस्थितम् ॥
पुराणः पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो युगादिषु ॥ २२ ॥ क्षये संकर्षणः प्रोक्तस्तमुपास्यमुपास्महे ॥ यमेकंबहुधायातं प्रादुर्भूतमधोक्षजम् ॥ २३ ॥
नान्यभक्ताः क्रियावन्तो यजन्ते सर्वकामदम् ॥ यमोद्बहुजगतां कोशं यस्मिन्सन्निहिताः प्रजाः ॥२४॥ यस्मिंल्लोकाः स्फुरन्तीमे जले शकुनयो
यथा ॥ ऋतमक्षरमक्षरं ब्रह्म यत्तत्सदसतः परम् ॥ २५ ॥ अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः ॥ यं च सुरासुरगन्धर्व्वास्तत्सिद्धांश्चमहोरगाः ॥२६॥
प्रयता नित्यमर्चन्ति परं दुःखभेषजम् ॥ अनादिनिधनं देवमात्मयोनिं सनातनम् ॥ २७ ॥ अप्रतर्क्यमविज्ञेयं हरिं नारायणं प्रभुम् ॥
अतिवाग्बिन्दुकर्म्माणं चाडितिसूर्य्याभ्रितेजसम् ॥ २८ ॥ अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम् ॥ यं वै विश्वस्य कर्त्तारं जगतस्तस्थुषां
पतिम् ॥ २९ ॥ वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम् ॥ यस्याग्निरास्यं द्यौर्मूर्द्धा खं नाभिश्चरणौ क्षितिः ॥ ३० ॥ चन्द्रादित्यौ च नयने तं
देवं चिन्तयाम्यहम् ॥ यस्य त्रिलोकी जठरे यस्य काष्ठाश्च वाहनाः ॥३१॥ यस्य चासश्च पवनस्तं देवं चिन्तयाम्यहम् ॥ विषये वर्त्तमानानां
यं तं वैशेषिकैर्गुणैः ॥ ३२ ॥ प्रादुर्भावप्रयोगोत्तारं तं देवं चिन्तयाम्यहम् ॥ परः कालात्परो यज्ञात्परस्सदसतोश्च यः ॥ ३३ ॥ अनादिरादिर्विश्वस्य
तं देवं चिन्तयाम्यहम् ॥ पद्ध्यां यस्य क्षितिर्जाता श्रोत्राभ्याञ्च तथा दिशः ॥३४॥ पूर्वभागे दिवं यस्यतं देवं चिन्तयाम्यहम् ॥ नाभ्यां यस्या
१ 'इह्यामात्रम्' इति ख० । २ 'यस्ततोऽन्यो' इति क० । ३ 'यमाहुर्बहुजगतः कोशं' इति ख० ।
वि०ध० | प्र० खं०
४३० ॥ | अ० ६३
| ॥ ३० ॥
न्तरिक्षस्य नासाभ्यां पवनस्य च ॥ ३६ ॥ प्रस्वेदादम्भसां जन्म तं देवं चिन्तयाम्यहम् ॥३६॥ वराहरूपं नरसिंहरूपं देवेश्वरं वामनरूपरूपम्॥
त्रैलोक्यनाथं वरदं वरेण्यं तं राम नित्यं मनसा नतोऽस्मि ॥३७॥ वक्रमाश्रित्य ब्राह्मणास्सम्प्रसूता यद्वक्षः क्षत्रियाः संप्रभूताः ॥ पश्योर्वेश्यास्तथा पाद्मद्भवे
वैश्याः पद्भ्यां तथा वस्य शूद्राः प्रसूताः ॥३८॥ व्याप्तं तथा येन जगत्समग्रं विभूतिभिर्भूतभवोद्भवेन ॥ देवाधिनाथं वरदं वरेण्यं तं राम नित्यं मनसा
नतोऽस्मि ॥३९॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे श्रीभागवगवान्प्रश्ने शार्ङ्गणीतासु व्यंगनिर्देशो नाम द्विपञ्चाशत्तमोऽध्यायः ५२।
राम उवाच ॥ वराहं नरसिंहं च वामनं च महेश्वर ॥ त्वत्तोऽहं श्रोतुमिच्छामि प्रादुर्भावान्महात्मनः ॥ १॥ शङ्कर उवाच॥ अदितिश्च दितिश्चैव द्वे भार्ये
कश्यपस्य च ॥ अदितिर्जनयामास देवानिन्द्रपुरोगमान् ॥२॥ दितिंच जनयामास द्वौ पुत्रौ भीमविक्रमौ ॥ हिरण्याक्षं दुराधर्षं हिरण्यकशिपुं
तथा ॥ ३ ॥ ततोऽभिषिच्यवाञ्छक्रं देवराज्ये प्रजापतिः ॥ दानवानां तथा राज्ये हिरण्याक्षं बलोत्कटम् ॥ ४॥ अभिषिच्य तयोः प्रादात्स्वर्गं
पातालमेव चा। पातालं शासितंतथा हिरण्याक्षे महासुरे ॥५॥ धरांचपवनं त्यक्त्वा विबुधैन्द्रे ग्यात्पुणो ॥ पश्यन्तो महाभाग नूनं भाव्यर्थचोदिताः ॥
॥६॥ धरावधपरित्यक्ता धरा चलनिवन्धना ॥ यदा तदा दैत्यपुरं सकलं व्याप्तिमगमत् ॥ ७ ॥ दृष्ट्व म्वपुरं व्याप्तममम्मा दितिजात्मजः ॥
सैन्यैसुवोजयामास जातशङ्कः सुरान्प्रति ॥ ८ ॥ उधुक्तेने म संश्येन दैन्यानां चतुर्गणिना ॥ विजित्य त्रिदशाञ्चन्य आजह्रार त्रिविष्टपम् ॥
॥ ९ ॥ हृताधिकारास्त्रिदशा जग्मुः शरणमज्र्म्मा ॥ देवराजं पुरस्कृत्य वासुदेवमजं विभुम् ॥ १० ॥ त्रिदशाञ्छरणं प्राप्ता
न्हिरण्याक्षाविवासितान् ॥ संयोज्याऽभयददानेन विममर्ज जनार्दनः॥ ११ ॥ विसृज्य त्रिदशान्त्सर्वाग्विन्तयामास केशवः ॥ किन्तु रूपमहं कृत्वा
घातयिष्ये सुरद्विषम् ॥१२॥ तिर्यङ्मनुष्यद्वानांमावध्यः स सुगन्तकः ॥ ब्रह्मणा वरदानेन तन्मातन्म्य बधेय्यया ॥ १३॥ तृवराहो भविष्यामि न
देवो न च मानुषः ॥ नित्येवूपण चौवाहं घातयिष्यामि तं ततः ॥ १४ ॥ एतावदुक्ता मगंन नुवंगोहोऽभवत्प्रभुः ॥ चूर्णिताञ्जनशैलाभस्तप्त
जाम्बूनदान्वभूः ॥ १५ ॥ यमुनावर्तकृष्णाङ्गः तड़ावतंतनुहूहः ॥ तड़ाव इव दुर्धर्षण्णन्मियत्रा तेजमा ममः ॥ १६ ॥ तंन्यवाह इवाश्चर्य्यन्तं
त्वाह इवोचवान् ॥ तत्रप्रवाहमलन्तन्तन्प्रवाहमसनातः ॥ १७ ॥ मजलञ्श्चनकृष्णाङ्गः मजलाश्रुडमुच्छविः ॥ पीतवावामन्डा मोति मवि
द्युदिव तोयदः ॥ १८ ॥ उश्मा धाग्यन्द्वगं शशाङ्कमहृच्छविः ॥ शुशुभे मवभूतात्मा मवलाके इवाम्बुदः ॥ १९ ॥ शशाङ्कलेखविमलं
१ 'सैन्यैसुयोजयामास' इति ख० । २ 'तद्गतः' इति ख० । ३ 'यमुनाश्लाघ्यदन्ताग्रदंष्ट्राविभूषणः' इति ख० । ४ 'तत्रग्राह इवाश्चर्यः प्रवाह इव चोन्नतः' इति ख० ।
दृष्ट्वा तस्य विरेजतुः ॥ मेघान्तरितबिम्बस्य द्वौ भागौ शशिनो यथा ॥ २० ॥ कराभ्यां धारयन्भाति शङ्खचक्रे जनार्दनः ॥ चन्द्रार्कसदृशे
राम पादचारीव पर्वतः ॥ २१ ॥ महाजीमूतसंकाशो महाजीमूतसंन्निभः ॥ महाजीमूतवद्रङ्गी महाबलपराक्रमः ॥ २२ ॥ दानवेन्द्रवधायकाङ्क्षी
हिरण्याक्षो ययौ ॥ हिरण्याक्षोऽपि तं दृष्ट्वा सूवराहं जनार्दनम् ॥ २३ ॥ दानवाँश्चोदयामास तिर्यग्जातमपूर्व्वकम् ॥ गृह्यतां बध्यतां चैव
क्रीडार्थं स्थाप्यतां तथा ॥ २४ ॥ इत्येवमुक्तः संरब्धः पाशहस्तांस्तु दानवान् ॥ जिघृक्षमाणांश्चक्रेण जघान शतशो रणे ॥ २५ ॥ चोदिता दानवेन्द्रेण दान
वाः शस्त्रपाणयः ॥ प्रवर्षुस्तथा देवं शस्त्रवर्षेण केशवम् ॥ २७ ॥ दैत्याः शस्त्रनिपातेन देवदेवस्य चक्रिणः ॥ नैव शेकुर्व्व्यथां
कर्त्तुं यत्नवन्तोऽपि निर्भयाः ॥ २८ ॥ हन्यमानोऽपि दैत्येन्द्रैर्दानवान्मधुसूदनः॥ जघान चक्रेण तदा शतशोऽथ सहस्रशः ॥२९॥ हन्यमानेषु
सैन्येषु हिरण्याक्षः स्वयं ततः ॥ उत्थाय धनुषा देवं प्रवर्षे शरोत्तमम् ॥ ३० ॥ हिरण्याक्षस्तु तान्दृष्ट्वा विफलैँश्च शिली-
मुखान् ॥ शिलीमुखानां संप्रध्वन्समपश्यन्महद्भयम् ॥ ३१ ॥ ततोऽखेदंयुयुधे तेन देवदेवेन चक्रिणा ॥ तान्यस्य फलहीनानि चकार भगवान्
स्वयम् ॥ ३२ ॥ ततो गदां काञ्चनपट्टनद्धां विष्वपितां किंकिणिजालसंवैः ॥ विक्षिप दैत्यस्य वराह्काय ढुङ्कणदग्धा निपपात सा चा
विफलीचकार ॥ ३३ ॥ शक्तिं ततः पट्टिनिद्धमध्यमुल्कानलाभां तपनीयचित्राम् ॥ विक्षिप दैत्यस्स वराह्काय ढुङ्कणदग्धा निपपात सा चा ॥
॥ ३४ ॥ ततस्त्रिशूलं ज्वलिताग्रशूलं स शीघ्रगं देवगणस्य संख्ये ॥ दैत्याधिपस्तस्य ससर्ज वेगाद्वैवेक्षितः सोऽपि जगाम भूमिम् ॥ ३५ ॥
शङ्खस्वेनताऽपि जनार्दनश्च विद्राव्य दैत्यान्सकलान्महात्मा ॥ सकुण्डलं दैत्यगणाधिपस्य चिच्छेद चक्रेण शिरः प्रसह्य ॥ ३६ ॥ निपातिते
दैत्यपतौ स देवः संपूजितः शक्तिपितामहाभ्याम् ॥ मया च सर्वैस्त्रिदशैः समेतैर्जगाम काष्ठां मनसा त्वभीष्टाम् ॥ ३७ ॥ शक्तोऽपि लब्ध्वा त्रिदिवं
महात्मा चिच्छेद पश्चान्नवणीयराणवाम् ॥ ररक्ष चेमां सकलां त्रिलोकीं धर्मेण धर्मज्ञभृतां वरिष्ठः ॥ ३८ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे
प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु सूवराहाप्रादुर्भावे हिरण्याक्षवधो नाम त्रिप्रञ्चाशत्तमोऽध्यायः ॥ ५३ ॥ ॥ शङ्कर उवाच ॥
हिरण्याक्षे हते दैत्ये भ्राता तस्य महात्मनः ॥ हिरण्यकशिपुर्नाम चकारोग्रं महत्त्पः ॥ १ ॥ दशवर्षसहस्राणि दशवर्षशतानि च ॥ जपो
१ 'निस्तनः' इति ख० । २ 'न्यथाम्' इति ख० । ३ 'वेगादिवेक्षितः' इति ख० ।
वि० ध०
॥ ३५ ॥
पृ० सं०
अ० ५४
पवासानिरतः स्नानैर्मोनाश्रितव्रतः ॥ २ ॥ तपःशमदमाभ्यां च ब्रह्मचर्येण चाऽनघ ॥ ब्रह्मा प्रीतमनास्तस्य स्वयमागत्य भार्गव ॥
॥ ३ ॥ विमानेनाऽर्कवर्णेन हंसयुक्तेन भास्वता ॥ आदित्यैस्सहितः साध्यैस्सहितो मरुद्भिर्विधिः ॥ ४ ॥ रुद्रैर्विश्वैस्सहाथैश्च
यक्षरक्षसपन्नगैः ॥ दिग्भिर्वादिग्भिश्च तथा खेचरैश्च महाग्रहैः ॥ ५॥ निम्नगाभिः समुद्रैश्च मातंगैर्वयसांविधिः ॥ नक्षत्रैश्च मुहूर्त्तैश्च कालस्या
वयवैस्तथा ॥ ६ ॥ देवर्षिभिः पुण्यतमैः सिद्धैः सप्तर्षिभिस्तथा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inस्वर्गे वसति दानवः ॥ २५ ॥ यदा वरमदोन्मत्तो ह्यावासं कृतवान् दिवि ॥ यज्ञियान्कृतवांश्चैव दैत्यान्यज्ञेश्वाश्च देवताः ॥ २६ ॥ आदित्या
वसवो रुद्रा विश्वेदेवास्तथाऽश्विनौ ॥ भृगोर्वाङ्गिरसः साध्या मरुतश्च सवासवाः ॥ २७ ॥ शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम् ॥ देवं ब्रह्म
मयं विष्णुं ब्रह्मामृतं सनातनम् ॥ २८ ॥ भूतभव्यभविष्यस्य प्रभुं लोकपरायणम् ॥ नारायणं विभुं देवाः शरणं शरणा गताः ॥२९॥ देवा ऊचुः॥
त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्वधात् ॥ त्वं हि नः परमो देवो ब्रह्मादीनां
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inवक्षस्थलमहागिरिम् ॥ ५० ॥ कृत्वा तमसुभिहीनं दैत्येशं केशवः स्वयम् ॥ असुराणां विनाशं च क्रूरो नह्यविध्यद्वात् ॥ ५१ ॥ हत्वासुरं शोणितबिन्दुचित्रं संपूज्य देवाः सह वासवेन ॥ जगुस्सुखच्छिण्यानि मुदा समेता देवोयथान्तान्हितसुत्सिरास ॥ ५२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु नरसिंहप्रादुर्भावो नाम चतुष्पञ्चाशत्तमोऽध्यायः ॥ ५४ ॥ शङ्कर उवाच ॥ हते हिरण्यकशिपौ दानवे दृप्तकण्टके ॥ हतेष्वन्येषु दैत्येभ्यः पातालतलमाश्रिताः ॥ १ ॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inप्रवावृधे तदा हरिः ॥ २१ ॥ उदङ्मुखैर्दैत्यवरैर्वीक्ष्यमाण इवाम्बुदः ॥ अक्रामंस्तु हरेर्लोकान्दानवाः शस्त्रपाणयः ॥ २२ ॥ अभिद्रवन्ति वेगेन
नानावक्त्रशिरोधराः ॥ गरुडाननाः खड्गमुखा मयूरवदनास्तथा ॥ २३ ॥ घोरा मकरवक्त्राश्च क्रोष्टुवक्त्राश्च दानवाः ॥ आखुदुर्दुरवक्त्राश्च घोर-
वक्त्रमुखास्तथा ॥ २४ ॥ मार्जारशशवक्त्राश्च हंसकान्ताननास्तथा ॥ गोधाशल्यकवक्त्राश्च अजाविमहिषाननाः ॥ २५ ॥ सिंहव्याघ्रशृगालानां
द्वीपिनांनरपक्षिणाम् ॥ हस्त्यश्वगोखरोष्ट्राणां भुजगानां समानानाः ॥ २६॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inवि०ध०
प्र० सं०
अ० ५६
तत्र संशयः ॥ मयैव निर्मिता तत्र मनसा शोभना पुरी ॥ ४६॥ ज्ञातिभिः सह धर्मिष्ठैस्त्वं तत्र यथासुखमात्मवान् त्वं भोक्ष्यसे भोगान्विविधाञ्छुभा-
न्सुदुर्लभान् ॥४७॥ अवाप्स्यसि तथा भोगाँल्लोकेष्विहविविधार्जितान् ॥ प्राक्कामायुक्तश्च तथा लोकेषु विहरिष्यसि ॥४८॥ मन्वन्तरे द्वितीये च महेंद्रत्वं
करिष्यसि ॥ तेजसा च महीयेन शक्रेण योत्स्यसे बले ॥ ४९ ॥ तव शत्रुगणान्सर्वान्घातयिष्याम्यहं तदा ॥ ब्रह्मणस्त्वं शरण्यस्त्वं
यज्ञशीलः प्रियंवदः ॥ ५० ॥ तपस्वी
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in